Nyaya Vivaranam

प्रथमोध्यायः प्रथमः पादः चेतनाचेतनजगन्नियन्त्रे शेषसंविदे ।नमो नारायणायजशर्वशक्रादिवन्दित ॥1॥ कृत्वा भाष्यानुभाष्येहमपि वेदार्थसत्पतेः ।कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिः स्फुटम् ॥2॥ करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् ।प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥3॥ जिज्ञासाधिकरणम् जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते "अथातो ब्रह्मजिज्ञासा' इत्याह । "तद्विजिज्ञासस्व तद्ब्रह्म' इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । "अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः' इति श्रुतेः ॥1॥ जन्माधिकरणम् न जीव एवायं ब्रह्मशब्दः । "यतो वा इमानि भूतानि जायन्ते' इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः ॥2॥ शास्त्रयोनित्वाधिकरणम् न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य ॥3॥ समन्वयाधिकरणम् न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादलिक्षणः समन्वय एव ॥4॥ ईक्षत्यधिकरणम् न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । "सर्वे वेदा यत्पदमामनन्ति' इत्यादि श्रुतिसहितानुभवस्य बलवत्वात् ॥5॥ आनन्दमयाधिकरणम् न चावयवत्वविरोधः "नेह नानास्ति किञ्चन' इति श्रुतेरवयवाद्यभेदात् ॥6॥ अन्तस्थत्वाधिकरणम न च "ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोनुक्लृप्तं वाचो वीर्यं तपसान्वविन्दत् ।' इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः ॥7॥ छन्दोधिकरणम् (गायत्र्यधिकरणम्) अधिभूताध्यात्माधिवेदगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धलिङ्गैः । "तावानस्य महिमा ततो ज्यायांश्च पुरुषः' इत्यादिशब्दसहितलिङ्गैश्च । सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामपि असन्दिग्धयोः केवलयोरेव बलवत्वात् ॥8-11॥ पादान्त्यप्राणाधिकरणम् न च चानन्यथासिद्धत्वमन्यत्र श्रुतिलिङ्गादेः । अन्यगतलिङ्गदीनामपि तद्गभगवदपेक्षया युक्तेः ॥12॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः सर्वगतत्वाधिकरणम् बहुलिङ्गसहितश्रुतेरपि सावकाशायाः निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वादित्येनुक्तिरित्यादिलिङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ॥1॥ अत्तृत्वाधिकरणम् सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिः लिङ्गं चादितिशब्दोदितत्वं च ॥2॥ गुहाधिकरणम् द्विवचनश्रुतेरपि निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥3॥ अन्तराधिकरणम् "सोहमस्मि' "स एवाहमस्मि' इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥4॥ अन्तर्याम्यधिकरणम् पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः विष्णोरपि ॥5॥ अदृश्यत्वाधिकरणम् "अक्षरात् परतः परः' इति श्रुतेरपि नाक्षरात् सम्भवतीह विश्वं इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥6॥ वैश्वानराधिकरणम् श्रुतिसाधारण्येपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलात् निश्चयः ॥7॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः द्युभ्वाधिकरणम् "प्राणानां ग्रन्थिरसि' "रुद्रो वै लोकायतनम्' "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।' "सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णोरेवोताश्च प्रोताश्च भवन्ति' इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥1॥ "यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः' इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दलिङ्गबाहुल्यम् । "प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः ।' "प्राणेश्वरः कृत्तिवासाः पिनाकी' "मनो वै रुद्र ओतं च प्रोतं च' "रुद्रो वाव लोकाधारः' इत्यादिकं शब्दबाहुल्यम् ॥1॥ तेषामेव लिङ्गशब्दानां "प्राणानां ग्रन्थिरसि' इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥1॥ भूमाधिकरणम् "प्राणो वा आशाया भूयान्' "विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम' इत्यादेर्भूमशब्दोज्ञानां साधारणः ॥2॥ "प्राणो वा आशाया भूयान्' इत्युक्त्वा प्राणाद्भूयसोनुक्तिः ॥2॥ प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । चशब्देन "एष तु वा अतिवदति' इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥2॥ अक्षराधिकरणम् विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः ॥3॥ अत्तेत्युक्त्वा "न तदश्नाति किञ्चन' इति विरुद्धता ॥3॥ सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम् । "पतिं विश्वस्यात्मेश्वरं' "विश्वात्मानं परायणम्' इत्यादिश्रुतेः । अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥3॥ सदधिकरणम् कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च "सदेव सोम्येदमग्र आसीत्' इत्यादिसृष्टिस्थानं साधारणम् ॥4॥ "बहु स्यां प्रजायेय' इत्यन्यस्यान्यभावादृष्टिः ॥4॥ अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥4॥ दहराधिकरणम् लिङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥5॥ "दहरोस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्' इत्यनेन "यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः' इत्यस्यान्वयाभावः ॥5॥ आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु योन्वेष्टव्यो भगवान् तस्यान्तर्हृदये यावान् वायमाकाशस्तावानाकाशः तस्मिन् द्यावापृथिवी अन्तरेव समाहिते स भगवानपहतपाप्मेत्यन्वयः ॥5॥ अनुकृत्यधिकरणम् "कथं नु तद्विजानीयाम्' इत्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रहः ॥6॥ "तदेतदिति मन्यन्ते' "कथं नु तद्विजानीयाम्' इति "तेषां सुखं शाश्वतं नेतरेषाम्' इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥6॥ यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥6॥ वामनाधिकरणम् "ऊर्ध्वं प्राणमुन्नयति' इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते इत्यादिवाक्यात् भ्रमः ॥7॥ लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥7॥ देवताधिकरणम् अपशूद्राधिकरणम् कम्पनाधिकरणम् वज्रशब्द उद्यतलिङ्गं च तादृग्द्वयम् ॥10॥8॥ वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥10॥8॥ ज्योतिरधिकरणम् आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणम् "आदित्येनैवायं ज्योतिषास्ते' इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥11॥9॥ "अयं पुरुषः' इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । "आदित्येनैव' इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात् ॥11॥ आकाशाधिकरणम् पुनः शब्दाः "ईशानो वज्रो ज्योतिराकाशः' इति ॥7॥10-12॥ "वै नाम' इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥12॥11॥ वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम् ॥12॥ सुषुप्त्यधिकरणम् लिङ्गं स्वप्नादिदर्शनं कस्येति ॥13॥ सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोः भेदोक्तेरसङ्गतत्वादि चेश्वरस्यैवेत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥13॥ ब्राह्मणाधिकरणम् शब्दो ब्राह्मण इति ॥14॥ ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य सह परमात्मनाभेदं विनावकाशराहित्यदर्थादभेदप्राप्तिरिति समस्तमेतत् ॥14॥12॥ पूर्वपक्षः॥ ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेनवकाश इति समस्तमेतत् ॥14॥ जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥13॥11॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः आनुमानिकाधिकरणम् अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि । "निरनिष्टो निरवद्यः' इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमात् विष्णोः "नामानि सर्वाणि यमाविशन्ति' इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्यापतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु प्रसिद्धेश्च । प्रसिद्धत्वाच्च कर्तृव्युत्पत्तेः । "तमेव मृत्युममृतं तात दैवं सर्वात्मनावैहि परं परायणम्' इत्यादेश्च । उपचारकल्पनायाश्च क्लिष्टत्वात् । प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वङ्गीकारे सर्वमानविरोधः ॥1॥ नसङ्ख्योपसङ्ग्रहाधिकरणम् रूढिः (रूढो रूढयोगो महारूढो महायोगो महारूढयोगो - पा) योगः रूढियोगः महायोगो रूढी रूढियोगो महायोगो महारूढियोगो रूढोपचारो रूढलक्षणोपचारो लक्षणेति शब्दवृत्तिभेदात् रूढिपूर्वकत्वेन महायोगवृत्या परमेश्वरे अखलिशब्दव्युत्पत्युपपत्तिः ॥2॥ नसङ्ख्योपसङ्ग्रहाधिकरणम् बहुरूपत्वादधिकरणाधेयत्वादिकं तस्यैव युज्यते ॥3॥ आकाशाधिकरणम् व्यक्त्यपेक्षया कार्यत्वं च ॥4॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः ॥द्वितीयोध्यायः प्रथमः पादः स्मृत्यधिकरणम् रुद्रादीनां सकाशात् विष्ण्वादीामेवाप्तत्वम् । श्रुत्यनुसारित्वात् ॥1॥ नविलक्षणत्वाधिकरणम् न च श्रुतेः रुद्रादिस्मृतिसाम्यं किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वात् ॥2॥ अभिमान्यधिकरणम् न मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणम् । अपि तु वचनादिशक्ताया देवताया मृदादिशब्दवाच्यत्वद्योतिकैव ॥3॥ असदधिकरणम् ईश्वरस्य स्रष्टृत्ववदसतोपि स्रष्टृत्वं श्रूयत इति नास्ति । सोसच्छब्दो ब्रह्मशब्दवदेव ब्रह्मवाचक इति श्रुतिसाम्यम् ॥4॥ भोक्त्रधिकरणम् "कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति' इति श्रुतिबलान्नैक्यम् । किन्तु भेदापादकमेवैतत् "निरञ्जनः परमं साम्यमुपैति' "परात् परं पुरुषमुपैति दिव्यम्' इति सन्निहितवाक्यबलात् । एकीभावशब्दस्तु सान्निध्येपि भवति । "एकीभूता तु सा सेना पाण्डवानभ्यवर्तत' इतिवत् ।यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ इति वाक्यान्तराच्च ॥5॥ आरम्भणाधिकरणम् न च लौकिकसर्वकार्यानुसारेणाकर्तृतन्त्रत्वं सर्वानुसारः । किं तर्हि तद्वैलक्षण्येन सर्वकर्तृवलिक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारि । "एष सर्वेश्वरः' इति श्रुतेः । युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवती ॥6॥ इतरव्यपदेशाधिकरणम् न चेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवम् । श्रुतिसिद्धत्वेनाकल्पनात् । अश्रुतजीवकर्तृत्वाङ्गीकारे गौरवमेव । तदभावात् सिद्धान्ते लघुता । "नान्यः कर्ता स हि स्वतन्त्रः परमात् परमो हरिः' इत्यादेश्च । अभेदपक्षस्तु निराकृतः । श्रुत्यनुभवविरोधाच्च ॥7॥ श्रुतेस्तु शब्दमूलत्वाधिकरणम् शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीवे । न जीवाद्विशेषादर्शनं परमेश्वरे । विशेषश्रुतेरेव ॥8॥ प्रयोजनाधिकरणम् न च प्रयोजनाभावोकर्तृत्वे कारणम् । अशेषकर्तृत्वापादकश्च । फलापेक्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिः इतरस्य पूर्णत्वादेवानन्तशक्तित्वाच्च लीलयैव कर्तृत्वम् ॥9॥ वैषम्यनैर्घृण्याधिकरणम् नेशस्य पूर्णत्वासिद्धिः । कर्मसापेक्षत्वेनीशत्वमनपेक्षत्वे श्रुतेरप्रामाण्यमिति । कर्मणोपि तदधीनत्वम् । तथापि तदनुसारेण फलदानमित्यनङ्गीकार एवेष्टश्रुतिप्रामाण्यासिद्धिः ॥10॥ सर्वधर्मोपपत्त्यधिकरणम् सर्वचेतना अपूर्णगुणा इति नियमो न । स्वतन्त्रस्य पूर्णगुणत्वनियमात् "अपूर्णोयं जीवसङ्घोस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव । न हि स्वतन्त्रोपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतः सः ॥' इति श्रुतेः ॥11॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्षन्यायाः तद्विरोधिनोन्ये इति प्रसिद्धा एव ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः वियदधिकरणम् न च वियतः उत्पत्तिमत्वेनुभूतियुक्तिबहुवाग्विरोधोस्ति व्यवस्थायोगात् । अवकाशमात्रस्याव्याकृतात्मकत्वादनुत्पत्तिवचनानां तद्विषयत्वं उत्पत्तिवचनानामसितवर्णभूताकाशतदभिमानिशरीरविषयत्वं पराधीनविशेषत्वमात्रविषयत्वं चेति व्याख्या । आकाशो नीलिमोदेति न प्रदेशः कथञ्चन । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि ॥ इति पैङ्गिश्रुतिः ॥1॥ मातरिश्वाधिकरणम् ततोधिकमेतत्सर्वमनुभूत्यादिविरुद्धत्वं वायूत्पत्ताविति न वायोरेवानुत्पत्त्यनुपपत्तेः । पराधीनविशेषमात्रं ह्युत्पत्तिः । तदभाव उभयोः स्वातन्त्र्यं विरुद्धमेव । सर्वोत्तमत्वानुपपत्तेः । उभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुरोधे अननुरोधे तु न सर्वैश्वर्यम् । ज्ञानाविस्मृत्या वायावपि व्यवस्थेत्यतिदेशः । अनुपपत्तिस्तु तत्प्रापिका । पराधीनविशेषवत्त्वमात्रं त्वाव्याकृताकाशस्य तदभिमानिप्रकृतेश्च सममेव ॥2॥ असम्भवाधिकारणम् न च सतः पराधीनविशेषवत्वं स्वातन्त्र्यात् ॥3॥ तेजोऽधिकारणम् न च विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यम् । द्वारमनुसृत्यैव विष्णोः प्रवृत्तेः ॥4॥ अबधिकरणम् न च तेजस एवापामुत्पत्यङ्गीकारे घर्मात् स्वेदादिदृष्ट्यनुसारित्वमिति गुणाधिक्यम् । मुख्यार्थपरित्यागप्राप्तेः ॥5॥ न चअद्भ्यो वान्नमुत्पद्यते इत्याद्युक्तप्रसिद्धान्नाख्यान्यार्थाविरोधेन प्रसिद्धान्ननामस्वीकारे बहुवाक्यानुवर्तितेति गुणः । अन्नशब्दस्य प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्वात् । अधिकारादीनां निरवकाशत्वाच्च । बहुवाक्यानुरोधोप्यत्रैवेति ॥6॥ पृथिव्यधिकरणम् न च रुद्रादीनां लयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेः लोकदृष्ट्यनुसारित्वमिति गुणः । लोकपितृवैरूप्यात् विष्णोर्यथावाक्यमङ्गीकारोपपत्तेः । अन्यथा "न विष्णोरन्यो वलियकृन्न विष्णोरन्यो विमुक्तिदः' इत्यादि श्रुतिविरोधात् । रुद्रस्य तु क्वचित् संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वात् ॥7॥ तदभिध्यानाधिकरणम् न च लोकानुसारित्वम् । क्रमादुत्पद्यते क्रमात् विलीयते क्रमेणैवोत्पत्तिः वलियश्च क्रमेणैवास्योत्पत्तिवलियौ इत्यादि लोकानुसारिबहुश्रुत्यनुरोधश्च यथोत्पत्तलिये ।द्विविधः क्रम उद्दिष्टो व्यत्क्रमनुक्रमस्तथा । सुष्टावन्यो लये चान्य इति वेदविदो विदुः ॥ विपर्ययाधिकरणम् इति श्रुतेः क्रमवाक्यस्य सावकाशत्वात् वैरूप्यं बहुप्रकारत्वं क्रमस्य ॥8॥ अन्तराधिकरणम् न च केषाञ्चित् क्रमाल्लयः केषाञ्चित् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादन्तरा विज्ञानमनसी व्युत्क्रमः । सर्वं वा एतत् क्रमादुत्पद्यते व्युत्क्रमाल्लीयते इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयसङ्ग्रहात् तल्लिङ्गस्य तु चराचरव्यपाश्रयविज्ञानादिविषयत्वेवैव सावकाशत्वात् ॥9॥ आत्माधिकरणम् न च चेतनत्वसाम्यात् विष्णोरपि देहलयः । "सर्वे वा एते चिदात्मानो ब्रह्मंल्लयमनुप्राप्य विष्णोरुदरे संविशन्ति' इति तस्योदरे सर्वसङ्ग्रहादिश्रुतिभ्यो नित्यत्वावगमात् तद्देहस्य । अश्रुतत्वाच्चान्यथा ॥10॥ ज्ञाधिकरणम् न चानादित्वाज्जीवस्य पराधीनविशेषाप्राप्तिः । "इदं सर्वमसृजत' इति सर्वस्मिन् गृहीतत्वात् । पराधीनविशेषवत्वेप्यनादित्वस्याविरोधात् ॥11॥ उत्क्रान्त्यधिकरणम् न च सर्वदेहे स्पर्शज्ञानाद्रसादीनां च तत्र तत्र परिज्ञानाज्जीवस्यानणुत्वम् । उत्क्रान्तिगत्यादेः । आदिशब्देन सूक्ष्मतेजोरूपेण व्याप्त्या स्पर्शादिज्ञानोपपत्तिः । अतोणुत्वमनणुत्वं चेति भावः ॥12॥ व्यतिरेकाधिकरणम् न च जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यम् । ईशशक्त्यैव बहुरूपत्वादेः ॥13॥ पृथगधिकरणम् न च श्रुत्या जीवेश्वरैक्यम् । सर्वमानविरोधात् । श्रुतेः सादृश्यैक्यवादिना सावकाशत्वात् । बहुमानविरोधे एकस्य दौर्बल्याच्च । धर्मिग्राहकविरोधाच्च ॥14॥ यावदधिकरणम् न चोत्पत्तिमत्वाद्विनाशित्वं जीवस्य । अनित्यत्वे तदभीष्टमोक्षाद्यसिद्धेः । न च पराधीनविशेषवत्वमात्रेण विनाशित्वम् । तादृशानामेव नित्यत्वश्रुतिविरोधात् ॥15॥ पुंस्त्वाधिकरणम् न च स्वगुणाननुभूतत्यनुपपत्तेः पूर्वं ज्ञानादीनां सामस्त्येनाभावः । पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेः ॥16॥ कर्तृत्वाधिकरणम् न चेश्वरस्यैव कर्तृत्वे कल्पनालाघवम् । जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यात् । तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्च ॥17॥ अंशाधिकरणम् न च नानाश्रुतेरप्रामाण्यम् । दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य विपरीतज्ञानमूलत्वात् ॥18॥ अदृष्टाधिकरणम् न च वैचित्र्यमनाभासत्वे कारणम् । जीवानां सामान्यतः आभासत्वेपि विशेषादृष्टात् वैचित्र्योपपत्तेः ॥19॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः प्राणोत्पधिकरमणम् न च प्राणानामुत्पत्यङ्गीकारे "प्राणा एवानादयः' इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः । "आत्मैवेदमग्र आसीत् स प्राणमसृजत स प्राणान्' इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात् । "इदं सर्वमसृजत' इति सामान्यवचनस्याधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेः सावकाशाया उभयश्रुतेः प्राबल्यात् ॥1॥ तत्प्रागधिकरणम् न च "नित्यं मनोनादित्वात्' इति विशेषश्रुतिविरोधः । "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति विशेषश्रुतेः ॥2॥ तत्पूर्वकत्वाधिकरणम् न च "वाग्वाव नित्या' इति विशेषश्रुतिविरोधः "मनसो वाव वागुत्पद्यते वाचो व्याहरणम्' इति विशेषश्रुतेः ॥3॥ सप्तगत्यधिकरणम् न च "दशेमे पुरुषे प्राणाः आत्मैकादशः' "सप्त प्राणाः प्रभवन्ति तस्मात्' इति सङ्ख्याविशेषश्रुत्योरेव परस्परविरोधः । "गुहायां निहिताः सप्त सप्त' इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात् सङ्ख्याश्रुत्योः विषयवैलक्षण्यात् ॥4॥ अण्वधिकरणम् न च "दिवीव चक्षुराततम्' इति व्याप्त्याख्यविशेषवाचकश्रुतिविरोधः । "अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्याततः' इति ततोप्यणुत्ववाचकविशेषश्रुतिविरोधात् ॥5॥ श्रेष्ठाधिकरणम् न च यत्प्रीतिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥ इत्यादिमाहात्म्यवचनात् मुख्यप्राणस्य नोत्पत्तिरिति वाच्यम् । महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् । किं नाम न सृजेदेष येन शक्येदमावृतम् ॥ इति श्रुतेस्ततोपि माहात्म्याद् विष्णोः ॥6॥ unknown न च प्राणादिपञ्चस्य व्यक्तसद्गुणत्वान् मुख्यप्राणवृत्तित्वमेव । अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येपि प्राणाद्याः सद्गुणैर्युताः ॥7॥ पञ्चवृत्त्यधिकरणम् इति श्रुतेः मुख्यप्राणस्य ततोपि व्यक्तसद्गुणत्वात् ॥8॥ अण्वधिकरणम् न चाणुत्वे प्राणस्य "महान् वै मुख्यप्राणो येन व्याप्तं चराचरम्' इति दृष्टायुक्तिः । "अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिः' इति दृष्टायुक्तेरनणुत्वे प्राणस्य ॥9॥ ज्योतिरधिकरणम् न चेन्द्रियाणां जीवाकरणत्वे दृष्टायुक्तिः । क्वचिदतद्वशत्वस्यापि दृष्टत्वात् । "यच्चक्षुषि तिष्ठन्' इत्यादिदृष्टात्युक्तेरीशाधीनत्वानङ्गीकारे । लौकिकदृष्टेस्त्वीशेनैव जीवानुसारित्वक्लृप्त्योपपत्तेः ॥10॥ इन्द्रियाधिकरणम् न चेशवशत्वसाम्यात् मुख्यप्राणस्याप्यन्यसाम्यम् "यस्मिन्निदं सर्वमध्याधर्नोत्' "प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्' इत्यादि श्रुतेरीशसाम्यस्यापि भावात् । "प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः' इति श्रुतेर्मध्यमत्वोपपत्तेः ॥11॥ सञ्ज्ञाधिकरणम् न च विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा ।त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥ अतो रूपस्य नाम्नश्च व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पितातो भगवान् प्रभुः ॥ इत्यादेस्तस्यैव कर्तृत्वशक्तेर्विरिञ्चस्य तु द्वारतयोपपत्तेः ॥12॥ मांसाधिकरणम् न च मिश्रत्वाद् भूतानां मिश्रतायामविशेषः । "अन्नमशितं त्रेधा विधीयते' इत्यादिना मिश्रतायामपि विशेषोक्तेः ।सर्वं च भौतिकं मिश्रं मिश्रत्वेपि विशेषतः । भौमं मांसमसृग्वारि तेजो मज्जा विशेषतः ॥ इत्यादेश्च ॥13॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य चतुर्थः पादः ॥तृतीयोध्यायः प्रथमः पादः तदन्तराधिकरणम् "भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्' इति वचनात् स्वाभाविकमरणमेव मुक्तिरिति न मन्तव्यम् । मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशात् मरणे भूतवियोगस्यैवाभावात् । "भूतयुक्तः परं लोकमिमं लोकं च गच्छति' इत्यादिवचनात् ॥1॥ त्र्यात्मकत्वाधिकरणम् "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यत्र भूतानीति सामान्यनामानुक्त्वापामिति विशेषनामकथनादपामेव सहगतिरिति न वाच्यम् । त्र्यात्मकत्वादपामर्थतः सर्वभूतानां गतिप्राप्तेः ॥2॥ प्राणगत्यधिकरणम् न च भूतानि गच्छन्तीति सहैवानुक्तेस्तदभावः । प्राणगतेरुपपत्तित उक्तत्वात् ॥3॥ अग्न्याद्यधिकरणम् न च "अग्निं वागप्येति' इत्याद्यन्यथोक्तेः प्राणानां च न सहगतिः द्विरूपत्वात् प्राणानाम् ॥4॥ प्रथमाधिकरणम् न च "प्रथमतो भूतानि जुह्वति' इति विशेषानुक्तेः भूतानामसहगतिः "भूतानि जुह्वति' इत्युपक्रमादपि "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्युपसंहारस्याधिक्यात् तदनुसारेणोपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्यापत्तेः । उपक्रमविरोधेनोपसंहारानुपपत्तेः । उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यम् । व्याख्यानस्य पश्चात्तनत्वनियमात् । उपक्रमानुसारित्वनियमेप्युपसंहारस्योपसंहारेणैवोपक्रमार्थो ज्ञायते ॥5॥ अश्रुतत्वाधिकरणम् न च विशेषाश्रवणनियम एव बलवान् । स्थानान्तरश्रवणस्याप्येतदनुरूपत्वात् । आर्थिकश्रवणमप्यनुक्तिं बाधत एव । किमु स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव नेष्टादिकारिणां प्रतीतेरिति परिहारान्तरमुक्तम् ॥6॥ भाक्ताधिकरणम् न च "अपाम सोमममृता अभूम' इति विशेषत एव मोक्षफलस्याप्युक्तेः कर्मैव तत्साधनमिति मन्तव्यम् । "नान्यः पन्थाः अयनाय विद्यते' "स च आत्मानामेव लोकमुपास्ते । यावदिन्द्रो यावन्मनुर्यावदादित्यः' इत्यादिश्रुतिबलादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेः ॥7॥ कृत्ययाधिकरणम् न चानुशयस्यापि सहभावात् स्वर्ग एव फलदत्वम् । भुक्तशेषानुशयवान् इत्यादिवचनाद्यथायोग्यमेव फलदानोपपत्तेः ॥8॥ यथेताधिकरणम् न च मार्गस्यापि सहभावाद्यथागतमेवागमनमिति नियमः । वचनबलाद्यथायोग्यमेवागमनोपपत्तेः ॥9॥ चरणाधिकरणम् न च "इष्टापूर्ते दत्तमित्युपासते' इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमात् वदन्तीति वाच्यम् । "नान्यः पन्थाः' इत्यादिवचनादेवोभयोरपि चरणशब्देनैवोक्तेर्योग्यत्वात् ॥10॥ अनिष्टाधिकरणम् न च भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारः । अनिष्टकादिकारिणां तदभावान्मुक्तिरिति वाच्यम् । तेषां प्रबलदोषश्रुतेः ॥11॥ अपिसप्ताधिकरणम् न च नरकभोगस्यानित्यत्वकथनान्नित्यनरकोक्तिः विरुद्धा ।रौरवोथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥ तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ॥ इति विभागात् ॥12॥ तत्राप्यधिकरणम् न च सहस्थानादीशस्यापि नरकदुःखप्राप्तिः । स्वातन्त्र्यात् कारणाभावात् ॥13॥ विद्याधिकरणम् न च साधनेन सह श्रुतेस्तद्वत् फलेपि जीवस्य स्वातन्त्र्यम् । अविहितत्वेन कारणाभावात् । अथैतयोः पथोः इत्यस्य च साधनार्थत्वात् ॥14॥ तृतीयाधिकरणम् न च दुःखसहस्थायित्वादन्धेतमस्यपि सुखम् । ईशस्याप्रियत्वेनैव कारणाभावात् ॥15॥ तत्स्वाभाव्याधिकरणम् न च धूमादिदेवतासहावस्थानात् कर्मिणोपि तत्पदप्राप्तिः । तन्निमित्तविद्याख्यकारणाभावात् ॥16॥ नातिचिरेणाधिकरणम् न च तैस्तैः सहावस्थानादतिचिरत्वम् । "वत्सरात् पूर्वमेवतु' इति क्लृप्तकालादधिकावस्थाने कारणाभावात् ॥17॥ अन्याधिकरणम् न च व्रीह्यादिजीवैः सहावस्थानात् दुःखप्राप्तिः । शब्दविहितत्वेन पापाख्यकारणाभावात् ॥18॥ रेतोऽधिकरणम् ईशक्लृत्प्यैव पितरं प्रविश्यायाति न च वैयर्थ्य पितृशरीरगमने मातरम् इतीशक्लृप्तत्ववचनात् ॥19॥ unknown न च पितुः सकाशादन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर्योनिप्रवेशाभाव इति वाच्यम् । "योनिद्वारेण देहं च प्राप्नोति प्रायशो नरः' इति वचनात् सामान्यतो गत्यन्तराभावात् । विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नृणां सामान्यहेतुतः ॥ इति वचनाच्च ॥20॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः सन्ध्याधिकरणम् पश्चाददृष्टेः स्वप्नविषयस्यासत्त्वं न वाच्यम् । अशक्यकरणशक्तिमत्त्वादीश्वरस्य संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेः। जाग्रत्वप्रतीतिमात्रस्य भ्रमत्वात् ॥1॥ पराभिध्यानादिकरणम् न चाविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञानशक्त्यैव स्वप्नतिरोधानं नेशेनेति वाच्यम् । बोधे जीवस्यास्वातन्त्र्यात् । ज्ञानाज्ञानयोस्तदन्यत्वे जडत्वात् कैमुत्येनास्वातन्त्र्यात् । तत्स्वरूपत्वे तेनैव व्याख्यातत्वात् । उभयात्मकत्वे दोषद्वयापातात् । अनुभयत्वस्य व्याहतेः । तावन्मात्रनिमित्तत्वे मानाभावात् । सर्वस्येशहेतुत्वे मानाच्च ॥2॥ देहयोगाधिकरणम् न च कालापेक्षयैव जागरितम् । अचेतनत्वादेव कालस्य । चेतनान्तरस्याप्यस्वातन्त्र्यात् ॥3॥ तदभावाधिकरणम् न च परमात्मनोन्यत्राभावस्थाने दुःखित्वप्राप्तेर्नाडीषु सुप्तिर्न भवति उभयस्वीकारोपपत्तौ मानस्य क्लृप्तकारणमित्यनवस्थितिदोषादतिप्रसङ्गात् ॥4॥ प्रबोधाधिकरणम् न च प्रबोधस्य पृथगपि कारणदृष्टेः क्वचित् तदेव । न ऋते त्वत्क्रियते इति श्रुतेस्तत्रापि ईशकृतत्वे सम्यङ्मानात् ॥5॥ कर्मानुस्मृत्यधिकरणम् न च राजादीनां पृथग्दर्शनादीशान्तरकल्पना । देशकालविशेषेपि स्वप्नादीनां स एव हि । तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत् ॥ इति श्रुतिमानात् ॥ 6॥ सम्पत्यधिकरणम् न च मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादिति वाच्यम् । परिशेषमानादर्धप्राप्तित्वावगमात् ॥7॥ स्थानतोप्यधिकरणम् न च स्थानभेदाद्विष्णोरपि भेदः । अयमेव सः । नेह नानास्ति किञ्चन इत्यादि श्रुतिबलात् स्थानानां भेदस्तस्याभेद इति व्यवस्थोपपत्तेः ॥8॥ अरूपाधिकरणम् न च रूपवत्त्वारूपवत्त्ववचनयोः विरोधादप्रामाण्यम् । अप्राकृतरूपवत्त्वमिति व्यवस्थोपपत्तेः ॥9॥ उपमाधिकरणम् न च परमात्मना चेतनत्वन्यायसाम्येन जीवस्याप्यभेदः । अल्पगुणत्वादिविरोधात् ॥10॥ अम्बुवदधिकरणम् न च सादृश्यस्य सत्त्वात् साधनं विनैव जीवस्य तादृक्त्वव्यक्तिः । अनादितः संसारस्यानिवृत्तत्वेन भावात् ॥11॥ वृद्धिह्रासाधिकरणम् न च मुक्तत्वादिगुणसाम्यात् ब्रह्मादीनां भक्त्यादिगुणसाम्यम् । यथा यथाधिकारो विशिष्यते एवं ज्ञानं भक्तिर्बलं च विशिष्यते । मुक्तावानन्द एते च गुणा विशिष्यन्ते अत आहुब्रह्मणे मुक्ता बलिं हरन्ति इत्यादिविशेषदृष्टेः ॥12॥ प्रकृताधिकरणम् न च संहारकर्तुरसंहारादन्यरक्षाया अयोगः । स सृजति स पालयति स विनाशयति इत्यादि विशेषवाक्यात् । अन्नदानाद्युपपत्तेश्च ॥13॥ अव्यक्तत्वाधिकरणम् न चाव्यक्तस्वभावस्य दर्शने तर्कबाधः । अनन्तशक्तित्वात् विष्णोस्तच्छक्त्या अव्यक्तस्यापि दर्शनोपपत्तेः ॥14॥ अहिकुण्डलाधिकरणम् न च गुणानां गुणिस्वरूपत्वं विरुद्धम् । कालादिदृष्टान्तात् ॥15॥ परमताधिकरणम् न च ब्रह्मानन्दादीनामन्यथात्वात् अतच्छब्दत्वं तच्छब्दत्वे लोकोपमत्वं चेति विलोमता । अलौकिकास्तस्य शब्दास्तथार्था अलौकिको ह्येष विष्णुः परत्वात् । तथापि शब्दा लौकिका अप्यमुष्मिन् प्रवर्तमाना अधिकार्थान् वदन्ति ॥ इत्यादि श्रुतिभ्योलौकिकत्वावगमात् ॥16॥ स्थानविशेषाधिकरणम् न च ब्रह्माद्यानन्दवैचित्र्ये बिम्बभूतविष्ण्वानन्दवैचित्र्यम् । आदित्यादिवदाधिक्यात् । न हि सूर्यकान्तप्रतिबिम्बस्याग्निजनकत्वशक्तिर्न जलगतस्येत्येतावता सूर्यवैचित्र्यात् । आधिक्यं हि तत्र निमित्तम् । सूर्यचन्द्रादिप्रतिबिम्बं विनान्यत्र तथा विशेषादृष्टेः ॥ 17॥ तथाऽन्यत्वाधिकरणम् न च नानाभावात् विष्णोश्चित्तप्रतिबिम्बरूपता । आधिक्यादेव । प्रतिबिम्बे हि दोषाश्च प्रतीयन्ते । अतो हि श्रुतिः प्रतिषेधति नेदं यदिदमुपासते इति ॥ 18॥ सर्वगत्वाधिकरणम् न च नानावतारकौतुकदर्शनात् विष्णोः क्वचिद्देशकालान्तरे कौतुकादेव सृष्ट्यादिकमकुर्वन् अन्यमेव सामस्त्येन नियोजयति । सर्वत्र सर्वमेतस्मात् इति क्रीडायामपि स्वातन्त्र्यात् । स्वातन्त्र्यात् क्रीडते विष्णुर्न च स्वातन्त्र्यमन्यगम् । करोति क्वपि नियता क्रीडा सृष्ट्यादिगास्य च ॥ नियतक्रीडनादेव कर्ता नान्योस्ति कस्यचित् । अस्वतन्त्रो हि चलति चलचित्तादशक्तितः ॥ स्वतन्त्रः पूर्णशक्तिः सन् कुतोसौ नियतिं त्यजेत् ॥ इति श्रुतेश्च ॥19॥ unknown न च कर्मान्वयव्यतिरेकात् फलस्येश्वरः फलदातेति प्रलोभमात्रम् । तस्यैव स्वातन्त्र्यात् । कर्माण्यनन्तानि यथेष्टमीशः सम्पाद्य तेषां फलमिच्छयैव । क्वचिद्ददाति क्व च नो ददाति न ह्यानन्त्यात् कर्मणां भोगनाशः ॥ स्वातन्त्र्यं चेत् कर्मणां सर्वभोगः स्यान्न ह्येवं क्वापि तत् केनचित् स्यात् । अतोपि स स्वेच्छया किञ्चिदेव फलं कुर्यात् विफलं प्रायशश्च ॥ क्वचिज्ज्ञानं जनयन् भस्म कुर्यात् स्वेच्छावृत्तिस्तस्य विष्णोः सदैव ॥ इति ब्रह्माण्डे । स्वतन्त्रः ईश एवैकस्तद्वशं कर्म सर्वदा । अत ईशत्वमीशस्य न हीशोन्यः कथञ्चन ॥ इति श्रुतिः ॥ अतो प्रलोभकल्पने श्रुतहानिरश्रुतकल्पना चेति हरिरेव फलप्रदः ॥20॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः सर्ववेदाधिकरणम् न च प्रतिशाखमुच्यमानानामर्थानां पृथकत्वात् तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियमः । "नानावेदैरितिहासैः पुराणैः सुज्ञेय एको भगवान् युक्तिभिश्च' इति श्रुतेः सुष्टु ज्ञेयत्वात् विष्णोः ॥1॥ उपसंहाराधिकरणम् न चाशक्यतया कस्यापि सर्वगुणोपसंहारो नास्ति । "सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान् विधिकृन्नान्यथा स्यात्' इति श्रुतेर्विहितक्रियालोपप्रसङ्गात् ॥2॥ प्राप्त्यधिकरणम् केषाञ्चित् सर्वगुणोपसंहारस्य कर्तव्यत्वे सर्वेषामपि तथा स्यात् अनेन नोपसंहर्तव्या अनेनोपसंहर्तव्या इत्यनिर्णीतेरिति न मन्तव्यम् । यस्य यावद्गुणाः स्पष्टं प्रतिभासन्त्युपासते । युगपत् स्वभुजौ यद्वद् ध्यायेत् तावत एव सः ॥ युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः ॥ इति श्रुतेर्युगपद्गुणप्रतीत्यादिमाहात्म्यान्निर्णयोपपत्तेः ॥3॥ सर्वाभेदाधिकरणम् न च फलानिर्णीतिः । माहात्म्येनैवान्यत् फलं महतामिति निर्णयोपपत्तेः ॥4॥ आनन्दाधिकरणम् आनन्दादीनां केषाञ्चित् समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादिति न मन्तव्यम् । अल्पशक्तित्वात् तेषां पुंसाम् ॥5॥ प्रियशिरस्त्वाधिकरणम् प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात् तेषामपि सर्वोपसंहार्यत्वमिति न मन्तव्यम् ।यथायोग्यान् गुणपूगानुपास्य फलं भवेन्मुक्तिगं नान्यथा स्यात् । नित्यैकाग्र्यव्यङ्ग्यताहेतुतश्च साक्षाद्दृशिर्नो तद्विशेषैः स्मृतैश्च ॥ इति श्रुतेः स्वयोग्यगुणैरेव फलभावात् ॥6॥ इतराधिकरणम् तर्हि ब्रह्मणोन्येषां देवादीनामपि बहुगुणोपासनया कार्यं नास्ति मध्ये नियमासिद्धेरिति न मन्तव्यम् । तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेः । यो यो भावो देवतानां विमुक्तौ तत्तत् प्राप्तौ सुगुणानीशितुश्च । ब्रह्मा दिशत्यथ तांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्या ॥ इति श्रुतेः ॥7॥ आध्यानाधिकरणम् न च नानास्थानेषूक्तगुणानामनुपासनार्थता । विप्रकीर्णगुणान् पिण्डीकृत्योपासितुस्तत्सदृशफलप्राप्तेस्तथा ध्यानार्थमेव गुणानामुक्तिरित्युपपत्तिः ॥8॥ आत्मगृहीत्यधिकरणम् न चाश्वापरोक्ष्यायानन्दादीनामपि लोपेनात्मेत्येतावता पूर्यते । आत्मशब्दार्थविशेषत्वादानन्दादीनाम् ॥9॥ अनव्याधिकरणम् न चात्मशब्दो विभ्रमकरः । गुणाधिकानामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणोपपत्तेः ॥10॥ कार्याधिकरणम् अलौकिकगुणानामप्रतीतेर्लौकिकगुणाध्याने तदपाकृतिरेव भवतीति न मन्तव्यम् । लौकिकवलिक्षणा अत्युत्तमा इति ध्यानस्यैव प्राधान्यात् ॥11॥ समानाधिकरणम् ब्रह्मणो ब्रह्माण्याश्च स्थानैक्यं गुणतारतम्यं च यथागुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र लिङ्गम् । समविषमोपासनायुक्तेरिति न मन्तव्यम् । यथाशक्ति स्मृतान् धात्रा गुणान् विष्णोः सरस्वती । स्मरेत् त्रैविक्रमाद्यांस्तु नित्यविक्रान्तिपूर्वकैः ॥ कदाचिल्लोपेयेद्देवी स्थानैक्यं न गुणैस्ततः । साम्यं तयोर्यथाविष्णोर्गुणोपासा फलं भवेत् ॥ इत्यध्यात्मवचनाद्यथाशक्ति क्रिया देव्याः ॥12॥ नवाधिकरणम् न चात्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभावः । यस्य यावन्तोर्था युगपद् ध्यातुं शक्यन्ते तस्य तावन्त इति सन्धेः ॥13॥ सम्भृत्यधिकरणम् न च मुमुक्षव इत्यविशेषाद् भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्तौ अपि सामान्ये । सत्यो ज्ञानं परमानन्दरूपं आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते ॥ गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते । न व्याप्तिर्जगदस्मृत्या नानाशक्तिर्यतो मता ॥ देवानां युगपदज्ज्ञानं मानुषाणां तथा न तु । पर्यायेणापि सत्याः स्युर्नैवान्यथा कथञ्चन ॥ इत्यादिप्रमाणबलात् ॥14॥ पुरुषाधिकरणम् क्वचिद् बहुगुणाः क्वचिदल्पगुणाः श्रुतिष्वेवोच्यन्ते इत्युपसंहारस्याप्रयोजनतेति न वाच्यम् । गुणा सर्वे ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः । इति श्रुतेः । सर्वगुणोपासकस्याप्यधिकारिणो भावादेकत्रापृथक्सर्वगुणानुक्तेः बलादुपसंहारानतेः ॥15॥ वेधाधिकरणम् न च मुक्तावुपासनभावे फलादिकमपि स्यादित्यतिप्रसङ्गः । उपासनायाः संस्काराख्यकारणस्य सत्त्वात् । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इत्यवृद्धिप्रमाणभावाच्च ॥16॥ हान्यधिकरणम् न च कर्मकरणशक्तेरप्यदूरत्वात् तत्संश्रयनियमः । उपासनाख्यकार्ये नित्यकृतिसंस्कारो न तथा कर्मणीति कार्यवैशेष्यात् ॥17॥ छन्दाधिकरणम् न चायोग्यताख्यविशिष्टकारणाज्ज्ञानिष्वपि केषाञ्चिन्मोक्षो न भवतीति नियमः । ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावात् । अयोग्यानां ज्ञानस्यैवानुपपत्तेः ॥18॥ अनियमाधिकरणम् न च प्रयत्नानुसारिणो मुक्तावाधिकारिका आनन्दादयः । अधिकारानुसारित्वात् प्रयत्नस्य । कथञ्चिदधिकयत्ने तत्साधनादिवस्तूनां दूषणप्राप्तेः । स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत् ॥ इति वचनाच्च ॥19॥ यावदधिकरणम् न चैकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद् विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोषः ।यः सर्वमवजानीयादृते देवं नारायणं देवीं च परमां श्रियम् । स प्राणानवरुद्ध्येमं मन्त्रमावर्तयीत । आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ इति । "स ह्येषां भूतानां वरिष्ठो न ह्येतस्मात् कश्चनोपरि विना देवं नारायणं देवीं च परमां श्रियम्' इति प्रतिक्रियाविधानादिविरोधात् ॥20॥ इयदामननाधिकरणम् "अस्ति भगवः प्राणाद्भूय' इति प्रश्नाद्यभावात् प्राणस्यैवोन्नतिप्रतीतेर्न विष्णोरपि ततः परत्वमिति न मन्तव्यम् । एष तु वा अतिवदति इति विशेषणात् प्रश्नप्रतिवचनप्रतिसन्धानोपपत्तेः ॥21॥ व्यतिहाराधिकरणम् न च सत्यादीनाभेदानुक्तेरन्यत्वम् । "सत्यं पूर्णं विज्ञानं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा मति पूर्णा सुखं पूर्णं भूमा पूर्णोहं पूर्ण आत्मा पूर्णो नात्र किञ्चिदूनं पूर्णमेवाधस्तात् पूर्णमुपरिष्ठात् पूर्णं मध्यतः पूर्णं सर्वतः । तदेष श्लोको भवति । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥' इति श्रुतेः सर्वेषामनूनत्वात् । "सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते ॥' इति वचनाच्च ॥22॥ सत्याधिकरणम् न च श्रियोप्रयत्नत्वादनुपासनं संसारो वा । नित्यं भगवदुपस्थितेरतिप्रियत्वात् संस्कारपाटवान्नित्योपासोपपत्तेश्च ॥23॥ कामाधिकरणम् न च बन्धदाढ्ये श्रवणादीनामफलता । अन्यथोपासां विनैव श्रवणादिज्ञानमात्रेण मुक्तिरिति दोषः । श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः । प्रसन्नो मुक्तिदो नित्यमन्यथा न कथञ्चन ॥ इतीश्वरेच्छानियतिश्रुतेः ॥24॥ निर्धारणाधिकरणम् न च गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोपि कदाचित् गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गान्न गुर्वधीनत्वमिति । ज्ञानिनो गुरुशापेपि नामुक्तिः संसृतेः क्वचित् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति ॥ इति वचनान्मुक्तिदूषणेनैव गुरुशापादेः कृतार्थत्वात् । ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण वा मुक्त्युपपत्तेः ॥25॥ प्रदानाधिकरणम् शिष्यस्यापि पुरुषत्वसाम्यात् धारणादेस्तत्प्रयत्नस्य न दौर्बल्यमिति न मन्तव्यम् । "गुरुप्रसादो बलवान्' इत्यादिविशेषोक्तेः ॥26॥ लिङ्गभूयस्त्वाधिकरणम् न चोत्तमगुरुस्वीकारार्थत्वेन प्राप्तसन्त्यागनिमित्तदोषः । तत्र दोषे मानाभावात् ॥27॥ पूर्वविकल्पाधिकरणम् न च विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णयः । "नान्यः पन्था अयनाय विद्यते' इत्यवधारणात् विद्यावचनस्य प्राधान्यात् ॥28॥ विद्याधिकरणम् न च विद्यावचनस्य प्राधान्यं भ्रमः । "प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः' इति भगवतस्तस्मिन्नेवाधिकप्रीतिवचनात् । "यमेवैष वृणुते तेन लभ्यः' इति तत्प्रीतेरेव मोक्षवचनाच्च ॥29॥ श्रुत्यधिकरणम् न च कस्यचिद्विशेषज्ञानोपपत्तेर्भक्त्यादिकं विना मुक्तिः । "भक्त्यैवैनं जानाति भक्त्यैवैनं पश्यति भक्त्यैव बन्धात् विमुच्यते भक्त्यैवानन्दीभवति' "यमेवैष वृणुते तेन लभ्यः' "भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिः' इत्याद्यागमात् ॥30॥ अनुबन्धाधिकरणम् न च "दृष्ट्वैव तं मुच्यते नापरेण' "यावान् यश्चास्मि तत्त्वतः' "ततो मां तत्त्वतो ज्ञात्वा' इत्यादि सामान्यालापमात्रेण दर्शनस्याविशेषः । "यथायोग्यमेवैष आत्मानं दर्शयति यथाधिकारं देवेभ्योतो ब्रह्मैवैनमभिपश्यत्यथात्मैवात्मानं अभिपश्यति सुस्थिरो ह्येष नियमः' इति दर्शनविशेषनियमस्य सुस्थिरत्ववचनात् । यावान्यश्चास्मीति ब्रह्मण एव ज्ञानोपपत्तेः । "यावान्' इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्च ॥31॥ प्रज्ञान्तराधिकरणम् न च भगवतः सर्वत्र गुणसाम्याद्यस्य कस्यापि रूपस्य दर्शनात् सर्वेषां मुक्तिः । "समोपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति । यथा समेष्वपि कर्मसु स्वकृतमेवैनं भोजयति ॥' इति श्रुत्युक्तस्वकृतप्राप्तिदृष्टान्तात् ॥32॥ सामान्याधिकरणम् भक्तिरेवैनमिति भक्तेरेव पृथङ्मोचकत्वदर्शनान्नेशकृत्यमिति न मन्तव्यम् । अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् । जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः ॥ कञ्चिन्न मोचयेद्वासौ स्वातन्त्र्यं तस्य तेन हि । भक्तिवाक्करणत्वेन सावकाशेशवागथ ॥ भक्त्यैनं मोचयेद् विष्णुरिति मानत्वमेष्यति ॥ इति ब्रह्मतर्कवचनादनादिगुणविस्तरे सत्यप्यव्यक्त्यादिना तदिच्छां विना मोक्षाप्राप्तेः ॥33॥ परेणाधिकरणम् न चांशिमार्गस्यांशेनागम्यत्वात् तयोर्भेदः । साधनोत्तमस्यादृष्टस्यांशिकृतस्यांशेन भुज्यमानत्वात् । अन्यथादृष्टं विना शरीराद्यनुपपत्तेः ॥34॥ एकाधिकरणम् न च गुणान्तरसन्धानस्य क्वचित् दर्शनमात्रेण समाधिकाङ्गदेवतान्तरगुणा अप्यङ्गदेवतान्तर उपसंहर्तव्याः । नानागुणत्वेन तेषां श्रुतिषुदृष्टेः । अनिषिद्धगुणानां वाक्यान्वयन्यायेनोपसंहारान्न शाखास्वित्यादिविशेषः । उत्तमेष्वधमगुणापेक्षया मन्त्रादिवद्वेति ॥35॥ अङ्गावबद्धाधिकरणम् न च भूमगुणस्योपासकं प्रति विशेषाभावेपि तत्तदिष्टगुणानुसारेण फलोपपत्तिरित्यविशेषः । "भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते' इत्यादिशिष्टेः ॥36॥ भूमाधिकरणम् न च भूमगुण उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम् । विशेषस्य कल्पनोपपत्तेरिति न मन्तव्यम् । "यावानेवाधिकारेषु विशेषोनून एव हि । ततो भूमत्वदृष्टौ च ब्रह्मादीनां पृथक् पृथक् ॥' इति विशेषस्यानूनत्ववचनात् ॥37॥ नानाधिकरणम् न च शुद्धमोक्षसाधनवैरूप्यान्मोक्षसाधनत्वेनोपदिष्टं विना विष्णोरेवेवोपासनान्तरस्याकर्तव्यता । अविघ्नतासाधनत्वात् ॥38॥ विकल्पाधिकरणम् न च काम्यसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियमः । अनुपसंहारे विरोधाभावात् । काम्यानामनियताङ्गत्वाच्च । "अर्थादिधर्मसिद्धौ हि न नियत्याङ्गमिष्यते' इति ब्रह्मतर्के ॥39॥ कामाधिकरणम् न च देवादीनामिति तत्रैव विशेषवचनाभावात् ब्रह्मा शिरसि ललाटे रुद्र इत्यादीनां नावश्योपास्यता ।"देवादीनामेव ध्यायेदङ्गदेवताः परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्ति ते हि तादृशास्ते हि हरेरनुरूपाः' इति श्रुतेर्गुणवैशेष्यात् ॥40॥ अङ्गाधिकरणम् न च क्रियात्वादुपासनाया अग्निष्टोमादिवत् प्रतिशाखं वक्तव्यता । उपासना यजनं चेति साम्यं तत्तद्विशेषान् संहरेत् सर्वतश्च । तथाकर्तॄणां तत्फलानां विशेषाद् व्यर्था हि शाखा अन्यथैवं च सार्थाः ॥ इत्युपासनाविशेषाणामधिकारिविशेषाणां चागमेवगमात् ॥41॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः पुरुषार्थाधिकरणम् न च ज्ञानिन औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवात् तदुक्तिः प्रशंसामात्रमिति वाच्यम् । प्रायशो न सम्भवत्येव । कस्यचित् सौभरिवत् सा भवति चेज्ज्ञानेनैवाशेषमभीप्सितं भवतीति व्यवस्थोपपत्तेः ॥1॥ सर्वात्रिकाधिकरणम् न चाधिकारे समेपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेरधिकारविशेषकल्पनं व्यर्थम् । भक्त्याद्यधिकारतारतम्येन शास्त्रात् फलप्राप्तेः सर्वेषामविशेषम् । दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्य । उच्चवचशक्तेरपि तन्निबन्धनत्वात् ॥2॥ अविशेषाधिकरणम् न च ज्ञानिनामात्मस्वरूपदार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्योरविशेषः । एतावतोधिका नास्ति प्राप्तिरित्यन्ततः स्थिता । या स्थितिस्तां समाप्नोति यथाशक्ति प्रयत्नतः ॥ उभयलिङ्गाधिकरणम् विपरीतप्रवृत्तेस्तु तस्य ह्रासोधिकं भवेत् ॥ इति वचनात् स्थितिविशेषोपपत्तेः ॥4-5॥ अथाऽधिकारिकाकाधिकरणम् न च सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फलेप्यविशेषः । निषेधसामान्यविधिक्रियाणां विभक्तत्वात् । "नादेवो देवपदमन्विच्छेदन्विच्छन् यात्यधरं तमः । न देवः स्वीयं पदमन्विच्छन् विदुष्यति । तदेव ह्यस्य स्वम्' इति निषेधविभागः । "स्थिरं ज्ञानं स्थिरो हरावभिषङ्गः स्थिरमोजो बलं विराग एतद्धि सामान्यं देवानाम् । अथान्येषामस्थिराण्येवेतानि सर्वाण्यथापि यथायोगं विनेयानि' इति सामान्यविभागः । "ज्ञानदानमेव देवानां विहितं तप एवर्षीणामाचार एव मनुष्याणां तदविरोधेनान्यानि करणीयानि' इति विधिविभागः । चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः इति क्रियाविभागः ॥6॥ फलश्रुत्यधिकरणम् न च स्वातन्त्र्याद् देवानामेव ज्ञानादिफलं, न चकिञ्चिदन्येषामिति वाच्यम् । त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु । देवानां तत्प्रसादेन मुक्त्या एव सतां नृणाम् ॥ इति मानुषमुक्त्यर्थमेव देवानामत्वरया सिद्धिश्रुतेः ॥7॥ कृत्स्नभावाधिकरणम् न च गृहस्थानामशेषकर्मविशेषयोग्यत्वादाधिक्यं मुक्तौ । त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतयस्तेभ्यश्चात्वरया देवास्तेषु च ब्रह्मा । तदेष श्लोकः ।शतं परानभिपश्यैव देवं ब्रह्माचरद्दुश्चरं यत्तपोग्र्यम् । विहाय रागं मनसश्चोपरिष्ठः ततोभवत् परमेष्ठी स मुक्तौ ॥ इति । यो हि त्वरया साधयेत् स मन्दं सुखमाप्नुयात् । यो ह्यत्वरया स महत् ॥ इति श्रुतेर्गृहिस्थो यतीनां तेभ्यो देवानामत्वरया सिद्धेः । बहुकालसाधनात् बहुकर्माधिकारमात्रस्य दुर्बलत्वात् ॥8॥ अन्वयाधिकरणम् न चाविष्कारेण कथनादशेषतोपि योग्या ज्ञानिनो भवन्तीत्यास्थानचत्वरादिषु स्थित्वैव प्रकथनीयम् । न ह्येवं त्वरमाणे सिद्धिभर्वति । अयोग्यानामपि ग्रहणप्रसङ्गात् । तस्मात् विचार्य योग्यानामेवात्वरयैव कथयित्वा सिद्धिर्भवति । "त्यक्त्वा त्वरां ब्रह्मविद्यां वदेत जनाय योग्याय सदैव विद्वान्' इति श्रुतेः "मा न स्तेनेभ्यः' इत्यादेश्च ॥9॥ मुक्तिफलाधिकरणम् न च विरोधाभावात् साधनानुष्ठानजन्मन्येवापरोक्षज्ञानं मुक्तिश्चेति नियमः । प्रतिबन्धे सति तन्निरासेनात्वरयैव सिद्ध्युपपत्तेः । "यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य' इत्यादिश्रुतेः । "अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति भगवद्वचनम् ॥10-11॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य चतुर्थः पादः ॥चतुर्थोध्यायः प्रथमः पादः आवृत्त्यधिकरणम् न च श्रवणाद्यनवृत्त्यापरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुणः । महाफलत्वात् सर्वेषामशक्यताया एवोपपन्नत्वात् । अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेः ॥1॥ आत्माधिकरणम् न च शश्वदतिप्रसिद्धत्वात् आत्मशब्दोदितं स्वामित्वं न नित्यशः उपास्यम् । अन्येभ्योधिकफलत्वेन सविशेषत्वादात्मत्वस्य ॥2॥ प्रतीकाधिकरणम् तर्हि विशेषवत्वादेव प्रतीकमपीश्वर इत्युपास्यमिति नास्ति । यत्र सन्धिरुपपत्तिर्विद्यते तस्यैव ग्राह्यत्वात् । अन्यस्येशत्वग्रहणस्य मिथ्याज्ञानत्वादेवानुपपत्तेः ॥3॥ ब्रह्माधिकरणम् न च प्रतिदिनं विविधगुणन्यासेन भगवत्प्रीत्युपपत्तेर्न ब्रह्मतादृष्टिनियम इति वाच्यम् । अशेषगुणान्तर्भावेन तस्यैवाधिकसाधनत्वात् ॥4॥ आदित्याधिकरणम् न च विविधस्थानेष्वादित्यादीनां चरणाद्विष्ण्वङ्गेष्वादित्यादिमतिनियमो नास्तीति वाच्यम् । तत्कृतावेव कृत्यस्याप्त्तवादादित्यादीनाम् ॥5॥ आसीनाधिकरणम् न च ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति वाच्यम् । आसनादिना निश्चलत्वादिविशेषकार्योपपत्तेः ॥6॥ आप्रायणाधिकरणम् न चान्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमिति वाच्यम् । ध्यानं विनापरोक्षज्ञानाख्यविशेषकार्यानुपपत्तेः ॥7॥ तदधिगमाधिकरणम् न च ज्ञानोदयेशेषकर्मक्षये कृतकृत्यत्वात् तदैव मुक्तिः न चेत् कर्माक्षय इति वाच्यम् । प्रारब्धस्यैव कृतस्य यावज्ज्ञानं संस्थितेः । कर्माणि क्षपयेद्विष्णुरप्रारब्धानि विद्यया । प्रारब्धानि तु भोगेन क्षपयन् स्वगतिं नयेत् ॥ इति वचनात् ॥8॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः वाङ्मासाधिकरणम् न च वाक् पूर्वरूपं मन उत्तररूपं "मनः पूर्वरूपं वागुत्तररूपम्' इत्युक्तेः व्यामिश्रत्वादनिर्णीतिरेव । "वाक् पूर्वरूपं मन उत्तररूपं' इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनःपूर्वरूपं इत्यनेन साम्यम् । "मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति' इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एव हि ज्ञायते ।सृष्टौ च वलिये चैव सदा पूर्वप्रवर्तने । नियन्तृत्वे च वचसो मनोधीशं शिवो हि तत् ॥ इति श्रुतेश्च ॥1॥ मनःप्राणाधिकरणम् न च मनःपूर्वकत्वनियमादशेषदृष्टादृष्टव्यापाराणां तस्य प्राणादनूनता इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ । मनस्स्थेन विशेषेण कार्मै कर्मकृदेव च ॥ पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः । जीवस्थितेन रूपेण वेदयत्यहमित्यपि ॥ प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः । तान्येतान्यवशान्येव तथापि कृपयैव सः ॥ पृथक्शक्तोपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत् । तस्येशो भगवान् विष्णुरेवमेष यथान्यगः ॥ इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात् ॥2॥ अध्यक्षाधिकरणम् सोध्यक्षे इत्यस्याप्येवमेवाशङ्का परिहारश्च । श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुः ॥3॥ नैकस्मिन्नधिकरणम् न च भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेर्मुक्तलिययोर्विशेषभावाच्चैकस्मिन्नेव भूते सर्वेषां लयोर्थतः क्लृप्तः इति वाच्यम् । तत्तद्भूतोद्भवत्वात् तत्तद्देवानां तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेः । विशेषश्रुतेश्च ॥4-5॥ समनाधिकरणम् न च प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण, न चेत् संसारित्वमिति युक्तम् । ईश्वरस्य महामहिमत्वात् । नित्यमसंसारित्वस्य नित्यं तदनुग्रहेणैवोपपत्तेः । सदानित्यतयानित्यं नित्यं नित्यात्मना यतः । नित्ययैव स्वशक्त्यैशो नियामयति नित्यदा ॥ द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षया ॥ इत्यादिश्रुतेश्च ॥6॥ पराधिकरणम् न चान्यदेवादीनां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येव । प्राणं प्राप्य परं देवास्तदन्ये चैव तद्गताः । प्राप्नुवन्ति परं देवं वसन्ति च यथासुखम् ॥ इति विशेषश्रुतेः ॥7॥ अविभागाधिकरणम् न च सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति वाच्यम् । कृतार्थत्वेन विशेषोपपत्तेः । अपूर्णतादिभावो वा दुःखं वा नास्ति किञ्चन । मुक्तस्य पारतन्त्र्येपि तारतम्येप्यतः सुखी ॥ इति च श्रुतिः ॥8॥ तदोकोऽधिकरणम् न च प्रारब्धकर्मशेषत्वात् उत्क्रान्तावविशेषो ज्ञानिनः । ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेः । प्रारब्धकर्मशेषस्तु विरजातरणावधिः । स्वोदयात् फलदं ज्ञानमादेहं कर्म वारवेः ॥ तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते ॥ इति हि श्रुतिः । "शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते । स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सम्प्राप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनुते' "ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे' इति च । "अन्यथाभावनियमोनृतता कार्यकारणे' इति च ॥9॥ योग्याधिकरणम् न च कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति वाच्यम् । "क्रियानुवृत्तिर्लौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात् । भवेत् फलं सर्वथेत्येव तस्मात् स्मरेत् सदा निश्चितत्वेन विद्वान् ॥' इति श्रुतेस्तदनुसार्यनुवृत्तेः लौकिकवैदिकयोः साम्यात् । अतोत्र फलानुस्मरणं लवनादिकृष्यनुवृत्तिवद् द्रष्टव्यम् । वचनप्रामाण्यात् ॥10॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः अतिवाहिकाधिकरणम् न च तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गसुक्रमोपपत्तिरिति वाच्यम् । "सर्वे वा एत उत्क्रामन्ति तेर्चिषमेवाभियन्ति ततो वायुं ततोहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः । द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च' इति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तत्वात् । "एष एव ब्रह्मपथः' इत्यवधारणविरोधोन्यथा । एजदिति वैदिकानुष्ठानवत उक्तेर्नाधोगतिविरोधः । पुनरावर्तिनो ये तु तेषां धूम्रपथो ध्रुवः । अन्येषामर्चिरादिश्च तद्भेदो मध्यसंस्थितिः ॥ धूमार्चिरादिदेवेभ्यः प्राप्यानुज्ञां तु मध्यगाः । विहृत्य स्वेष्टदेशेषु तदूर्ध्वं याति वाधरम् ॥ अत्यल्पानामविज्ञाताप्यनुज्ञावर्तिनां भवेत् । पुन्द्वारेण स्वदृष्ट्या वा यथायोग्यं विमुच्यताम् ॥ अतो न मार्गभेदोस्ति न हि मार्गोत्र सम्भवः । प्रेतत्वं चाधरो मार्गः पापजत्वात् तयोः पृथक् ॥ इति स्मृतेश्च ॥1-4॥ वैद्युताधिकरणम् न च सोमादग्निमग्नेरिन्द्रमिति सोमादग्नेरवरस्यापि प्राप्तेः प्रधानवायोरप्यवरोन्यः प्राप्योस्त्विति वाच्यम् । उत्तमत्वात् तस्यैव ब्रह्मप्रापयितृत्वशक्तेः । "वायुरेव ब्रह्म गमयति तस्य ह्येषा शक्तिः । न ह्यन्यो ब्रह्म गमयति प्रियो ह्येनद्गमयति । न ह्यन्यः प्रियो ब्रह्मणः' इति श्रुतेः । मार्गे त्ववरस्यापि यथामार्गं पश्चात् प्राप्तिर्भवति लोकवत् । न हि राजानं यः कश्चित् प्रापयति क्लृप्तमतिप्रियं चातिहाय ॥5॥ कार्याधिकरणम् न च चतुर्मुखस्य प्राप्तिपर्यन्तं सन्ततत्वनियमात् बन्धस्य तावद्भगवत्प्राप्तिर्नास्तीति नियमः । यान्ति देवं परं केचित् पूर्वं केचिल्लये विभुम् । योग्यतातारतम्येन विशेषोथमपीष्यते ॥ इति श्रुतेस्तथाप्राप्तत्वात् । न च परब्रह्मणः एव ब्रह्मशब्दमुख्यार्थत्वेन प्रथमप्राप्तत्वादपोहायुक्तेस्तस्यैव प्राप्तिनियमः । "यान्ति देवं परं केचित्' इति प्रमाणप्राप्तत्वादेव । न च परप्राप्तिर्यस्याभीष्टा तस्य तत्प्राप्तिरिति नियमः । क्रमानुरागी भगवान् क्रमात् पुम्भिरवाप्यते । अतः क्रमात् समृद्धे तु ज्ञाने ब्रह्मलये नरैः ॥ प्राप्यते नियमेनैव कैश्चिदेवाप्यते मृतौ ॥ इति भगवतः क्रमानुरागित्वश्रुतेः । न च बहुधाश्रुतेर्यथासौकर्यं चतुर्मुखस्य परस्य वा प्राप्तिरिति वाच्यम् । श्रुत्युक्तानुवृत्तेरेव न्याय्यत्वात् । "सप्रतीकाश्चतुर्मुखमप्रतीकाः परममु हैते गच्छन्त्यागच्छन्ति च चतुर्मुखात् परमं परमाच्चतुर्मुखं यावद्वलियमथ सह चतुर्मुखेन विमुच्यन्ते आनन्दीभवन्ति' इति हि श्रुतिः । अन्तर्भेदाधिकरणत्वात् समुदायोक्तिः ॥6॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः सम्पद्याद्यधिकरणम् न च "एतं सेतुं तीर्त्वा' इत्यत्रातिक्रमोक्ते र्मुक्तो ब्रह्म तीत्वा गच्छतीति । तरतीति सामान्य प्रतीतेः ब्रह्म तीत्वेदं गच्छतीति विशेषानुक्तेः । "इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यत' इति विशेषोक्तेश्चैतं सेतुं प्रत्यन्यत् तीर्त्वेत्यन्यथोपपत्तेः ॥1॥ मुक्ताधिकरणम् न च कृतिमत्त्वादमुक्त एवोच्यते । "स तत्र पर्येति' इत्यादौ "स्वेन रूपेणाभिनिष्पद्यते' इति मुक्तस्य स्पष्टं प्रतिभातत्वाच्छ्रुतौ । स तत्र पर्येतीति श्रुत्यैक्यप्रतीतेश्च ।एवम्भूतस्यापि प्रकरणत्वं परिकल्प्य श्रुतिबाधाङ्गीकारे सा श्रुतिरप्येवं विभज्य किं योजयितुं न शक्या इति श्रुतेरेवाभावप्रसङ्गः । सत्यं ज्ञानमित्यादावपि सत्यमित्यस्यान्यमित्यनेननान्वय इत्यादिप्रसङ्गात् ॥2॥ आत्माधिकरणम् न च परञ्ज्योतिःशब्देनादित्यज्योतिरङ्गीकारे "स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्त' इत्यादिनैकार्थतेति प्रयोजनम् । "अथ किमुच्यते परं ज्योतिरित्यात्मैव परञ्ज्योतिः स हि परमो द्योतते जीवाच्चाजीवाच्च तस्मादाहुः परञ्ज्योतिरिति । तमेव जीवोभिसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति तस्यैव परञ्ज्योतिष्ट्वोक्तेः । सावकाशलिङ्गान्निरवकाशश्रुतेरेव बलवत्वात् ॥3॥ अविभागाधिकरणम् न च परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्ति । ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति वाच्यम् । पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः । "आश्चर्यत्वात् भगवान् वासुदेवो विरुद्धशक्तिर्न च दोषस्पृगीशः' इत्याश्चर्यतयैव ब्रह्मण उभयोक्तेः । सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्वात् ॥4॥ ब्राह्माधिकरणम् न च पारगतत्वान्मुक्तस्य चिन्मात्रदेहोपि नास्तीति वाच्यम् । अकृत्रिमत्वात् तस्य देहस्याप्यनपगमात् । "अथ विमुक्तस्य चिन्मात्र एव देहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान् भुङ्क्ते' इति श्रुतेः ॥5॥ सङ्कल्पाधिकरणम् न च भगवदोकः स्थितत्वात् मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वं वाच्यम् । निर्दोषत्वात् तदोकसो मुक्तस्य च सङ्कल्पादेवेति श्रुत्युक्तानुसारेणोपपत्तेः ॥6॥ अनन्याधिपत्याधिकरणम् न च परगृहगतत्वादस्य राजगृहगतस्यैव स्वाधमा अपि कदाचिदीशते । निर्दोषत्वादेव मुक्तस्येश्वरस्य तत्रस्थानां मुक्तान्तराणां च राजदोषवद्दोषासम्भवाद्यथा योग्यमेव स्वीकारोपपत्तेः ।मुक्तानां पतयो देवा देवानां च प्रजापतिः । तस्य विष्णुर्न चैवेदं पारावर्यं विनश्यति ॥ इति च श्रुतिः ॥7॥ अभावाधिकरणम् न च देहभावे तत्कार्यदुःखादिस्तदभावे भोगासम्भव इति दोषः । देहाभावाच्च भावाच्च निर्भोगित्वं च दुःखिताम् । यान्त्यमुक्ता नोभयं च मुक्तानां वशिता यतः ॥ इति श्रुत्यैव विशेषक्लृप्तेः ॥8॥ जगद्व्यापाराधिकरणम् न च सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिसमस्तकार्यसम्भवः । व्यापारो जगतो शुद्धमपि वह्निकार्यकरं भवेत् । अयोग्याशक्तितस्त्वेव नाधिकानन्दसम्भवः ॥ न हि कश्चित् सुशक्तोपि चकाराचेतनं चितिम् । न च कामस्तथा भूयात् ततः स्यात् सत्यकामता ॥ इति श्रुत्या विशेषक्लृप्तेरेव । मुक्तानां न जगद्यत्नस्तथापि विबुधाः सदा । मुक्तानां तु नियन्तारस्तेषां ब्रह्मास्य वै हरिः ॥ इति च विशेषक्लृप्तिः ॥9॥ स्थित्यधिकरणम् न च वशित्वान्मुक्तस्यापि वृद्धिः । कृतकृत्यत्वेन निःश्रमत्वादुपासनादावभ्यासपाटवात् निर्दोषत्वात् स्नेहाधिक्याच्च तस्यैव परमसुखरूपत्वेन फलस्वरूपत्वात् । अभ्यासपाटवात् स्नेहादश्रमत्वादुपासना । भक्तिश्च सुखरूपैव मुक्तानां न तु साधनम् ॥ इति च श्रुतिः ॥10॥ अनावृत्त्यधिकरणम् न चानन्तत्वात् कालस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान्मुक्तस्यापि पुनरावृत्त्याशङ्केति वाच्यम् । सत्यकामत्वादिमाहात्म्यात् । "अदोषकामसत्यत्वात् मुक्तानामपुनर्भवः । यस्मात् स कामयेदेव नित्यमात्मापुनर्भवम् ॥' इत्यनन्तमहान्यायमीमांसापारवारिधेः । उत्तारणात्यशक्त्यैव व्याकुलीकृतचेतसाम् ॥ मन्दानामुपकाराय महतां चोच्छ्रितात्मनाम् । तद्विशेषपरिज्ञानप्रदीप्तार्काभचेतसाम् ॥ विशेषगाढे मनसि नितरामुपकारकः । न्यायप्लवो मयाकारि सङ्क्षेपात् प्रमिताक्षरैः ॥ विस्तरोप्ययमेव स्यात् तद्विशेषातिवेदिनाम् । व्याख्यानुव्याख्यायोरेव विस्तारो यदुदीरितः ॥ अनल्पचेतसां पुंसामलं विज्ञानसिद्धये । तन्न्यायोद्धरणेशक्ता अपि ह्येतेन सुस्थिरम् ॥ साक्षाद्विद्याधिराजेन न्यायामृतमनुत्तमम् । अशेषतोधिगच्छेत वन्द्यो वृन्दारकोपि सन् ॥ एवं सुदुर्लभेप्यद्धा महान्यायपरामृते । केचनाधिक्रियन्तेत्र तत्प्रसादानुरञ्जिताः ॥ ब्रह्माद्या अमृते यद्वत् सागरोन्मथनोद्धृते । अहं तु तत्प्रसादैकमहास्पदबलोद्धतः ॥ न्यायमृतार्णवमिममवगाह्य विभज्य च । सङ्क्षेपविस्तराभ्यां च चकार व्याकृतिं कृतिम् ॥ तत्प्रसादमृते कस्य शक्तिः संसारसागरे । मग्नस्य चेतनस्य स्यात् तत्कृतानुकूतौ क्वचित् ॥ नित्यानन्दामृतस्यन्दितत्कटाक्षैधितस्य तु । का नु शक्तिर्भवेन्नैव ततः को वातिविस्मयः ॥ विद्याविद्ये सुखं दुःखमशक्तिः शक्तिरेव च । उत्पत्तिस्थितिनाशाश्च विशेषाश्च परेखलिाः ॥ चेतनाचेतनस्यास्य समस्तस्य यदिच्छया । स मम स्वकृतेनैव प्रीयतां पुरुषोत्तमः ॥ यस्य त्रीण्युदितानि वेदवचने रूपणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचो नयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ नमोजभवभूर्यक्षपुरःसरसुराश्रय । नारायणारणं मह्यं मापते प्रेयसां प्रिय ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य चतुर्थः पादः ॥