Sutra Bhashyam - 2

(अविरोधाध्यायः) द्वितीयोऽध्यायः॥ प्रथमः पादः स्मृत्यधिकरणम् उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन । प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति- ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ॥ 01-136 ॥ सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामाण्यमेव स्यादिति चेन्न। अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वर्ज्ञैरेव कृतत्वाच्छृतेराधिक्यं सिद्ध्यति॥ 01 ॥ ॐ इतरेषां चानुपलब्धेः ॐ ॥ 02-137 ॥ इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोऽनुपलब्धेरप्रमाण्यं तासां युक्तम् । चशब्देन भागोपलब्धिरङ्गीकृता ॥ 02 ॥ ॐ एतेन योगः प्रत्युक्तः ॐ ॥ 03-138 ॥ योगफलं प्रत्यक्षोपलभ्यमिति न मन्तव्यम् । उक्ताभ्यासे तत्काल एव फलादृष्टेः ॥ 03 ॥ ॥ इति स्मृत्यधिकरणम् ॥ 01 ॥ नविलक्षणत्वाधिकरणं ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ 04-139 ॥ नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्देरप्रामाण्यम् । विलक्षणत्वात् नित्यत्वात् तदनुसारित्वाच्च । न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रमाण्यम् । अन्यथाऽनवस्थितेः । ‘न चक्क्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेधा ह्येवैनं वेदयन्ति’ इति भाल्लवेयश्रुतेश्च । नित्यत्वं च शब्दादेव प्रतीयते ‘वाचा विरूप नित्यया’ इत्यादेः । ‘अनादिनिधना नित्या’ इति च स्मृतिः ॥ 04 ॥ ॐ दृश्यते तु ॐ ॥ 05-140 ॥ अधिकारिणां फलम् । भविष्यत्पुराणे च ‘ऋग्यजुः सामाथर्वाख्या मूलरामायणं तथा। भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥ पुराणानि च यानीह वैष्णवानि विदो विदुः । स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते ॥ यत् तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् । नाप्रामाण्यं भवेत् तेषां दृश्यते ह्यधिकारतः॥ इतः प्रामाण्यमन्येषां न स्वतस्तु कथञ्चन । अदृश्योक्तौ ततस्तेषामप्रमाण्यं न संशयः’ इति ॥ 05 ॥ ॥ इति नविलक्षणत्वाधिकरणं ॥ 02 ॥ अभिमान्यधिकरणम् ‘मृदब्रवीत्’’आपोऽब्रुवन्’ इत्यादिवचनाद्युक्तिविरुद्धो वेद इत्यतोऽब्रवीत् य- ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ 06-141 ॥ मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥ 06 ॥ ॐ दृश्यते च ॐ ॥ 07-142 ॥ तासां सामर्थ्यं महद्भिः । भविष्यत्पुराणे च – ‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः। अचिन्त्याः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः । ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः’ इति ॥ 07 ॥ ॥ इति अभिमान्यधिकरणम् ॥ 03 ॥ असदधिकरणम् ‘असदेवेदमग्र आसीत्’’असतः सदजायत’ इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति- ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ 08-143 ॥ प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिद्यते । सर्वशब्दानां ब्रह्मणि समन्वयेऽपि’तदधीनत्वादर्थवत्’ इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गिकारादसतः प्राप्तिः।तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते ।समयस्योपरि निषेधात् । अर्थाद्युक्तिविरोधोऽपि निराक्रियते ॥ 08 ॥ ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ 09-144 ॥ असत उत्पत्तौ प्रलयेऽपि सर्वासत्त्वमेव स्यात् ॥ 09 ॥ ॐ न तु दृष्टान्तभावात् ॐ ॥ 10-145 ॥ प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते। सत उत्पत्तिः, सशेषविनाशश्च हि लोके दृष्टः॥10 ॥ ॐ स्वपक्षदोषाच्च ॐ ॥ 11-146 ॥ दृष्टान्ताभावादेव ॥ 11 ॥ ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ॥ 12-147 ॥ एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावादुक्तादन्यथाऽप्यनुमेयमिति चेन्न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथाऽनुमेयत्वादनिर्मोक्ष प्रसङ्गः । अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यम् । नातोऽन्यच्छङ्क्यम् । ‘यावदेव प्रमाणेन सिद्धं तावदहापयन् । स्वीकुर्यान्नैव चान्यत्र शङ्क्यं मानमृते क्वचित्’ इति वामने ॥ 12 ॥ ॐ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॐ ॥ 13-148 ॥ एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयोऽपि । ‘अकस्माद्धीदमाविरासीदकस्मात् तिष्ठत्यकस्माल्लयमभ्युपैति’ ‘प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति । प्रधाने लयमभ्येति न ह्यन्यत् कारणं मतम्’॥ ‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः । जीवे तु लयमृच्छन्ति न जीवात् कारणं परम्’ इत्यादिश्रुतिप्राप्ता निराकृताः । यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । यत्रान्यवाचकत्वेऽप्यविरोधस्तत्रान्यदप्यमुख्यतयोच्यते, यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति नियमः ॥ 13 ॥ ॥ इति असदधिकरणम् ॥ 04 ॥ भोक्त्राधिकरणम् ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ ॥ 14-149 ॥ ‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इति मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । न हन्यस्यान्यत्वं युज्यत इति चेन्न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । तथा च श्रुतिः ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’ इति । स्कान्दे च – ‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् । न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥ एवमेव हि जीवोऽपि तादात्म्यं परमात्मना । प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात्’ इति । ‘ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलोहरे’ इति च । ‘न ते महित्वमन्वश्नुवन्ति’’न ते विष्णो जायमानो न जातः’ इत्यादि च फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम् ॥ 14 ॥ ॥ इति भोक्त्राधिकरणम् ॥ 05 ॥ आरम्भणाधिकरणम् ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ 15-150 ॥ स्वतन्त्र बहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसीत्’ इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च । ‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्ष्यते । साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ॥ 15 ॥ ॐ भावे चोपलब्देः ॐ ॥ 16-151 ॥ स्वतन्त्रसाधनभावे प्रमाण्यैरुपलभ्येत । ‘अनुक्तं पञ्चभिर्वैदैर्न वस्त्वस्तिकुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः’ इति स्कान्दे ॥ 16 ॥ ‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च’ इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह । ॐ सत्वाच्चावरस्य ॐ ॥ 17-152 ॥ अवरस्य तदधीनस्य साधनस्य सत्त्वात् । ‘काल आसीत् पुरुष आसीत् परम आसीत् तद्यदासीत् तदावृतमासीत् ततधीनमासीदथ ह्येक एव परम आसीद्यस्यैतदासीन्न ह्येतदासीत्’ इति हि काषायणश्रुतिः ॥ 17 ॥ ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ 18-153॥ ‘नासदासीन्नो सदासीत्’ इति सर्वस्यासत्त्वव्यपदेशान्नेति चेन्न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।’तम आसीत्’ इति वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति । ‘अजे ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’। ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति । न चान्यथा क्वाऽपि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्’॥ ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’। ‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुःपरां हि’ ‘यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’। ‘अथैनमाहुः सत्यकर्मेति, सत्यं ह्येवेदं विश्वमसौ सृजते। अथैनमार्हुनित्यकर्मेति नित्यं ह्येवासौ कुरुते’। ‘यच्चिकेत सत्यमित् तन्न मोघम्’ इत्यादि श्रुतिस्मृतिभ्यः । ‘परस्परविरोधे तु वाक्यानां यत्र युक्तता। तथैवार्थ परिज्ञेयो नावाक्या युक्तिरिष्यते’ इति बृहत्संहितायाम् । ‘विरुद्धवत् प्रीतीयन्त आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ इति च । ‘ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः । प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥ वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना । अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः’ इति भागवततन्त्रे । ‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् । मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥ प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु । अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः’ इति पुरुषोत्तमतन्त्रे॥ 18 ॥ ॐ युक्तेः शब्दान्तराच्च ॐ ॥ 19-154 ॥ ‘साधनानां साधनत्वं यदात्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’ इत्यादेः साधनान्तरेण सृष्टिर्युक्ता । ‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिशब्दान्तराच्च ॥ 19 ॥ ॐ पटवच्च ॐ ॥ 20-155 ॥ साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ 20 ॥ ॐ यथा प्राणादिः ॐ ॥ 21-156 ॥ तच्च साधनजातां तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादिः। ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः’ इति कौर्मे ॥ 21 ॥ ॥ इति आरम्भणाधिकरणम् ॥ इतरव्यपदेशाधिकरणम् जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते । ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ 22-157 ॥ जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ॥ 22 ॥ ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ 23-158 ॥ न च ब्रह्मणः श्रमचिन्तादिधोषप्राप्तिः ।अधिकशक्तित्वात् । ‘श्रोता मन्ता द्रष्टाऽऽदेष्टाघोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः’ ‘एष त आत्मा सर्वान्तरः’ ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इत्यादिविशेषनिर्देशात् ॥ 23 ॥ ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ 24-159 ॥ चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानुपपत्तिर्जीवस्य। ‘यथा धारुमयीं योषां नरः स्थिरसमाहितः। इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’ इति भारते ॥ 24 ॥ ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ 25-160 ॥ जीवेन कार्योपसंहारदर्शनात् तस्य कर्तृत्वमिति चेन्न । यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते , ‘अन्नं रसादिरूपेण प्राणः परिणयत्यसौ’ इति वचनात् । एवं जीवे दृश्यमानोऽपि कार्योपसंहारोऽस्वातन्त्र्यात् परकृत एव । ‘य आत्मानमन्तरो यमयति’ । ‘नाहं कर्ता न कर्ता त्वं कर्तायस्तु सदा प्रभुः’ इत्यादेः ॥ 25 ॥ ॐ देवादिवदपि लोके ॐ ॥ 26-161 ॥ न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्यत्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी शक्तिर्दृष्टा किम्वीश्वरस्य । ‘न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् । विरोध एव वाक्यानां युक्तयो न तु युक्तयः’ इति बृहत्संहितायाम् ॥ 26 ॥ ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ 27-162 ॥ अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिः स्यात् । न च तद्युच्यते, सामर्थैकदेशदर्शनात् । न चैकदेशेन, निरवयवत्वात् । ‘अथ यः स जीवः स नित्यो निरवयवो ज्ञात्वाऽज्ञाता सुखी दुःखी शरीरेन्द्रियस्थः’ इति भाल्लवेयश्रुतिः । न चोपाधिकृतोंऽशः स एवांश उपहित इति, द्वित्वापेक्षत्वात् न चान्यत् कल्प्यम् । ‘यद्धि युक्त्या विरुध्येत तदीशकृतमेव हि’ इति गत्यन्तरोक्तेः ॥ 27 ॥ ॥इति इतरव्यपदेशाधिकरणम् ॥ 07 ॥ शब्दमूलत्वाधिकरणं ॐ श्रुतेस्तुशब्दमूलत्वात् ॐ ॥ 28-163 ॥ न चेश्वरपक्षेयं विरोधः । ‘योऽसौ विरुद्धोऽविरुद्धो मनुरमनुरवाग्वागिन्द्रोऽनिन्द्रः प्रवृत्तिरप्रवृत्तिः स परः परमात्मा’ इति पैङ्ग्यादिश्रुतेरेव । शब्दमूलत्वाच्च न युक्तिविरोधः । ‘यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात् क्वचित् । विरोधे वाक्ययोः क्वापि किञ्चित् साहाय्यकारणम्’ इति पुरुषोत्तमतन्त्रे ॥ 28 ॥ ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ 29-164 ॥ परमात्मनो विचित्राश्च शक्तयः सन्ति, नान्येषाम् । विचित्र शक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः । एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः’॥ इति श्वेताश्वतरश्रुतिः ॥ 29 ॥ ॐ स्वपक्षदोषाच्च ॐ ॥ 30-165 ॥ ये दोषा इतरत्रापि ते गुणाः परमे मताः । न दोषः परमे कश्चिद्गुणा एव निरन्तराः’ । इति वचनाज्जीवपक्ष एव दोषो न परपक्षे । ‘अथ यः सदोषः साञ्जनः सजनिः स जीवोऽथ यः स निर्दोषो निष्कलः सगुणः परः परमात्मा’ इति काषायणश्रुतिः ॥ 30 ॥ ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ 31-166 ॥ ‘सर्वैर्युक्ताशक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् । नित्यानन्दा नित्यरूपाऽजरा च या शाश्वताऽत्मेति च यां वदन्ति’ इति चतुर्वेदशिखायाम् ॥ अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ 31 ॥ ॐ विकरणत्वान्नेति चेत् तदुक्तम् ॐ ॥ 32-167 ॥ न च करणाभावादनुपपत्तिरिति युक्तम् । ‘आपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्तातमाहुरग्र्यं पुरुषं महान्तम्’। ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादि श्रतिभ्यः ‘सर्वोपेता च’ इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्का ॥ 32 ॥ ॥ इति शब्दमूलत्वाधिकरणम् ॥ 08 ॥ नप्रयोजनाधिकरणम् यत्प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वादपूर्णतेत्यत आह – ॐ न प्रयोजनवत्त्वात् ॐ ॥ 33-168 ॥ ‘अथैष एव परम आनन्दः’ इत्यादिना कृतकृत्यत्वान्न प्रयोजनाय सृष्टिः किन्तु ॥ ॐ लोकवत्तुलीलाकैवल्यम् ॐ ॥ 34-169 ॥ यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिलीला न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य । नारायणसंहितायां च- ‘सृष्ट्यादिकं हरिर्नैव प्रयोजनपेक्ष्य तु । कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥ पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः । मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः’ इति ॥ ‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’ इति च श्रुतिः ॥ 34 ॥ ॥ इति नप्रयोजनाधिकरणम् ॥ 09 ॥ वैषम्यनैर्घृण्याधिकरणम् सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति- ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ ॥ 35-170॥ कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति श्रुतिः ॥ 35 ॥ ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ 36-171 ॥ यदपेक्षयाऽसौ फलं ददाति न तत् कर्म । ‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषते’ इति श्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेन्न । तस्यापि पूर्वकर्म कारणमित्यनादित्वात् कर्मणः । भविष्यत्पुराणे च – ‘पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा । अनादित्वात् कर्मणश्च न विरोधः कथञ्चन’ इति ॥ 36 ॥ ॐ उपपद्यते चाप्युपलभ्यते च ॐ॥ 37-172 ॥ न च कर्मापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥ इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । न च पुनर्वैषम्याध्यापेते न दोषः । तादृशवैषम्यादेरुपलभ्यमानत्वात् । ‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशिताऽपि । ईशो यत्रो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्रजानाम्’ इति चतुर्वेदशिखायाम् ॥ 37 ॥ ॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥ 10 ॥ सर्वधर्मोपपत्यधिकरणम् अवशिष्टैरुपसंहरति- ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ 38-173 ॥ ‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।’ इति सर्वगुणोपपत्तिश्रुतेश्च ॥ 38 ॥ ॥ इति सर्वधर्मोपपत्यधिकरणम् ॥ 11 ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥ 02-02 ॥ द्वितीयः पादः ‘इतरेषां चानुपलब्धेः’ इति सामान्यतो निराकरणं समयानां कृतम्।विशेषतो निराकरोत्यस्मिन् पादे । अचेतनप्रवृत्तिमतं प्रथमतो निराकरोति – रचनानुपपत्त्यधिकरणम् ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ 01-174 ॥ अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । चशब्देन प्रमाणाभावं दर्शयति ॥ 01 ॥ ॐ प्रवृत्तेश्च ॐ ॥ 02-175 ॥ चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ 02 ॥ ॐ पयोऽम्बुवच्चेत् तत्रापि ॐ ॥ 03-176 ॥ पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्युज्यत इति न युक्तम् । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते , याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां य दिशमनु’ ‘एतेन ह वाव पयो मण्डं भवति’ इत्यादिना तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥ 03 ॥ ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ 04-177 ॥ ‘न ऋते त्वत्क्रियते किञ्चनारे’ इति तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेरनपेक्षितमेवाचेतनवादिमतम् ॥ 04 ॥ ॥ इति रचनानुपपत्त्यधिकरणम् ॥ 01 ॥ अन्यत्रभावाधिकरणम् सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव पर्जन्यानुगृहीतं तृणादिकमुत्पद्यते, एवं प्रधानादीश्वरानुगृहीतं जगदित्यतो ब्रवीति- ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ॥ 05-178 ॥ ‘यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ ‘ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मण्येव लयमभ्येति । ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्ठाद्ब्रह्म मध्यतो ब्रह्म सर्वतः’ ॥ ‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावात् तृणादीनां पर्जन्यवन्नानुग्राहकत्वमात्रमीश्वरस्य । ‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत्’ इति भागवते । ॥ इति अन्यत्रभावाधिकरणम् ॥ 02 ॥ अभ्युपगमाधिकरणम् लोकायतिकपक्षं निराकरोति ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ 06-179 ॥ यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किं प्रयोजनम् । अतः स्वव्याहतेरेवोपेक्ष्यः ॥ 06 ॥ ॥ इति अभ्युपगमाधिकरणम् ॥ 02 ॥ पुरुषाश्माधिकरणम् पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति – ॐ पुरुषाश्मवदिति चेत् तथाऽपि ॐ ॥ 07-180 ॥ यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्चति, एवमचेतनाऽपि प्रकृतिः पुरषसम्बन्धात् प्रवर्तत इति चेन्न । ‘न ऋते त्वत्क्रियते’ इति तत्रापि तथात्वे दृष्टान्ताभावात् ॥ 07 ॥ ॐ अङ्गीत्वानुपपतेः ॐ ॥ 08-181 ॥ शरीरप्रवृत्तौपुरषस्याङ्गित्वात् । ‘अङ्गमङ्गी समादाय यथाकार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्न ॥ 08 ॥ ॥ इति पुरुषाश्माधिकरणम् ॥ 04 ॥ अन्यथानुमित्यधिकरणम् प्रकृत्युपसर्जनपुरुषकर्तृवादमपाकरोति – ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ 09-182 ॥ शरीरसम्बन्धात् पुरुषः प्रवर्तत इत्यङ्गीकारेऽपि स्वतस्तस्यासामर्थ्याच्चरीरसम्बन्ध एवायुक्तः ॥ 09 ॥ ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥ 10-183 ॥ सकलश्रुतिस्मृतियुक्तिविरुद्धत्वाच्चानीश्वरमतमसमञ्जसम् । ‘श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् । वदन्ति तद्विरुद्धं यो वदेत् तस्मान्न चाधमः’ इति पाद्मे ॥ 10 ॥ ॥ इति अन्यथानुमित्यधिकरणम् ॥ 05 ॥ वैशेषिकाधिकरणम् परमाण्वारम्भवादमपाकरोति – ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ 11-184 ॥ महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वाद् पारिमण्डल्याच्चोत्पद्येत । वाशब्दादन्यथैतयोरपि न स्यात्, विशेषकारणाभावात् ॥ 11 ॥ ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ ॥ 12-185 ॥ ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावान्नेदानीमपि स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभावात् तत्कार्याभावः । वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपपद्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ 12 ॥ ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ 13-186 ॥ कार्यकारणादीनां समवायसम्बन्दाङ्गीकारात् तस्य च भिन्नत्वसाम्यात् समवायान्तरापेक्षायामनवस्थितिः। न च तत्प्रमाणम् । प्रथमसम्बन्धा सिद्धैव च तदसिद्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ 13 ॥ ॐ नित्यमेव च भावात् ॐ ॥ 14-187 ॥ नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनित्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदाचित् ॥ 14 ॥ ॐ रूपादिमत्त्वाच्चविपर्ययो दर्शनात् ॐ ॥ 15-188 ॥ रूपादिमत्त्वाच्च परमाणूनामनित्यत्वम् । तथा दृष्टत्वाल्लोके ॥ 15 ॥ ॐ उभयथा च दोषात् ॐ ॥ 16-189 ॥ नित्यत्वे परमाणूनां तद्वत् सर्वनित्यत्वं स्यात् । विशेषप्रमाणाभावात् अनित्यत्वे कारणाभावात् तदुत्पत्त्यभावः ॥ 16 ॥ ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥ 17-190 ॥ सकलश्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेनानपेक्षता । ‘आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकम्’ इति मोक्षधर्मे ॥ 17 ॥ ॥ इति वैशेषिकाधिकरणम् ॥ 06 ॥ समुदायाधिकरणम्॥ परमाणुपुञ्जवादिमतं निराकरोति- ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ 18-191 ॥ समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात् तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ॥ 18 ॥ ॐ इतरेतरप्रत्ययात्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ 19-192 ॥ सर्वदा विद्यमानोऽपि समुदाय परस्परापेक्षया व्यवह्रियत इति चेन्न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात् परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ॥ 19 ॥ ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ 20-193 ॥ कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्योत्पत्तिः ॥ 20 ॥ ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ 21-194 ॥ कारणे विनष्टे कार्यमुत्पद्यते चेत् तत्कार्यमिति प्रतिज्ञाहानिः । तत्काले कारणमस्ति चेद्विनाशकारणाभावद्यौगपद्यं सर्वकार्याणाम् ॥ 21 ॥ ॐ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधप्राप्तिरविच्छेदात् ॐ ॥ 22 -195 ॥ कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः ससन्तानश्च विनाशो न युज्यते ॥ 22 ॥ ॐ उभयथा च दोषात् ॐ ॥ 23-196 ॥ कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभावान्न कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥ 23 ॥ ॐ आकाशे चाविशेषात् ॐ ॥ 24-197 ॥ दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्यत्रापि तदनुमीयते ॥ 24 ॥ ॐ अनुस्मृतेश्च ॐ ॥ 25-198 ॥ तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाय ब्रान्तित्वे विशेषदर्शनस्यापि ब्रान्तित्वम् ॥ 25 ॥ ॥ इति समुदायाधिकरणम्॥ 07 ॥ असदधिकरणम्॥ शून्यवादमपाकरोति- ॐ नासतोऽदृष्टत्वात् ॐ ॥ 26-199 ॥ अदृष्टत्वादसतः कारणत्वं न युज्यते ॥ 26 ॥ ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ 27-200 ॥ असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जितानां खपुष्पादीनामपि सकाशात् कार्यसिद्धिः । चशब्दान्न चेदन्यत्रापि न स्यादविशेषात् ॥ 27 ॥ ॐ नाभाव उपलब्धेः ॐ ॥ 28-201 ॥ न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥28॥ ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ 29-202 ॥ न च दृष्टस्यापि स्वप्नादिवदभावः। तस्योत्तरकाले’स्वप्नोयं’,’नायं सर्पः’ इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति ॥ 29 ॥ ॥ इति असदधिकरणम्॥ 08 ॥ अनुपलब्द्यधिकरणम् विज्ञानवादमपाकरोति- ॐ न भावोऽनुपलब्धेः ॐ ॥ 30-203 ॥ न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ॥ 30 ॥ ॐ क्षणिकत्वाच्च ॐ ॥ 31-204 ॥ ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । आतश्च नैक्यम् ॥ 31 ॥ ॐ सर्वथाऽनुपपत्तेश्च ॐ ॥ 32-205 ॥ प्रमाणाभावात् सर्वश्रुतिस्मृतिर्युक्तिविरुद्धत्वाच्च नैते पक्षा ग्राह्याः ॥ 32 ॥ ॥ इति अनुपलब्द्यधिकरणम् ॥ 09 ॥ नैकस्मिन्नधिकरणम् स्याद्वादिमतं दूषयति- ॐ नैकस्मिन्नसम्भवात् ॐ ॥ 33-206 ॥ सत् स्यादसत् स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादित्येतन्नैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ 33 ॥ ॐ एवञ्चात्माकार्त्स्न्यम् ॐ ॥ 34-207 ॥ जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्तादिशरीरेऽकार्त्स्न्यं स्यात् ॥34॥ ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ 35-208 ॥ तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ 35 ॥ ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥ 36-209 ॥ परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥ 36 ॥ ॥ इति नैकस्मिन्नधिकरणम् (स्याद्वाद्यधिकरणम्) ॥10॥ पत्युरधिकरणम्(पशुपत्यधिकरणम्) पाशुपतपक्षमपाकरोति- ॐ पत्युरसामञ्जस्यात् ॐ ॥ 37-210 ॥ ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ ‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’। ‘अस्य देवस्य मील्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’। ‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ इत्यादि श्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतीरीश्वरो जगत्कर्ता ॥ 37 ॥ ॐ सम्बन्धानुपपत्तेश्च ॐ ॥ 38-211 ॥ अशरीरत्वात् तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् ॥38॥ ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ 39-212 ॥ पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । न चास्य तदस्ति ॥ 39 ॥ ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ 40-213 ॥ इदमेव जगत् तस्य करणवदधिष्ठानादिरूपम् । नित्यस्यापि कस्यचिद्भावाद्युज्यत इति चेन्न भोगादिप्राप्तेः। उत्पत्तिविनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ॥ 40 ॥ ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ ॥ 41-214 ॥ देहवत्वेऽन्तवत्वम् । अन्यथा ज्ञानाभावः । शरीरिण एव हि ज्ञानोत्पत्तिर्दृष्टा । विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः । ‘यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’इति । ‘बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान् मनोवानङ्गप्रत्यङ्गवान्’ इति ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’ ॥ इत्यादिकया ॥ 41 ॥ ॥ इति पत्युरधिकरणम् (पशुपत्यधिकरणम्) ॥ 11 ॥ उत्पत्त्य(शक्त्य)धिकरणम् शक्तिपक्षं दूषयति- ॐ उत्पत्यसम्भवात् ॐ ॥ 42-215 ॥ न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ 42 ॥ ॐ न च कर्तुः करणम् ॐ ॥ 43-216 ॥ यदि पुरुषोऽङ्गीक्रियेत तस्यापि करणाभावादनुपपत्तिः ॥ 43 ॥ ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ 44-217 ॥ यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वरवादान्तर्भावः ॥ 44 ॥ ॐ विप्रतिषेधाच्च ॐ ॥ 45-218 ॥ सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ 45 ॥ ॥ इति उत्पत्त्य(शक्त्य)धिकरणम् ॥ 12 ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ 02-02 ॥ तृतीयः पादः जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परं विरोधमपाकरोत्यनेन पादेन। वियदधिकरणम् ॐ न वियदश्रुतेः ॥ 01-219 ॥ न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ॥ 01 ॥ ॐ अस्तितु ॐ ॥ 02-220 ॥ अस्त्येव चोत्पत्तिश्रुतिः- ‘आत्मन आकाशः सम्भूतः’ इत्यादि ॥ 02 ॥ ॐ गौण्यसम्भवात् ॐ ॥ 03-221 ॥ ‘अनादिर्वा अयमाकाशः शून्योऽलौकिकः’ इत्यादिश्रुतिर्गौणी । अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ 03 ॥ ॐ शब्दाच्च ॐ ॥ 04-222 ॥ ‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धाभूतानि भौतिकानीति । यानि ह वा उत्पत्तिमन्ति तान्यनित्यानि।यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि । न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा काल इति । अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते’ इति भाल्लवेयश्रुतेश्च ॥ 04 ॥ ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ 05-223 ॥ स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया । यथा ब्रह्मशब्दः । ‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’ इति श्रुतेः परे ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते । अत एवाब्रह्मत्वं च तेषाम् । एवमत्राप्यनुत्पत्तिमच्छब्दः ॥ 05 ॥ ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ 06-224 ॥ ब्रह्मणोऽन्यस्य नित्यत्वे’इदं सर्वमसृजत’ इत्यादि प्रतिज्ञाहानिः।आकाशस्यापि सर्वस्मादव्यतिरेकात्। ‘अत्मा वा इदमेक एवाग्र आसीत्’ ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ ‘इदं वा अग्रे नैव किञ्चनासीत्’ इत्यादिश्रुतिभ्यः ॥ 06 ॥ ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ 07-225 ॥ विभक्तत्वाच्च विकारित्वं युक्तम् । विकारिण एव हि विभक्तालोके दृश्यन्ते । ‘एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते । प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥ चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता । तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥ यो विभागी विकारः सः सोऽविकारः परो हरिः । अविभागात् परानन्दो नित्यो नित्यगुणात्मकः । विभागो ह्यल्पशक्तिः स्यान्न तदस्ति जनार्दने’इति बृहत्संहितायाम् ॥ 07 ॥ ॥ इति वियदधिकरणम् ॥ 01 ॥ मातरिश्वाधिकरणम् ‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’ ‘अथ ह चेतनाश्चाचेतनाश्च तेजोऽबन्नान्याकाश इति तान्यचेतनानि वायुर्वाव चेतनो वायुना हि सर्वाणि भूतानि विज्ञायन्ते’ । ‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण’। ‘सा वा एषा देवताऽनादिर्योऽयं पवते’ इति । ‘यस्यानादिर्न मध्यं नान्तो नोदयो न निम्लोचः’। इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरित्यतो ब्रवीति – ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ 08-226 ॥ एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरपि व्याख्याता । ‘नित्यः परमनित्यश्च तथाऽनित्यः परस्तथा । चतुर्धैतज्जगत् सर्वं परानित्यं तु पार्थिवम्। अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः । परस्तु नित्यः पुरुषः प्रकृतिः काल एव च । एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः । प्रतिव्यूह्य व्यूह्य चासावतीत्या च जनार्दनः । धारयत्यनिशं देवो नित्यानन्दैकलक्षणः’ इति कौर्मे ॥ 08 ॥ ॥ इति मातरिश्वाधिकरणम् ॥ 02 ॥ असम्भवाधिकरणम् ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ 09-227 ॥ ‘असद्वा इदमग्र आसीत्। ततो वै सदजायत’’असतः सदजायत’। इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेन्न । अनुत्पत्तिरेव सतः । तुशब्देनोक्तव्यवस्थामपाकरोति । न ह्यसतः सदुत्पद्यते । अदृष्टत्वादनुपपत्तेः । ‘तद्वा एतद्ब्रह्माहुर्बृहति बृंहयति चेति । तद्वा एतदसदाहुः न ह्यासादयति कश्चन । तद्वा एतत् परमाहुः परतो हि तदुदीक्ष्यते’ इति श्रुतेरसच्छब्दो ब्रह्मवाची । ‘देवानां पूर्व्ये युगेऽसतः सदजायतेति ब्रह्मवा असत् सद्वाव प्राणः प्राणं वाव महान् सह ओजो बलमित्याचक्षते’ इति च पैङ्गीश्रुतिः। ‘त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः । ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते’ इति भागवते ॥ ‘अजायमानो बहुधा विजायत’ इति च । ‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन । पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥ विकार एव जननं पुरुषे तद्विशेषणम् । परतन्त्रविशेषो हि विकार इति कीर्तितः’ इति पाद्मे ॥ ‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः । विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥ शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन । अविभिन्नाऽपि सेच्छादिभेदैरपि विभाष्यते’ इति भागवततन्त्रे ॥ 09 ॥ इति असम्भवाधिकरणम् ॥ 03 ॥ तेजोऽधिकरणम् ॐ तेजोऽतस्तथा ह्याह ॐ ॥ 10-228 ॥ ‘वायोरग्निः’इत्यादेर्नान्यत उत्पत्तिर्ग्राह्या । अत एव परात् तदपि जायते । ‘तत् तेजोऽसृजत’ इति ह्याह । कारणत्वेनेत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात् पुनरुक्तिरुभयकारणत्वनिवृत्यर्थम् ॥ 10 ॥ ॥ इति तेजोऽधिकरणम् ॥ 04 ॥ अबधिकरणम् ॐ आपः ॐ ॥ 11-229 ॥ ‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजत तदिदं सर्वम्’ इति श्रुतेः, ‘अग्नेरापः’ इत्युक्तेऽपि ब्रह्मण एवाबादिसृष्टिः । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इत्यादि च । ‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः । इतरेषां तु सत्ताद्या यत एव तदाज्ञया’ इति भविष्यत्पुराणे॥ वामने च- ‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ इति ॥ घर्मात् स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥ 11 ॥ ॥ इति अबधिकरणम् ॥ 05 ॥ पृथिव्यधिकरणम् ‘ता आप ऐक्षन्त बह्व्यः स्यामः प्रजायेमेहीति । ता अन्नमसृजन्त’ इत्यद्ब्द्योऽन्नसृष्टिः श्रूयते ।‘अद्ब्यः पृथिवी’ इति कुत्रचित् पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्तिः – ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ 12-230 ॥ पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’। ‘पृथिवी वा अन्नम्’ । ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि । कौर्मे च – ‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते । यथा विरुद्धता न स्यात् तथाऽर्थः कल्प्य एतयोः’ इति । रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः । नाभिपद्माभिसम्बन्धात् पीता सेत्यभिधीयते । क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुत्वतः । शुक्लत्वेमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥ विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते । स्वर्णवीर्यो हि भगवाननादिः पुरुषोत्तमः ॥ इति व्योमसंहितायाम् ॥ 12 ॥ ॥ इति पृथिव्यधिकरणम् ॥ तदभिध्यानाधिकरणम् ‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते – ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ 13-231 ॥ ‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्बूयश्चान्ते विश्वमायानिवृत्तिः’ इति बन्धलयस्य तदभिध्याननिमित्तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव संहारकर्ता विष्णुरिति प्रतीयते, किमु ‘यमप्येते भुवनं साम्पराये स नो हरिर्घृत मीहायुषेऽत्तु देवः’। ‘य इदं सर्वं विलापयति स हरिः परः परात्मा’ इत्यादि श्रुतिभ्यः इति एव शब्दः । ‘स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः । स्रष्टृत्वादिकमन्येषान्दारुयोषावदुच्यते ॥ एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् । सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्’ इति च स्कान्दे ॥ ‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः शर्वश्च कालाख्यारूपिणस्तव’ इति भागवते ॥ ‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एक एव हरिः परः परानन्दः’ इति च महोपनिषदि ॥ 13 ॥ ॥ इति तदभिध्यानाधिकरणम् ॥ 07 ॥ विपर्ययाधिकरणम् ‘अत एव हीदं परात् क्रमादुत्पद्यते क्रमाद्विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते । ‘अक्षरात् परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि’ ॥ इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत आह ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ 14-232 ॥ क्रमवचनमपि विपरीतक्रमापेक्षया । ‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च । यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर उच्यते’॥ इत्यत एव भाल्लवेयश्रुतिवचनात् । ‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः । इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः’ इति च पाद्मे । पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । वामने च – ‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् । सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा । व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’ ॥ इति॥ 14 ॥ ॥ इति विपर्ययाधिकरणम् ॥ अन्तराधिकरणम् ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ॥ 15-233 ॥ ‘प्राणान्मनो मनसश्च विज्ञानम्’ । ‘यच्छेद्वाङ्मनसि प्राज्ञस्तद्यच्छेज्ञान आत्मनि’ इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेन्न, विशेषप्रमाणाभावात् ॥15 ॥ ॐ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॐ ॥ 16-234 ॥ ‘मनसश्च विज्ञानम्’ इति व्यपदेशश्चराचरेष्वालोचनाद्विज्ञानं भवतीति भागापेक्षया स्यात् । न विज्ञानतत्त्वापेक्षया । स्कान्दे च – ‘परादव्यक्तमुत्पन्नमव्यक्तात् तु महांस्तथा । विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखात् ॥ विज्ञानतत्त्वात् तु मनो मनस्तत्त्वाच्च खादिकम् । एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया । विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः’ ॥इति॥ 16 ॥ ॥ इति अन्तराधिकरणम् ॥ 09 ॥ आत्माधिकरणम् ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ 17-235 ॥ ‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’ इति श्रुतेः परमात्माऽपि न लीयते। अश्रुतत्वाद्ब्रह्मलयस्य। निलीन शब्देनापिहितत्वमुच्यते । तुच्छेनाभ्यपिहितं यदासीत्, इत् श्रतेः । ‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति कश्चन’ इति पैङ्गिशृतिः । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘स नित्यो निर्गुणो विभुः परः परमात्मा’। ‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’ इत्यादि श्रुतिभ्यो नित्यत्वाच्च ॥ 17 ॥ ॥ इति आत्माधिकरणम् ॥ 10 ॥ ज्ञाधिकरणम् ‘नित्यो नित्यानाम्’ इति जीवास्यापि नित्यत्वमुक्तम् ।‘सर्व एते चिदात्मानो व्युच्चरन्ति’इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह – ॐ ज्ञोऽत एव ॐ ॥ 18-236 ॥ जीवोऽप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव । ‘ते वा एते चिदात्मनोऽविनष्टाः परञ्ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’इति काषायणश्रुतिः ॥ 18 ॥ ॐ युक्तेश्च ॐ ॥ 19-237 ॥ नित्यस्यापि ह जीवस्योपाध्यक्षयोत्पत्तिर्युज्यते। ‘उत्पद्यन्ते चिदात्मानो नित्यान्नित्याः परात्मनः । उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयते’ इति व्योमसंहितायाम्॥ 19 ॥ इति ज्ञाधिकरणम् ॥ 11 ॥ उत्क्रान्त्यधिकरणम् ‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्वरूपा अनन्ताः’ इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते । ‘अणुर्ह्येष आत्मायं वा एते सिनीतः । पुण्यं चापुण्यं च’ इति गौपवनश्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति- ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ 20-238 ॥ हेतूनाम् सकाशादणुरेव । ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भो भवति स प्रसूयते स कर्म कुरुते’ इति पौष्यायणश्रुतेः॥ 20 ॥ तत्र स्वातन्त्र्य प्रतीतेः- एकः प्रसूयते जन्तुरेक एव प्रमीयते। एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्’ इत्यादेश्च ॥ स्वयमेवेत्यतो वक्ति – ॐ स्वात्मना चोत्तरयोः ॐ ॥ 21-239 ॥ ‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते। तं वा एतमभिवदन्ति स्वात्मा’ इति। ‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गमयत्येष आगमयति। इत्युत्तरयोर्वाक्ययोः परमात्मनैवोत्क्रान्त्यादयः ॥ 21 ॥ ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॐ ॥ 22-240 ॥ ‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च’ इति व्याप्तिश्रुतेर्नाणुर्जीव इति चेन्न । ‘स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च । स बहुधेदमनुप्रविश्यात्मनोऽभिनयति । स आत्मा स आत्मानः स ईशः स विष्णुः स परः परोवरीयान्’ इति परमात्माधिकारत्वात् । ‘एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः । एक एवोच्यते वेदैस्तावता नास्य भिन्नता’ इति भविष्यत्पुराणे । ‘तदयं प्राणोऽधितिष्ठति। तदुक्तमृषिणाऽऽतेन यातम्’ इत्यादि च ॥ 22 ॥ ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ 23-241 ॥ ‘एषो ह्यात्माऽध्युद्गतो मानशक्तेस्तथाऽप्यसौ प्रमितिं याति वेदैः । पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता’ इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च। ‘आत्माऽमेयः परं ब्रह्म परानन्दादिकाभिधाः। वदन्ति विष्णुमेवैकं नान्यत्रासां गतिः क्वचित्’ इति च कौर्मे ॥ 23 ॥ ॐ अविरोधश्चन्दनवत् ॐ ॥ 24-242 ॥ अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते।यथा हरिचन्दनविप्लुष एकदेशपतितायाः सर्वशरीरव्याप्तिः । ‘अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति । यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’ इति च ब्रह्माण्डपुराणे ॥ 24 ॥ ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॐ ॥ 25-243 ॥ सम्यगसम्यगवस्थानविशेषाद्युज्यते चन्दनस्येति चेन्न। ‘हृदि ह्येषा आत्मा’ इति जीवास्यापि तथाऽभ्युपगमात् ॥ 25 ॥ ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ 26-244 ॥ यथाऽऽलोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिः एवं चिद्गुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति वा । स्कान्दे च – ‘असम्यक् सम्यगिति च व्यवस्थाभेदतः सुराः। व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा॥ चिद्गुणस्य स्वरूपत्वात् तद्व्याप्तिश्चेति युज्यते। शक्तियोगात् सुराणां तु विविधा च व्यवस्थितिः’ इति ॥ 26 ॥ ॥ इति उत्क्रान्त्यधिकरणम् ॥ 12 ॥ व्यतिरेकाधिकरणम् ‘स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न शतधा’ इति गौपवनश्रुतावेकस्याबहुत्वं प्रतीयते । ‘स पञ्चधा स सप्तधा स दशधा भवति स शतधा च सहस्रधा स गच्छति स मुच्यते’ इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते । अतो विरोधं परिहरति- ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ 27-245 ॥ यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति । ‘अथैक एव सन् गन्धवद्व्यतिरिच्यते । अथैकीभवति। अथ बह्वीभवति । तं यथा यथेश्वरः कुरुते तथा भवति सोऽचिन्त्यः परमो गरीयान्’ इति शाण्डिल्यश्रुतिः । ‘अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः । आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’ इति च पाद्मे ॥ 27 ॥ ॥ इति व्यतिरेकाधिकरणम् ॥ 13 ॥ पृथगुपदेशाधिकरणम् ‘तत्वमसि’ ,’अहं ब्रह्मास्मि’ इत्यादिषु जीवस्य परेणाभेदः प्रतीयते ।‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘द्वा सुपर्णा’ इत्यादिषु भेदः। अत उच्यते- ॐ पृथगुपदेशात् ॐ ॥ 28-246 ॥ ‘बिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णाः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवा-भिवाञ्छेत्’ इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ॥ 28 ॥ ॐ तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ 29-247 ॥ ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपमतोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते‘सर्वं खल्विदं ब्रह्म’ इति भविष्यत्पर्वणि च – ‘भिन्ना जीवाः परो भिन्नस्तथापि ज्ञानरूपतः । प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’ इति॥ 29 ॥ ॥ इति पृथगुपदेशाधिकरणम् ॥ 14 ॥ यावदधिकरणम् जीवास्याप्युत्पत्तिरुक्ता । अतस्तस्य ‘सोऽनादिना पुण्येन पापेन चानुबद्धः। परेण निर्मुक्त आनन्त्याय कल्पते’ । इत्यानादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इत्यत आह – ॐ यावदात्माभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ 30-248 ॥ यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि । ‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः । अत उत्पद्यते च म्रियते च विमुच्यते च’ इति च आग्निवेश्यश्रुतिः । ‘आत्मा नित्यः सुखदुःखे त्वनित्ये, जीवो नित्यो धातुरस्य त्वनित्यः’ इति च भारते ॥ 30 ॥ ॥ इति यावदधिकरणम् ॥ 15 ॥ पुंस्त्वाधिकरणम् ‘विज्ञानात्मा सह देवैश्च सर्वैः’ । ‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यत इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । स दुःखाद्विमुक्त आनन्दी भवति । सोऽज्ञानाद्विमुक्तो ज्ञानी भवति ।सोऽबलाद्विमुक्तो बली भवति। स नित्यो निरातङ्कोऽतिष्ठते’ इति पैङ्गीश्रुतावनानन्दादिरूपत्वं प्रतीयते । अत आह – ॐ पुंस्त्वादिवत्त्वस्यसतोऽभिव्यक्तियोगात् ॐ ॥ 31-249 ॥ यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यत एवं सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः । ‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ इति च गौपवनश्रुतिः॥ 31 ॥ ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ ॥ 32-250 ॥ व्यक्तनङ्गीकारे देवानां च नित्योपलब्धिरानन्दादीनामसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्यनुपलब्धी च प्रसज्येते । ‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसुरा एवमनेवं च मनुष्याः’ इति ह्याग्निवेश्यश्रुतिः । भविष्यत्पर्वणि च- ‘नित्यानन्दज्ञानबला देवा नैवं तु दानवाः । दुःखोपलब्धिमात्रास्ते मानुषस्तूभयात्मकाः ॥ तेषां यदन्यथा दृश्यं तदुपाधिकृतं मतम् । विज्ञानेनात्मयोगेन निजरूपे व्यवस्थितिः ॥ सम्यज्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् । विपरीतं च दैत्यानां ज्ञानस्यैवं व्यवस्थितिः’ इति ॥ 32 ॥ ॥ इति पुंस्त्वाधिकरणम् ॥ 16 ॥ कर्तृत्वाधिकरणम् ईश्वरस्यैव कर्तृत्वमुक्तम् । ’यत् कर्म कुरुते तदभिसम्पद्यते’ इति जीवस्याप्युपलभ्यते । अत आह- ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ 33-251 ॥ जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोऽपि कर्ता ॥ 33 ॥ ॐ विहारोपदेशात् ॐ ॥ 34-252 ॥ ‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इत्यादिना मोक्षेऽपि ॥ 34 ॥ ॐ उपादानात् ॐ ॥ 35-253 ॥ साधनाद्युपादानप्रतीतेश्च ॥ 35 ॥ ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ 36-254 ॥ ‘आत्मानमेव लोकमुपासीत’ इति क्रियायां व्यपदेशाच्च । अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥ 36 ॥ तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति – ॐ उपलब्धिवदनियमः ॐ ॥ 37-255 ॥ यथा ज्ञान इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ‘य आत्मानमन्तरो यमयति’ इति च श्रुतिः ॥ 37 ॥ कुतः ? – ॐ शक्तिविपर्ययात् ॐ ॥ 38-256 ॥ अल्पशक्तित्वाज्जीवस्य ॥ 38 ॥ ॐ समाध्यभावाच्च ॐ ॥ 39-257॥ समाधानाभावाच्चास्वातन्त्र्यं प्रतीयते ॥ 39 ॥ ॐ यथा च तक्षोभयथा ॐ ॥ 40-258 ॥ यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ॥ 40 ॥ ॐ परात् तु तच्छ्रुतेः ॐ ॥ 41-259 ॥ सा च कर्तृत्वशक्तिः परादेव । ‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’ इति हि पैङ्गि श्रुतिः ॥ 41 ॥ ॐ कृतप्रयत्नापेक्षस्तुविहितप्रतिषेधावैयर्थ्यादिभ्यः ॐ ॥ 42-260 ॥ ततोऽप्रयोजकत्वं शास्त्रस्य नापद्यते । कृतप्रयत्नापेक्षत्वात् तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि । ‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्यतु । ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम् ॥ अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः’ इति भविष्यत्पर्वणि । ‘एतदेवं न चाप्येवमेतदस्ति च नास्ति च’ इति च मोक्षधर्मे ॥ 42 ॥ ॥ इति कर्तृत्वाधिकरणम् ॥ 17 ॥ अंशाधिकरणम् ‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः । स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥ इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते । ‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य । तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् । न नियम्यः स कस्यापि स सर्वस्य नियामकः’ ॥ इति च भाल्लवेयश्रुतौ ॥ अतो ब्रवीति- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ 43-261 ॥ ‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ । ‘यस्तद्वेद स पितुष्टिताऽसत्’ । ‘यस्ताविजानात् स पितुष्पिताऽसत्’। ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’इत्यादिना नावाव्यपदेशादंशो जीवः । तथा च पाराशर्यायणश्रुतिः- ‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति’ च इति । ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः । ‘ब्रह्मा दाशा ब्रह्म कितवाः, ब्रह्मैवेमे दाशा’इत्यभेदेनाप्येकेऽधीयते । तथा चाग्निवेश्यश्रुतिः- ‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिरे’ इति ॥ वाराहे च- ‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥ यतो भेदेन तस्यायमभेदेन च गीयते । अतश्चांशत्वमुद्धिष्टं भेदाभेदौ न मुख्यतः’ इति ॥ 43 ॥ ॐ मन्त्रवर्णात् ॐ ॥ 44-262 ॥ ‘पादोऽस्य विश्वा भूतानि’ इति ॥ 44 ॥ ॐ अपि स्मर्यते ॐ ॥ 45-263 ॥ ‘ममैवांशो जीवलोके जीवभूतः सनातन’ इति ॥ 45 ॥ अनंशत्वश्रुतेर्गतिं चाह – ॐ प्रकाशादिवन्नैवं परः ॐ ॥ 46-264 ॥ अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः।यथा तेजोऽम्शस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता। यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ॥ 46 ॥ ॐ स्मरन्ति च ॐ ॥ 47-265 ॥ ‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’ । ‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः’ ॥ ‘स्वांशश्चाथो विभिन्नांश इति द्वेधाऽम्श इष्यते । अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥ तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् । विभिन्नांशोऽल्पशक्तिःस्यात् किञ्चित्सादृश्यमात्रयुक्’ ॥ इति वाराहे । ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति च ॥ 47 ॥ ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ 48-266 ॥ परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि देहसम्बन्धात् ।’य आत्मानमन्तरो यमयति’ । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिना । न तु परस्य। ‘वासुदेव सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्तधाऽहमितेऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञान बन्धो न मुक्तितो सर्व एव ह्येते पूर्णा अजरा अमृताः परमाः परानन्दाः’ इति चतुर्वेदशिखायाम् । युज्यते च ज्योतिरादिवत् यथाऽऽदित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च । मोक्षधर्मे च – ‘यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् । भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥ भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति । वाराहे च- ‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः । अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥ अदेहबन्धयोग्यत्वाद्यथासूर्यप्रभाऽक्षिणी । यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥ अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम्’ इति ॥ 48 ॥ ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ 49-267 ॥ अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम्- ‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि, कृष्णो रामः कपिलः इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि। तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णाः सर्वे एव बध्यन्तेऽथ मुच्यन्ते च केचन’ इति ॥ 49 ॥ ॐ आभास एव च ॐ ॥ 50-268 ॥ ‘रूपं रूपं प्रतिरूपो बभूव’ इति प्रतिबिम्बत्वाच्च न साम्यम् । वाराहे च– ‘द्विरूपूवंशकौ तस्य परमस्य हरेर्विभोः । प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥ प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः । प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु’ इति ॥ ‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’ इति पैङ्गिश्रुतिः ॥ ‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’ इति च श्रुतिः ॥ 50 ॥ ॥ इति अंशाधिकरणम् ॥ 18 ॥ अदृष्टाधिकरणम् प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह – ॐ अदृष्टनियमात् ॐ ॥ 51-269 ॥ अनादिविद्याकर्मादिवैचित्र्याद्वैचित्र्यम् ॥ 51 ॥ ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ 52-270 ॥ इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । च शब्देन प्रतिक्षणवैचित्र्यं च ॥52॥ ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ 53-271 ॥ न स्वर्गभूम्यादिप्रदेशविशेषाद्वैचित्र्यम् । तत्प्राप्तेरप्यदृष्टापेक्षत्वात्। एकदेशस्थितानामेव वैचित्र्यदर्शनाच्च ॥ 53 ॥ ॥ इति अदृष्टाधिकरणम् ॥ 19 ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः॥ 02-03 ॥ चतुर्थः पादः युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन । ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते । ‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥ ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति च । अत उच्यते – प्राणाधिकरणम् ॐ तथा प्राणाः ॐ ॥ 01-272 ॥ यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥ ॐ गौण्यसम्भवात् ॐ ॥ 02-273 ॥ अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् । ‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते । परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’ इति भविष्यत्पर्वणि ॥ 02 ॥ ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥ ‘इदं सर्वमसृजत’ इति ॥ 03 ॥ ॥ इति प्राणाधिकरणम् (प्राणोत्पत्त्यधिकरणम्) मनोधिकरणम् ‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’ इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह- ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥ ‘मनः सर्वेन्द्रियाणि च’ इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते। ‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः । तदनुत्पत्तिवचनमल्पोपचयकारणात्’॥ इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥ 04 ॥ ॥ इति मनोधिकरणम् (तत्प्रागधिकरणम्) वागधिकरणम् ‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युत्तम्’ इति । ‘वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिरवतिष्ठते’ इति सयुक्तिकं पौष्यायणश्रुतौ वाचोऽनुत्पत्तिरुच्यते । अतो ब्रवीति – ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥ ‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः । ‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता । उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन’ इति वायुप्रोक्ते ॥ 05 ॥ ॥ इति वागधिकरणम् (तत्पूर्वकत्वाधिकरणम्)॥ सप्तगत्यधिकरणम् ‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः। ‘सप्तैव मारुता बाह्ये प्राणाः सप्त तथाऽऽत्मनि । अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः’ इति च स्कान्दे। ‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादशराशयो द्वादशग्रहाः’ इति कौण्डिण्यश्रुतौ द्वादशप्राणादृष्यन्ते । अतो वक्ति- ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥ ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्। ‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ । इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥ ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥ हस्तादीनां कर्मविषयत्वान्न सहपाठः। ‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः । तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते’ इति वायुप्रोक्ते ॥ 07 ॥ ॥ इति सप्तगत्यधिकरणम् ॥ 04 ॥ अण्व(णुत्वा)धिकरणम् ‘दिवीव चक्षुराततम्’ इति व्याप्तिः प्रतीयते ।दूरश्रवणदर्शनादियुक्तिश्च। अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः । अतो वक्ति- ॐ अणवश्च ॐ ॥ 08-279 ॥ ‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः॥ 08 ॥ ॥ इति अण्व(णुत्वा)धिकरणम् ॥ 05 ॥ मुख्यप्राणाधिकरणम् ‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते । ‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते’ ॥ इति च युक्तिर्वायुप्रोक्ते । ‘आत्मत एष प्राणो जायते’ इति च । अत आह ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥ ‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिरिति’ इति गौपवनश्रुतेः ॥ 09 ॥ ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥ ‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते । प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः’ इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । ‘स प्राणमसृजत’ …‘खं वायुर्ज्योतिरापः..’, ‘तपो मन्त्राः कर्म’ इति पृथगुपदेशात् । ‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् । मुख्यप्राणः परस्माच्च न परः कारणान्वितः’ इति वायुप्रोक्ते ॥ 10 ॥ ॥ इति मुख्यप्राणाधिकरणम् (श्रेष्ठाधिकरणम्) चक्षुराद्यधिकरणम् ‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ । ‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत्’ इति च युक्तिर्भारते। ‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः । न परः कञ्चिदाश्रित्य वर्तते परमो यतः’ इति पैङ्गिश्रुतिः । अत आह- ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥ चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव । ‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’ इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् । ‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः । कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् । अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः । अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् । यतो विशेषवाक्येन ह्रियते समतावचः’ । ‘नान्योऽतोऽस्तिद्रष्टा’’नान्यदतोऽस्ति द्रष्टृ’ इत्यादिवचनयुक्तय आदिशब्दोक्ताः ॥ 11 ॥ ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥ इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते । माण्डव्यश्रुतिश्च ‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥ ॥ इति चक्षुराद्यधिकरणम् ॥ 07 ॥ पञ्चवृत्त्यधिकरणम् ‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इति । ‘अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः । ‘प्राणापानादयः सर्वे मुख्यदासा यतेऽनिशम् । अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते’ इति युक्तिर्वायुप्रोक्ते । ‘मुख्यस्यैव स्वरूपाणि प्राणाध्याः पञ्चवायवः । स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम्’ इति च गौपमश्रुतिः । अतो वक्ति- ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥ ‘अथ पञ्चवृत्तैतत्प्रवर्तते प्राणा वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते । प्राणाद्वाव प्राणेऽपानादपानो व्यानाद्व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्छित्तं चेतनाया एव चेतनैवमिति’ इति ॥ इति पञ्चवृत्त्यधिकरणम् ॥ 08 ॥ प्राणाणुत्वाधिकरणम् ‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते । ‘यतः सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु । अतो धृतं जगत् सर्वमन्यथा केन धार्यते’ इति च युक्तिर्वायुप्रोक्ते । ‘अणुनैतत्सृज्यतेऽणुनैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणो ह्येतद्भवति’ इति च सौत्रायणश्रुतिः ॥ अत आह – ॐ अणुश्च ॐ ॥ 14-285 ॥ स वा एष प्राणोऽणुर्महान्नामाऽन्तर्वाऽणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ॥ 14 ॥ ॥ इति प्राणाणुत्वाधिकरणम् ॥ 09 ॥ ज्योतिराद्यधिकरणम् करणत्वं प्राणानामुक्तम् । ‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः। यस्मात् तद्वशगा एते दृश्यन्ते सर्वदेहिषु’ इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते। ‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतैः कारयति’ इति काषायणश्रुतौ । अत आह – ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥ यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति। ‘यः प्राणे तिष्ठन्’ इत्यादि तदामननात् ॥ 15 ॥ कथं जीवकरणत्वश्रुतिरित्यतो वक्ति – ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥ जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः । ‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् । श्रोत्रादिभिः कारयति करणानीत्यतो विदुः । न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः । केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ इति वाराहे ॥ 16 ॥ ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥ अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्करणत्वश्रुतिः ।’अथावियोगीनि । करणैर्र्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद्वाव करणानां करणत्वं यद्वाव न वियुज्यते’ इति गौपवनश्रुतिः । चशब्दः करणसम्बन्धग्राही ॥ 17 ॥ ॥ इति ज्योतिराद्यधिकरणम् ॥ 10 ॥ इन्द्रियाधिकरणम् ‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति । ‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादश’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति- ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥ मुख्यप्राणमृते त एवेन्द्रियाणि । ‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् । द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’ इति पौत्रायणश्रुतिः । ‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् । मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु । विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् । तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’ इति बृहत्संहितायाम् ॥18॥ ॐ भेदश्रुतेः ॐ ॥ 19-290 ॥ ‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ॥ 19 ॥ ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥ पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृष्यते न मुख्यस्य । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’ इति च श्रुतेः ॥ 20 ॥ ॥ इति इन्द्रियाधिकरणम् ॥ 11 ॥ सङ्ज्ञाधिकरणम् ‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामानी’ इति गौपवनश्रुतिः ॥ ‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते । एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः’ इति च युक्तिर्ब्राह्मे । अथ कस्मादुच्यते परम इति परमाद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादुच्यते ब्रह्मेति बृहत्त्वाद् बृंहणत्वाच्च’ इत्याग्निवेश्यश्रुतिः । अत आह- ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥ नामरूपक्लृप्तिः परादेव। ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् य आस्ते’ इति श्रुतेः। त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरूपयोः ॥ ‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः । एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’ इति च पाद्मे ॥ ‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥ अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः’ इति च ब्रह्माण्डे ॥ 21 ॥ ॥ इति सङ्ज्ञाधिकरणम् ॥ 12 ॥ मांसा(ध्य)धिकरणम् ‘अद्ब्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवन्त्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः । ‘अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः’ इति च भारते । ‘पृथिवी शरीरमाकाशमात्मा’ इति च अतो ब्रवीति – ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥ ‘यत् कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत् तेजः’ इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम्। अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥ ‘यद्वा वाऽथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानि’ इति हि काषायणश्रुतिः । ‘पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया । एकभूतात्मकत्वेन व्यवहारस्तु वैदिके । भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि । तेजिष्टत्त्वात् तैजसं च यथाऽस्थ्नां वचनं श्रुतौ’ इति वायुप्रोक्ते ॥22॥ कथं तर्हि विशेषवचनमित्यत आह- ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥ भूतानां विशेषसंयोगादेव विशेषव्यवहारः । ‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृताः । इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥ इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् । स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम्’ इति च ब्रह्मसंहितायाम् ॥ सर्वाध्यायार्थावधारणार्थऽध्यायान्ते द्विरुक्तिः। गारुडे च- ‘अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा । विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ॥ अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् । विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ॥ इति ॥ 23 ॥ इति मांसा(ध्य)धिकरणम् ॥ 13 ॥ ॥ इति श्रीमद्ब्रह्मसूत्रे द्वितीयाध्यायस्य चतुर्थः पादः॥ 02-04 ॥ ॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायः (अविरोधाध्यायः) ॥ 02 ॥