Raghuvamsha Maha Kavya Workshop @ Atmashrama

अयि मान्याः,

 
                     रघुवंशकार्यशाला-आह्वानपत्रिका
 

महाकवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्यकवेरभावात् अनामिका सार्थवती बभूव ।।

कालिदासकमनीयसद्वचोमालिकारसिककण्ठभूषिका ।
ध्रियतां कविकुलावतंसकैरातात्मनामकसदाश्रमेधिता ।।

श्रावं श्रावं रमणीया, हृदयङ्गमा कालिदासवाणी । एषा हि संस्कृतव्युत्पित्सूनां परमं निदानम् । आसेतुहिमाचलं संस्कृतविद्यालयेषु चिरात् अधीयमानानि, अध्याप्यमानानि च सन्ति कालिदासोपज्ञमनोज्ञकाव्यरत्नानि ।

गुरुकुलच्छात्राणां महोपकारार्थं आत्माश्रमगुरुकुलपरिसरे समायोजिता इयं कार्यशाला कविकुलकोकिलेन कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य विविधायामेषु विद्यार्थिनां प्रबोधजननाय, संस्कृताध्ययने अभिरुचिवर्धनाय, काव्यरचनाकौशलसमोधनाय कविकाव्यसमवायरूपेण निःस्यन्दमाना मधुरवाग्झरीनिःस्यन्दिनी स्वर्निम्नगेव विराजते ।

तत्र भवन्तः सर्वे रसिकाः कार्यशालामिमां यशोभूयिष्ठोपेतां कुर्युरित्याशास्यते। काव्यरसामोदं आस्वाद्य मोमुद्यतां इति च संप्रार्थ्यते ।

कार्यशालानिर्वाहकौ - पं. अन्वेषशर्मा सरस्वती, पं. रघूत्तमाचार्य कोयमत्तूर्

कार्यशलायाः अध्यक्षाः तथा मुख्याथितयश्च - पं. रामविठ्ठलाचार्याः, प्राध्यापकाः, पूर्णप्रज्ञविद्यापीठम्, बेङ्गलूरु

कार्यशालानिर्वाहकः - आत्माश्रमः

स्थलम् - आत्माश्रमः, 1586, BSK 6th Stage, 4th Block, Near Lingadheerana Halli, Bangalore - 560109, जङ्गमवाणी - 7259670376

समयः - 9 वादनतः - 5 वादनपर्यन्तम्

।। सर्वेषां रसिकमहाशयानां कार्यशालायामस्यां सुस्वागतं व्याह्रियते ।।

इति आवेदयितारः - डा. राचूरि आचार्यः, आत्माश्रमगुरुकुलविद्यार्थिनश्च

 
 
 

हरये नमः
डा. राचूरि आचार्य
प्राध्यापकः, आत्माश्रमः
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
त्वमस्माकं तवस्मसि