।।अथ कन्दुकस्तुतिः।।

अम्बरगंगाचुंबितपादः पदतलविदलितगुरुतरशकटः 

कालियनागक्ष्वेलनिहन्ता  सरसिजनवदलविकसितनयनः।

कालघनालीकर्बुरकायः शरशतशकलितरिपुशतनिवहः 

संततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः।।१।।