Kanduka Stuti

ध्यायेत् तं परमानन्दं यन्माता पतिमयदपरमानन्दम् । उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥1॥ यस्य कराऽलोऽलं चक्रं काऽलः परः स हि कराऽलोऽम् । यस्य गदा पवमानः सन् यो व्यासोभवत् सदापवमानः ॥2॥ यस्य रमा न मनोगं जगृहे विश्वम्भरापि न मनोगम् ।यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् ॥3॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोजः ।मानधि बिभ्रत्सु मनो मानधिमासीन्न वासुदेवो जः ॥4॥ सोजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते ।अवदन् देव क्यं ते भुवनं हि सुराः सदैवदेव क्यन्ते ॥5॥ नीतो वसुदेवेन स्वततेन स गोकुऽलं सुवसुदेवे न ।तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥6॥ ववृधे गोकुसमध्यायो देवो विश्वमद्भुताकुऽमध्यात् ।तत्र च पूतनिकाया वधमकरोत् यन्निजाः सुपूतननिकायाः ॥7॥ अधुनोच्छकटं ऽलोली पादाङ्गुष्ठेन वातपेशशकटं ऽलोली । अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य ॥8॥ मुखऽलाऽनलो तन्मुखगं जगदचष्ट साऽनऽलोतत् । नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य ॥9॥ तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् । अवदन्नामानमयं जगदादि वासुदेवनामानमयम् ॥10॥ तस्य सखा बऽनामा ज्येष्ठो भ्राताथ यन्निजाबऽना मा । यस्य च पर्यङ्कोयं पूर्वतनो विष्णुमजसपर्यं कोयम् ॥11॥ तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोवातरयः ।हरमाणो बाऽतमं स्वात्मानं कण्ठरोधिनावाऽतमम् ॥12॥ सोवनिमध्ये रङ्गन् अरिदरयुग् बाऽरूपमध्येरं गन् । अमुषन्नवनीतमदः सगोकुऽले गोपिकासु नवनीतमदः ॥13॥ तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता । जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम् ॥14॥ अथ सान्तरितामानं विष्णुं विश्वोद्भवं सदान्तरितामानम् ।अनयद् दामोदरतां योरमयत् सुन्दरीं निजामोदरताम् ॥15॥ चक्रे सोर्जुननाशं प्राप्नोति च यत्स्मृतिः सदार्जुनना शम् । तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः ॥16॥ अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षितावनवासम् ।तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥17॥ अहनद् वत्सतनूकं योपल्लोकं स्वयत्नवत्सतनूकम् । सोपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः ॥18॥ सः विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हि के । अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाद्युदकान्तम् ॥19॥ हत्वा धेनुकमूढं बऽलात् प्रऽम्बं च खेट् सधेनुकमूढम् ।व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः ॥20॥ गिरिणा रक्षापि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता । शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाव्यं जयता ॥21॥ रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा। पूर्णानन्दैकतनुः स विश्वरुक्पावनोप्यनन्दैकतनुः ॥22॥ अथ हतयोर्गलिऽकेशयोः श्वफल्कजप्रापितः पुरीं गलिऽकेश्योः । भङ्क्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥23॥ मृत्नन् गजमुग्रबऽलं सबऽलो रङ्गं विवेश सृतिमुग्रबऽम् ।हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ ततौ ऽलौ बलिऽनौ ॥24॥ प्रादात् सान्दीपनये मृतपुत्रं ज्ञानदीपसन्दीपनये । गुर्वर्थेज्ञानतमःप्रभेदिता नित्यसम्भृताज्ञानतमः ॥25॥ जित्वा मागधराजं तोषितमकरोत् सदात्मयोगधराजम् । अनु कुर्वन् निजसदनं चक्रे रम्यां पुरीं सुबोधनिजसदनम् ॥26॥ प्रसभं सगजबऽस्य क्षत्रस्योच्चैः समगधराजबऽस्य । मानं शिशुपाऽवरं हत्वा भैष्मीमवाप शिशुपाऽवरम् ॥27॥ हंसो डिभकश्चपऽलावमुना संसूदितो यवनकश्च पऽला ।कीर्तिर्विमलाला विरता प्रतता विश्वाधिपावनीऽलाविरता ॥28॥ सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः । प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥29॥ यत्परिवारतयेशा जाता देवा नृपात्मजा रतयेशाः ।यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प ॥30॥ येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः ।भीमे प्रीतिममेयां व्यञ्जयता तेनैव शेषपाति ममे याम् ॥31॥ अथ कृष्णावरणे तान् प्राप्तान् राज्ञोशृणोत् सदावरणेतान् ।द्रष्टुं यातः सबऽस्तां चानैषीत् पृथासुतांस्ततः सबऽलः ॥32॥ तानिन्द्रस्थऽवासांश्चक्रे कृष्णः परो निजस्थऽवासान् । स्वबऽलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः ॥33॥ वालिऽवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय । वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥34॥ मातुः परिभवहान्यै राज्ञा द्युसदामितश्च परिभवहान्यैः । अभवन्नरकमुरारिर्यो वासीदत् समस्तनरकमुरारिः ॥35॥ नीतो दिवि देववरै रेमे सत्यासमन्वितोदेववरैः ।सर्वर्तुवने शशिना निशि सत्यां वासरे वनेशशिना ॥36॥ सुरतरुमापालिमतात् प्रकाशयञ्छक्तिमात्मनः पाऽमतात् । सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥37॥ पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी ।शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियातः ॥38॥ शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीशविप्रवराद्यम् ।तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण ॥39॥ यस्याज्ञाबऽसारैः पार्थैर्दिग्भ्यो हृतं धनं बऽसारैः ।जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥40॥ अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् ।पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावापि ॥41॥ निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ ।अजयद् रुद्रं च रणे बाणार्थेवनतिपतितकचन्द्रं चरणे ॥42॥ असृजज्ज्वरमुग्रतमःक्षयप्रदो ऽलीऽयाधिवरमुग्रतमः । क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥43॥यस्यावेशोरुबऽन्नयहनत् पार्थोसुरान् प्रजेशोरुबऽलान् ।वरदानदस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव ॥44॥यस्यावेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः । कुरुपतिनाम नु यमुना कृष्टा येनाहुरर्ह्यमतनु यमुना ॥45॥ यद्बऽवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् । ऽलेभे चान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥46॥ यद्बऽभारवहत्वान्नाचऽदुरगादिभिः सुभारवहत्वम् ।धर्मादरिहापि पदं भीमो येनैव साहसं रिहापि पदम् ॥47॥ न हि नहुषोऽ नहितुं धर्मो द्रौणिस्तथेतरोऽलं नहितुम् । नो राट् कर्णो ब्रह्मवरी येन ध्वस्तोस्त्रमग्रहीत् सुब्रह्म वरी ॥48॥ क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च मलं स्ववता । सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा ॥49॥ यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ।पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥50॥ यद्भक्त्यानुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ ।ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥51॥ यद्भक्त्यामितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये ।यामीरार्द्धतनुत्वान्नापाद् भीमादृतेपि नापाद् भीमात् ॥52॥ यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् ।शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥53॥ मनसामनसा मनसा मनसा यमनन्तमजस्रमवेदनुया ।विऽयं विऽयं विऽयं विऽयन्निखिऽलं त्वशुभं प्रचकार च यः ॥54॥ सोगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन ।पार्थार्थे बहुतनुतां यत्र प्रकाशयन् स्वयं सबहुतनुताम् ॥55॥ गुरुकर्णनदीजानवधीच्चक्षुर्बऽलेन जनदीजादी । शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयापरवान् ॥56॥ यस्य सुनीतिसहायान्न रिपून् मेनेर्जुनः समेतसहा यान् । अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥57॥ येन जयद्रथमारः पार्थः शत्रूनवापतद्रथमारः । यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥58॥ यद्भरितो भरताभः प्रभुरम्भाभावितोभिभरताभः । भीमो रभसाभिभवी प्रसभं भा भाभिभूर्भसा भिभवी ॥59॥ यदनुग्रहिपूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वात् ।अदहत् बाहुबऽलेन क्रोधाग्नावाहितान् निजाहुबऽलेन ॥60 ॥ कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः ।धृतराष्ट्रसुतानवधीत् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥61॥ भीमविपाटितदेहानदर्शयत् स्वनरीन् विपाटितदेहान् ।कृष्णाया हितकारी सम्यगीरप्रियः सदाहितकारी ॥62॥ अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणापीतबऽम् ।दधता वासोमरणं नीतं चक्रेभिमन्युजं सोमरणम् ॥63॥ तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता । पार्थेषु प्रेमवता नित्यं भर्त्रासुतासुविप्रेमवता ॥64॥ ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् । पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥65॥ तेनावापि सुजातैर्हरिमेधस्तुरगवर्ततेनपि सुजातैः । पाण्डुसुतैः सवसूकैः प्राप्तैर्व्यासात्मना च सुसवसूकैः ॥66॥ तदनु स पाण्डुतनूजै रेमे क्ष्मां पाऽयन् सुपाण्डुतनूजैः । अनुपमसुखरूपोजः परमः श्रीवल्लभः सति खरूपो जः ॥67॥ सुगतिं चरमामददान्निजयोग्यां ज्ञानिसुततिं परमामददात् । पार्थानां सयदूनां स पितृप्रेष्यादिनामिनां सयदूनाम् ॥68॥ रेमे तत्रापिसुखी परमोनन्तो ननन्द तत्रापि सुखी । प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥69॥ एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः । पूर्णसुखानि सुभान्ति प्रततनि निरन्तराणि सुभान्ति ॥70॥ राम राम महाबाहो माया ते सुदुरासदा । वाद सादद को ऽलोके पादावेव तवासजेत् ॥71॥ जेत् सवातव वेदापाके लोकोदद सादवा । दासरादुसुतेयामाहोवाहा मम राम रा ॥72॥ देवानां पतयो नित्यं मतं यस्य न जानते । तस्मै देव नमस्तेहं भवतेसुरमारये ॥73॥ समस्तदेवजनकवासुदेवपरामृत । वासुदेव परामृत ज्ञानमूर्ते नमोस्तु ते ॥74॥ देवादे देवऽलोकप पूर्णानन्दमहोदधे । सर्वज्ञेश रमानाथ देवादे देव ऽलोकप ॥75॥ यो निर्ममेशेषपुराणविद्यां यो निर्ममेशेषपुराणविद्याम् । योनिर्ममेशेषपुराणविद्यां यो निर्ममेशेषपुराणविद्याम् ॥76॥ अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार । महागुणाढ्यापरिमेयसत्त्व रमाऽयाशेषमहागुणाढ्य ॥77॥ भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा । भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा ॥78॥ नैव परः केशवतः परमादरस्मात् समश्च सुकेशवतः । सोयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोनः ॥79॥ कृष्णकथेयं यमिता सुखतीर्थेनोदितानने यं यमिता । भक्तिमता परमेशे सर्वोद्रेका सदानुताप रमेशे ॥80॥ इति नारायणनामा सुखतीर्थपूजितः सुरायणना मा । पूर्ण गुणैर्धिक पूर्णज्ञानेच्छाभक्तिभिः स्वधिकपूर्ण ॥81॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं यमकभारतम् ॥

श्रीश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् ऋग्भाष्यम् प्रथमोध्यायः नारायणंनिखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम् । सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १॥ ओमशेषगुणाधार इति नारायणोऽप्यसौ । पूर्णो भूतिवरोऽनन्तसुखो यद्व्याहृतीरितः ॥ २ ॥ गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः । भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः ॥ प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः ॥ ३ ॥ स पूर्णत्वात् पुमान्नाम पौरुषे सूक्त ईरितः । स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ॥ ४ ॥ स एव सर्वशब्दार्थः इत्याहोपनिषत् परा ।‘ता वा एता ऋचः’ इति विशेषेणाप्यृगर्थताम् ॥ ५ ॥ ‘यो देवानाम्’ इति श्रुत्या देवनाम्नां विशेषतः । स्पष्टत्वात् तद्गतत्वेन तत्राहाग्रेऽग्निनामकम् ॥ ६॥ अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् । एवमेवाह भगवान्निरुक्तिं बादरायणः ॥ ७ ॥ (ऋग्भाष्यम्) यथैवाग्न्यादयः शब्दाःप्रवर्तन्ते जनार्दने । तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ॥ ८ ॥ अग्निशब्दोऽयमग्र एवाभिपूज्यताम् । अग्र्यत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम् ॥ ९ ॥ आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम् । ऋत्विङि्नयामकत्वेन यज्ञानामृत्विजं सदा ॥ १० ॥ द्योतनाद्विजयात् कान्त्या स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः ॥ ११ ॥ अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता । इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः ॥ रतिधारकोत्तमत्वात् स रत्नधातम ईरितः ॥ १२ ॥ स पूर्वैर्नूतर्नैरेष्यैर्विज्ञानादृषिनामकैः । ईड्यो देवादिभिस्सर्वैस्स च देवानिहानयेत् ॥ १३ ॥ तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम् । दिवसे दिवसे नित्यं पुष्टिमेव न हीनताम् ॥ यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा ॥ १४ ।। यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च । विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम् ॥ १५ ॥ सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम् । यमयत्यग््रयकीर्तीनाम् उत्तमो विबुधैः सह । आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः ॥ १६ ॥ यजमानाय यद्भद्रं कर्तुमिच्छसि सत्प्रिय । त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम् ॥ १७ ॥ तवैव सत्यमङ्गानां रसयद्वह्निगो हरिः । अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित् ॥ १८ ॥ वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा । अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम् । उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः ॥ १९ ॥ देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम् । यथार्थज्ञानगोपं त्वामुपेमसि पितेव नः ॥ २० ॥ सूपाश्रयो भव त्वं च यद्वदौरससूनवे । रक्ष सन्ततसौख्याय सम्यक्सत्त्वाय वा सदा ॥ २१ ॥ ॥ मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः । विशेषतश्च वेदानां ‘यो ब्रह्माणम्’ इति श्रुतिः ॥ ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा ॥ २२ ॥ ‘वाचो बभूवुरुशतीर्हयग्रीवात्’ इति स्फुटम् । वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथा परम् ॥ २३॥ हयग्रीवादिमा विद्याः श्वसितत्वेन निःसृताः । ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि ॥ २४ ॥ दक्षाद्याः सनकाद्याश्च शक्राद्या मनवस्तथा । जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोऽखिलाः ॥ २५ ॥ उक्तं पद्मपुराणे च ‘कपिलो भगवानजः । प्रोवाच ब्रह्मणे विद्याः’ ‘हृदिस्थो बादरायणः ॥ २६॥ ओङ्कारपूर्विका विद्याः प्रेरयत्यखिलेष्वपि । सदैव ब्रह्मणे पूर्वम्’ इति सात्वतसंहिता ॥ २७॥ सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम् । अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः ॥ २८ ॥ तेन चानन्तशक्तित्वात् युुगपत् समुदीरितम् । प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च ॥ २९ ॥ सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागरा । द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ ॥ ३० ॥ यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः । अर्वाक्तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः ॥ ३१॥ यत्स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः । सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम् ॥ ३२ ॥ ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च । सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः ॥ ३३ ॥ अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम् । इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक् पृथक् ॥ ३४ ॥ एतज्ज्ञानाददृष्टस्य फलस्याप्तिः स्फुटं भवेत् । द्रष्टॄणां तु चतुर्थानां ज्ञानादप्यैहिकं भवेत् ॥ ३५ ॥ ते चैकस्यापि बहवः स्युः सूक्तस्यर्च एव वा ॥ तस्यां तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः ॥ ३६॥ तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति । विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः ॥ ३७ ॥ सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती । द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत् ॥ ३८ ॥ स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक् । ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः ॥ ३९ ॥ छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता । स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक् ॥ ४०॥ गायत्री बृहती चैव ताः सर्वा गरुडस्तथा । ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टप् स्वाहेति चोच्यते ॥ ४१ ॥ गायत्री जगती चैव वारुणी रोहिणी तथा । अनुष्टुप् बृहती चैव तारा पङ्क्तिः शची तथा ॥ ४२ ॥ उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः । विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते ॥ ४३ ॥ अतिछन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्किताः । विराडिति च नामासां तास्ता ऊनाधिकेष्वपि ॥ ४४ ॥ निचृद् भुरिग् विरा सञ्ज्ञा प्रस्तारेत्यादि नाम च । बह्वीनामेकमानेन त्वेकं नाम च युज्यते ॥ सर्वाभिमानिता चैव तिसृणां तु यथाक्रमम् ॥ ४५ ॥ देवता सर्वविद्यानां स्वयं नारायणः प्रभुः । ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च ॥ ४६ ॥ ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च । पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः ॥ ४७॥ ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ कामपुत्रमनुदक्षाङ्गिरस्सुताः ॥ ४८ ॥ तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः । प्रधानमरुतो वारिपतिरग्निश्च मारुताः ॥ ४९ ॥ निर्ऋतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा । अनन्तकोटिशतकदशार्धाद्यंशतः क्रमात् ॥ ५० ॥ ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि । मुक्तावपि क्रमो ह्येष देवता उदिता इमाः ॥ ५१ ॥इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक् । देवतास्तत्र तत्र स्युरेष एव परो विधिः ॥ ५२॥ वेदादिवर्णपर्यन्तैर्मूर्तयः केशवस्य तु । समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक् । यथायोगं यथान्यायमन्यासामपि मूर्तयः ॥ ५३ ॥ ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते । प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम् ॥ ५४ ॥ ‘सर्वे वेदाश्च’ ‘नामानि’ ‘ता वा एता ऋचस्तथा । ‘इन्द्रं मित्रं वरुणम्’ इत्याद्यत्र प्रमा परा ॥ ५५ ॥ देवतातारतम्यं च सर्वोत्कृष्टं च केशवम् । ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन ॥ ५६॥ इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः । ‘न ते महित्वम्’ इत्यादिनैश्वरानेव केवलान् । गुणान् विष्णोः श्रुतिर्ह्याह नैव दोषान् कथञ्चन ॥ ५७ ॥ ‘जाता परिबभूव’ इति मर्यादां ब्रह्मणोऽपि हि । ‘नैव रेमे बिभेद् ब्रह्मा ‘नासीत्’ इत्यादिकानपि ॥ ५८ ॥ दोषान् रुद्रे च तानेव ‘न मिनन्ति’ इति पूर्वकान् । ‘यं कामये तं तमुग्रं’ ‘रुद्राय धनुः’ इत्यपि ॥ ५९ ॥ ‘अस्य देवस्य’ ‘मा शिश्नदेवा अपि गुः’ इत्यपि । ‘घ्नञ्छिश्नदेवान्’ इत्याद्या दोषा बहव ईरिताः ॥ ६० ॥ ‘ततो वितिष्ठे योनिः’‘स एतावत्यहम्’ इत्यपि । अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि । तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात् ॥ ६१ ॥ ‘ब्रह्मैवाग्रे’ इति ह्युक्त्वा रुद्रादीनां ततो जनिः । उक्ता जातानि विश्वानि स पर्यभवदित्यपि । ‘यस्य च्छायामृतं मृत्युः’ इतिचादरतोऽब्रवीत् ॥ ६२ ॥ अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक् । तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे । सौपर्णश्रुतिरित्याह सप्ताक्षितयइत्यपि ॥ ६३ ॥ वायुरस्मा उपामन्थद् विश्वदेवाय वायवे । विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि ॥ ६४ ॥ नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः । इतरे च क्रमाद्धीनाः शतांशाद्वायुतोऽवराः ॥ ६५ ॥ ‘अयं त एमि तन्वेति’ पूर्वा अन्या अपि स्फुटम् ॥ वायोराधिक्यमप्याहुः इन्द्रं सोमं हुताशनम् ॥ ६६ ॥ सूर्यं रुद्रमिमान् पञ्च देवानेको महात्मनः । सृजत्यत्ति महान्प्राण इति चाह तुरश्रुतिः ॥ ६७ ॥ ‘वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । न यस्येन्द्रः’ इति ह्याह विष्णोरिन्द्रस्य हीनताम् ॥ ६८ ॥ ‘वेधा अजिन्वत्’ इत्यादि वचनं विष्णुनामतः । आनन्दश्रुतिरप्यस्य जीवतामेव दर्शयेत् ॥ ६९ ॥ आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम् । ‘यः सूर्यं य उषसम्’ ‘म्रियन्ते पञ्च देवताः’ ॥ ७० ॥ ‘चक्षुषा द्यौश्चादित्यश्च’ ‘चक्षोः सूर्यो अजायत’ । ‘यमादित्यो न वेद’ इति पूर्वा श्रुतिरथापरा ॥ ७१ ॥ ‘विष्णोर्वातोऽजनिष्ट वातादिन्द्रस्ततो रविः । सोमश्चेति लयोऽप्येवं पूर्वे पूर्वे गुणाधिकाः’ ॥ ७२ ॥ ‘विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः । लयोऽप्येतादृशस्तेषां पूर्वः पूर्वो गुणाधिकः’ ॥ ७३ ॥ तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी । अतः सर्वाधिको विष्णुर्निर्णीतः श्रुतिसञ्चयात् ॥ ७४ ॥ अतो दोषवचो यत्र तद्वाक्यमवरं वदेत् । निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि ॥ ७५ ॥ ‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्’ ॥७६ ॥ इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया । निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात् ॥ ७७ ॥ तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत् । ‘गुणाः श्रुताः’ इति ह्याह गुणैकनियतिं हरौ ॥ ७८ ॥ ‘निर्दोषगुणपूर्णश्च विष्णुरेको न चापरः । अपूर्णा दोषरहिता मायैका तद्वशैव च ॥ ७९ ॥ अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे’ । इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः॥ ८० ॥ रूढिमेव समाश्रित्य विभज्यार्थान् यथाक्रमम् । विदोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत् ॥ ८१ ॥ पश्चादेव यथायोगमितरेष्वपि संनयेत् । ऋग्वेदसंहितायां च प्रभुणैवं समीरितम् ॥ ८२ ॥ पृथग्रूपाणि विष्णोस्तु देवतान्तरगाणि च । अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥ ८३ ॥ ‘नकिर्माकिः स्मसि’ इत्यादि प्रोक्ताऽधिक्यविवक्षया । ‘आधिक्येऽधिकम्’ इत्येव हरिणा सूत्रमीरितम् ॥ ८४ ॥ ‘कृत्वी हत्वी’ इति पूर्वाश्च ‘तृतीयोऽतिशये’ यतः । विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते। व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः ॥ ८५ ॥ अभेदो हरिरूपाणां गुणानां च क्रियासु च । तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः ॥ ८६ ॥ मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते । ऋग्वेदसंहितायां च प्रोक्तमेतत्समस्तशः ॥ ८७ ॥ अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः । भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि । जडानामंशतो भेदः समुदायेन चोभयम् ॥ ८८ ॥ मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः । देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः ॥ ८९॥ शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः । ’इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम् ॥ ९०॥ स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता । निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया ॥ ९१॥ सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम् । एतैर्विना न मोक्षः स्याद्भवेदेतैरपि ध्रुवम् ॥ ९२॥ ‘ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः । स्वाध्यायेनैव मोक्षः स्याद्विरक्तस्य हरिस्मृतेः’ ॥ ९३॥ ‘जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥’ ९४ ॥ ‘तस्मान्नित्यं हरिं ध्यायन्कुर्यात् स्वाध्यायमञ्जसा ।’ ‘ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते ।’ इति स्वाध्यायवचनं स्वयं भगवतोदितम् ॥ ९५ ॥ स्वाध्यायात्तु प्रवचने सहस्रगुणितं फलम् । अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके ॥ ९६ ॥ तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः । पूर्णं वेदाखिलद्रष्टुर्ब्रह्मणः फलमुच्यते ॥। ९७ ॥ स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा । साधारणो विधिस्त्वेष विशेषो यत्र यत्र च ॥ ९९ ॥ क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः । विपर्ययार्थकथने विपरीतं तथा तमः ॥ १०० ॥ यावत्प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः । तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत्समम् ॥ १०१ ॥ तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः । योग्यतातारतम्येन फलं सर्वेषु चोच्यते । इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम् ॥ १०२ ॥ यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम् । अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः । वेदा इति समासेन नियमोऽयं समीरितः ॥ १०३ ॥ ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम् । तस्माद्वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः । गुरुत्वेन क्रमादेव विशेषेणैव केशवः ॥ १०४ ॥ आरभ्य स्वगुरुं यावद्विष्णुरेवोत्तरोत्तराः । क्रमान्निष्फलताऽन्यत्र गुरुतत्त्वे समीरिता ॥ १०५ ॥ एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च । मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च । साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च ॥ १०६ ॥ इति बर्कश्रुतिश्चाह शक्रात् सप्ताक्षितिश्रुतिः । बलत्वादयनाच्चैव वायुरित्यभिधीयते । वात्यायुरिति वा ज्ञानात् वरणादाश्रयत्वतः ॥ १०७ ॥ ‘वय बन्धने’ इत्यस्मात् संसारादेर्व्ययादपि । व्येत्यस्मिन्निति वा वायुः ‘वय श्रेष्ठत्वे’ इत्यपि ॥१०८॥ मुख्यतो वासुदेवे ते गुणाः सन्त्येव सर्वशः । अनिषिद्धास्तदन्येषु यथायोग्यतया मताः ॥ १०९ ॥ दर्शतस्ततदृष्टित्वात् सर्वज्ञोऽसौ यतो विभुः । भक्त्या ह्यलङ्कृताः सोमा मनांसि अन्ये हिरण्यतः ॥ हिरण्यालङ्कृता यस्माद्धूयन्ते वायवे सुताः ॥ ११० ॥ तान् पाहि श्रुधि चाह्वानं स्वातन्त्र्ये व्यत्ययोऽप्ययम् । मनोऽपि भोग्यमीशस्य प्रीतिमात्रेण केवलम् ॥ १११ ॥ गुणाधिक्यं येन भवेद् वेदस्यार्थः स एव हि । प्रयोजकत्वान्नान्यस्य फलाभावात्तदर्थता ॥ ११२॥ उपक्रमादयो यत्र तात्पर्यार्थस्स एव हि ॥ स्तुवन्ति शस्त्रैः स्तोतारो यथावद्यज्ञवेदिनः ॥ ११३ ॥ २॥ वाक् त्वत्स्मम्पर्किणी यज्ञकृते प्रापयतीप्सितम् । सोमपायातिमहती महार्थत्वात्त्वदर्थतः ॥ ११४॥३ इन्द्रः स परमैश्वर्यादिदमुद्दिश्य च द्रुतेः । ददर्शेदं दीप्तिमत्त्वादिदं रातीति वा भवेत् ॥ ११५ ॥ सोमाभिमानिनो देवा वामिच्छन्ति हि सोमगाः ।प्रियैरुपागतं तेनोपेन्द्रः सङ्कर्षणो हरिः ॥ ११६ ॥द्विरूपत्वाद् बहुत्वं च विशेषादेव केवलम् । एकस्यैव हरेर्नात्र भेदः शङ्क्यः कथञ्चन ॥ ११७ ॥एकमेवाद्वितीयं तत् ‘नेह नानास्ति किञ्चन ।’ ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥११८ ॥‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति’॥ ११९ ॥उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि । विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ॥१२०॥४॥ विजानतः सुतानन्नपतौ सूर्ये सदा स्थितौ । द्रवद्द्रुतं सुतात्पर्यद्योतकोऽभ्यास इष्यते ॥१२१॥ यजन् सुन्वन् कृतस्यानुसारिकर्मैव निष्कृतम् । तदर्थं क्षिप्रमायातं धियेत्थम्भूतयाचलौ ॥ १२२॥ नरौ तावविनाशित्वादुपचारः क्वचिद्भवेत् । अमरत्ववद्यतो मोक्षो देवतानां सुनिश्चितः ॥ १२३॥ मित्वा त्रातीति मित्रोऽयं मितमह्ना करोति वा । मितं रातीति वा नित्यं मितं रमयतीति वा ॥ १२४ ॥ आवृणोतीति वरुणस्तमसाऽज्ञानतोऽपि वा । वरमुन्नयतीत्यस्मात् वरानन्दत्वतोऽपि वा ॥ १२५ ॥पूता दक्षा अनेनेति पूतदक्ष इतीरितः ।तमाह्वयामि सुखिनं शमदन् रमते यतः । अनूनसुखभोक्तृत्वाद् रिशादा इति कीर्तितः ॥ १२६ ॥हरिर्घृतः सुशुद्धत्वाद् घृताची च तदञ्चनात् । स्वधीतिसाधको विष्णुर्भक्तानां च यथार्थतः ॥ १२७ ॥॥ नित्यवृद्धः स भगवानृतेनानुपचारतः । ऋतस्पृक् वेदवाच्यत्वात् अन्यौ चेद्भगवान् ऋतः । ऋ गतावित्यतः सर्ववस्तुष्वनुगतत्वतः ॥ १२८ ॥ तेन वृद्धौ तत्स्पृशौ च सर्वदा मित्रवारिपौ ॥संहितायां तु दैर्ध्यादिरुक्ताधिक्ये पदेऽन्यथा ॥ १२९ ॥अनन्यार्थत्वविज्ञप्त्यै ईशाथे च महाक्रतुम् ।महत्सुखं वा तुविजौ ब्रह्मजातौ तथाविधौ । हरिस्तथैव भूतत्वात् स्थानं क्षय इहोच्यते ॥१३०॥ कर्मापसं च कर्तारं दक्षं कर्तारमेव वा । अस्मदर्थे दधाते तौ नित्यं बुद्धौ गतागतौ ॥ १३१॥ अन्नानि यज्ञयोग्यानि क्षिप्रहस्तौ शुभाधिपौ । बहुगोपौ बहुभुजौ नो योयजतमश्विनौ ॥ यज्ञे वृत्तान्स्वभागान् वा संयोजयतमाशु वै ॥१३२॥ आशुवानाद् गतेरश्वी क्षिप्रावगतितोऽथवा । अश्नुतेऽखिलमित्येवाप्यश्वजत्वात् तथाऽश्विनौ ॥ १३३ ॥ बहुकर्मकृतौ सौख्यवीर्यात्मिक्या धिया गिरः । अस्मदीयाः सम्भजतं धिष्ण्यौ सर्वाश्रयौ सदा ॥ १३४ ॥ भेदकौ सर्वशत्रूणां दस्रौ सम्बन्धिनौ हि वाम् । सुता युवाकवः सोमा यज्वनः स्तृतबर्हिषः । नासत्यौ नासिकासंस्थौ नैव चासद्गुणौ क्वचित् ॥ १३५॥ रुजां द्रावणतो रुद्रो वायुस्तदनुवर्तनात् । स्नेहतोऽनुवशत्वाद्वा तन्मार्गगतितोऽथवा । ‘कस्मिन्न्वहम्’ इति श्रुत्या वासुदेवोऽश्विनावपि ॥ १३६ ॥ रुद्रवर्तनिशब्दोक्ताः चित्रं भद्रं रतं चितौ ॥ चिद्रतेश्चायनीयत्वाद् अदनाद्वा चितोऽभिदा । तादृशा रश्मयो ज्ञानमस्येति भगवान् परः ॥ १३७ ॥ चित्रभानुरिति प्रोक्तस्तेजो वा तादृशं प्रभोः । त्वदिच्छव इमे सोमाः पटीभिस्सूक्ष्मतन्तुभिः ॥ विस्तृत्यशोधिताः सूक्ष्मप्रमाभिर्वा मनांसि च ॥१३८॥ सोमानां मनसां चैव देवताः सोमरश्मिगाः । सोमभृत्याः समस्तस्य सोम एवाधिपो हरिः ॥ १३९ ॥ अस्मद्बुद्ध्या प्रार्थितो वा स्वबुद्ध्या प्रेरितोऽपि वा । ब्राह्मणैः प्रेरितो भक्त्या वदतो होतुरञ्जसा ॥ १४० ॥ ब्रह्माणि सोमयुक्तानि यजमानस्य वेच्छतः । उपायाह्यपि यः कोऽपि साधको यज्ञकृन्मतः । मानसो वाचिको वा स्याद्यज्ञो होता ह्वयन् स च ॥ १४१॥ वेगवांस्तूतुजानः स्यात् संसारमुपसंहरन् । वर्तते येन हरिवा हरिभिर्वर्ततेऽथ वा ॥ १४२ ॥ हरणाद्विषयाणां च प्राणा हरय ईरिताः । तेषु वर्तत इत्यस्मात्तान् वाऽथ गमयेदसौ ॥१४३ ॥ हरिवा हरिवान् वाऽपि विष्णुना वर्ततेऽथवा । चनो मन इह प्रोक्तं सुखं च क्वचिदीर्यते ॥१४४॥ आ समन्तात् स्वीकृता मा ओमा इति च शब्दिताः । ओनामा भगवान् विष्णुस्तेन वा निर्मिताः सुराः ॥ ओता मानेषु मावैषु प्रोता ओमा इतीरिताः ॥१४५॥ प्रजाश्चर्षणयः प्रोक्ता विश्वे ते च प्रवेशनात् । सर्वे वाऽथ विशां वानाच्छब्दः कस्मै यथा भवेत् ॥१४६॥ दातारो यजमाना वा अप्तुरः कर्मवेगिनः । उस्रास्तु रश्मयश्चैव स्वसराणि दिनानि च ॥ १४७ ॥ असंसारादस्रिधस्ते देवाश्चेन्मोक्षनिश्चयात् । यथेष्टनिश्चितज्ञाना एहिमायाः समन्ततः ॥१४८ ॥ अदुःखत्वादद्रुहस्ते मेधं यज्ञं जुषन्तु नः । वह्नयो वहनादस्य शोधकत्वात्तु पावका ॥ १४९ ॥ सरणात् सर्वगत्वेन सर्वज्ञो वा सरो हरिः । सरसः सरतित्वाद्वा तद्वत्येव सरस्वती । हरौ गुणाः सरश्शब्दा देवी तु हरिवाचिनी ॥ १५०॥ हरिप्रियत्वतो वायुः सरस्वांस्तत्प्रियाऽथवा । गुणस्त्वेन ततत्वाद्वा भगवांस्तु सरस्वती ॥ १५१॥ स्त्रीरूपश्चैव पुंरूपो भगवान्न नपुंसकः । स्त्रीपुन्दोषविहीनत्वादपि तच्छब्दगोचरः ॥ १५२ ॥ अन्नेनो वाजिनामीशो वाजिनी सूर्य उच्यते । वाजीनच्छन्दसां वाऽपि स्वामी प्रोक्तः स वाजिनी ॥ १५३॥ छन्दांस्यश्वा यतस्तस्य ते चेना अन्यवाजिना । अन्नवत्त्वाद्वाजिनी वाग् ज्ञानयुद्धत्वतोऽपि वा ॥१५४॥ स पुत्रो वागुमा तस्याः पुत्री तद्वाजिनीवती ॥ सरस्वती हरिर्वाऽपि यज्ञं वहतु नोऽशनैः ॥ १५५ ॥ अन्नदा हि सदा देवी धिया सह वसेद्यतः । धियावसुर्नित्यबोधा सुवाचां प्रेरका सदा ॥ १५६ ॥ सुबुद्धिज्ञापिका सैव स्वातन्त्र्याल्लुप्तयो भवेत् । अनेनैव प्रकारेण सैव यज्ञादिधारिणी ॥ १५७ ॥ महो अर्णः परं ब्रह्म तेजस्त्वाच्च महत्त्वतः । अरमानन्दरूपत्वात् णो हि निर्वृतिवाचकः ॥ १५८ ॥ तज्ज्ञापयति सा देवी ज्ञानं दत्वा महत्तरम् । महो अर्णः स्वयं देवः स्वमात्मानं प्रकाशयेत् । विराजयति विश्वाश्च धियः सुज्ञानदानतः ॥ १५९ ॥ सूक्तं त्वनारतं प्रोक्तम् अनुवागेककालिका ॥ (वेदेषु आवापोद्वापे हेतुनिरूपणम्) अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचाम् ॥ १६०॥ वेदानन्तत्वविज्ञप्त्यै तौ चक्रे बादरायणः । ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि निगदाच्चैव तथा सामानि सामतः ॥१६१॥ एवं पुराणवचनादुद्धृता हि ततस्ततः । ऋचः शाखात्वमापन्नाः शिष्यतच्छिष्यकैरिमाः ॥१६२॥ मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थतः । शुनःशेपोदिताभ्यश्च पठ्यन्तेऽन्यत्र काश्चन ॥ १६३॥ अत्राप्यक्रमतो दृष्टिरिति नैकक्रमो भवेत् । अनन्तत्वात्तु वेदानां प्रायः कर्मानुसारतः । सङ्क्षेेपं कृतवान् देवः शिष्याश्च तदनुज्ञया ॥ १६४ ॥ अष्टकाध्यायवर्गादि भेदं च कृतवान् प्रभुः । स्वाध्यायविश्रमार्थाय तस्मात् क्रमविपर्ययः ॥ १६५ ॥ तत्र तत्रैवान्तरिता दृश्यन्ते च खिला अपि । यत्रार्थे न विशेषोऽस्ति पदान्तरितताऽत्र च । यत्राल्पोऽपि विशेषोऽस्ति पदं नान्तरितं भवेत् ॥ १६६ ॥ ॥ इति तृतीयं सूक्तम् ॥ विष्णुंसुरूपकर्तारमभिप्रेतार्थसिद्धये । त्राणाय वा कामधेनुमिव दोहाय तत्स्थितेः ॥१६७॥ दिने दिने स्वाह्वयामः ज्ञानदोऽस्यैव चाधिकम् । ज्ञानाख्यरयियुक्तस्य हिरण्यादिमतोऽपि वा ॥ १६८॥ सुखकारी भवान् तस्माल्लभेम सुमतीस्तव । अन्ते मितास्त्वद्विषया मतयो ह्युत्तमोत्तमाः ॥ अस्मानतीत्य मा पश्य करुणार्द्रदृशा सदा ॥१६९॥ मन्मनो वाऽथ शक्रो वा दूरेऽपि परमेश्वरम् । गच्छाग्राह्यमनष्टं च व्याप्तचित्तं य एव च ॥ सखिभ्य उत्तमो नित्यम् निदस्तस्य समीपगाः ॥ १७०॥ तेऽपि ब्रुवन्तु नो देवं प्रापुर्ये चान्यतोऽपि तम् । निर्गत्याज्ञानतस्त्वस्माद् दधाना ईश एव च । दुवः प्राणान् ब्रुवं त्वेव तेऽपि नः परमेश्वरम् ॥१७१॥ अरयोऽपि प्रजा अस्मान् वोचेयुः सुभगान् सदा । शत्रुभेदिंस्तवेन्द्रस्य स्यामैवानुग्रहे सुखे ॥१७२॥ आशुवीर्य तवैवाशुं सोमं क्षिप्रं मनोऽपि वा । आभरस्वोदरे तुष्ट्या हृदि वा यज्ञभूषणम् ॥ १७३॥ ईमेव पुंमदकरं मदादुत्पतनादिके । हेतुं मन्दत्वहेतुं च तत्सखीनां पुरोगतेः ॥१७४॥ एनं पीत्वा बहुज्ञानाभूस्तमोभिरनावृतः । प्रसादादेव मुक्तेषु तमो सह्यतया घनः ॥ १७५॥ आवृतेरेव वृत्राणि ह्यज्ञानान्यन्नदं नरम् । प्रावो युद्धेषु योद्धारं भक्तं ज्ञानिनमेव च ॥ १७६॥ योधयामो वयं तं त्वां ज्ञानादिधनलब्धये । अज्ञानाद्यस्मदरिभिः योऽशेषद्रविणावनिः । सुखदः संसृतेः पारस्तस्मा इन्द्राय गायत ॥ १७७ ॥ कम्पोऽशेषग्रहे क्वापि लज्जायां वा पुरातने । पृथक्त्वे धृष्यतायां वा हरिणर्क्संहितोदितः ॥१७८ ॥ इति चतुर्थं सूक्तम् ॥ सुपूर्णानां पूर्णतमं वरेण्यानामधीश्वरम् । सुते सोमे सुखेनैव स चागायत तं प्रभुम् ॥१७१॥ मुक्तौ योगायाऽसमन्ताद् भवेन्नो घोऽवधारणे । स एव भगवान् ज्ञानवित्ताय स च बुद्धिगः ॥ १८०॥ बुद्धिः पुराश्रयत्वेन पुरन्धिः पत्न््नयथापि वा । पत्न््नयर्थत्वे तु तादर्थ्यं सोऽन्नैः सह न आव्रजेत् ॥१८१ यस्य स्थितौ न वृणुते हर्यग्रमपि शत्रवः । मनः पुरो वा विषयहरणान्मन एव च । बुद्धिश्च हरिशब्दोक्ते तमआदीनि शत्रवः ॥१८२।। सोमपे शुचयः सोमाः प्राप्त्यै दधिविमिश्रिताः । मनांसि ध्यानयुक्तानि वायान्ति हरये सदा ॥ १८३ ॥ सदा पूर्णः शुभज्ञानज्यैष्ठ्यव्यक्त्यै सुताप्तये । न क्षुदादेरभिव्यक्तोऽभवः गीर्भिर्वृतप्रभो । प्रकृष्टचेतास्त्वद्भृत्यो योऽस्मै स्युः शङ्कराः सुताः ॥ १८४॥ व्यञ्जयन्त्यधिकं स्तोमाः साम््नयुक्थान्यृक्षु चैव हि । महागुणैः व्यञ्जयन्तु गिरोऽस्माकमपि प्रभो ॥ १८५ ॥ आकाशवृद्धिवद् वृद्धिर्विष्णोः स्यान्नैव चान्यथा । ‘न वर्धते नोकनीयान्’ इति ह्येनं श्रुतिर्जगौ ॥ १८६॥ महातात्पर्यरोधाच्च श्रुत्यर्थो नापरो भवेत् । यद्यन्यापेक्षया वृद्धिरीशत्वं स्यात् कुतोऽस्य च ॥ अक्षितोतिरिति ह्यस्मात्पूर्णाभिप्रायतोदिता ॥ १८७॥ अनन्तफलदं वाजमस्मत्तो लभतां स च । ददातु वा पौरुषाणि शक्तयो यत्र चाखिलाः ॥ १८८ ॥ अतश्चानन्तशक्तित्वान्न वृद्ध्याद्याः कथञ्चन । सर्वोपेतेत्येतमर्थमभिप्रेत्याह वेदरा ॥ १८९॥ मा मर्तानस्तनूनां तु द्रोग्धारः स्युः कथञ्चन । ईशोऽस्यपाकुरु वधं तेन नो मुक्तिदानतः ॥ १९०॥ मानुषेभ्यस्तनूनां च नैव नः स्युर्विपत्तयः । कालेन दैवतः प्राप्तः स्याददेहत्वतो वधः ॥ १९१ ॥ ॥ इति पञ्चमं सूक्तम् ॥ पौंस्यानि वासुदेवस्य ब्रध्नं वृद्धं दिवाकरम् । अरुणं चरन्तं परितो गिरीन्युञ्जन्ति सर्वदा ॥ १९२ ॥ तैरेवान्यानि चन्द्रादि रोचनानि त्रिविष्टपे । रोचयन्ति .हरी चास्य मनोबुद्धी स्वशक्तयः । युञ्जन्त्यधिगुणत्वेन काम्यावश्वावथापि वा ॥ १९३ ॥ विशिष्टपक्षसंयुक्ताविव क्षिप्रतरौ सदा । रथे देहेऽपि वा देवाः स्वमनो बुद्धिमेव च ॥ १९४ ॥ अस्य देहे प्रयुञ्जन्ति सूर्यादीन् स्थापयन्ति च । सूर्यादिस्थापकत्वं च ब्रह्मादीनां भवेत् सदा ॥ १९५॥ शोणौ च शमणौ प्रोक्तौ सुखप्राप्तौ यतस्सदा । श्यामौ मूर्धनि शोणौ च शक्राश्वावग्रगौ स्मृतौ ॥ धृष्टौ नॄन् प्रति तं वेशं वहन्तौ तावुभावपि ॥ १९६ ।। अज्ञाय कुर्वन् सज्ज्ञानं हेमाहेमाय चेश्वरः । उषद्भिः सम्प्रकाशद्भिः शक्तिभिर्व्यक्ततामगाः ॥ १९७ ॥ मर्या मरणवन्तोऽपि देवा एवम् हरेर्वशात्॥ तदैव सुखमन्वेव पुनर्गूढत्वमापिरे ॥ १९८॥ स्वेच्छयैव परेशस्य शक्तयो देवता अपि । यज्ञे वाच्यं दधानाश्च नाम वीु दृढं ह्यपि ॥ १९९ ॥ आरुजद्भिः स्वसामर्थ्यैर्गुहायां संस्थितोऽपि सन् । वहद्भिरखिलं लोकं प्रकाशत्वानि लब्धवान् । देवैर्वैतादृशैः साकमानुकूल्येन लब्धवान् ॥ २००॥ सम्यक्प्रद्योतयन्तोऽमुं मतिरूपं यथास्थितम् । विदद्वित्तं महान्तं च विश्रुतं सुगिरोऽस्तुवन् ॥ २०१ ॥ तस्य सन्दर्शनायैव सङ्गतस्तेन शङ्करः । मखात्मा पुरुहूतो वा श्रीभूमी च सुखात्मिके ॥ २०२ ॥ अनवद्यैर्महाज्ञानैः प्रियैर्देवगणैः सह । वायुना च सहार्चन्ति सुधीत्वात् परमेश्वरम् ॥२०३ ॥ अतो हेतोरिहायाहि दिवो वा सूर्यमण्डलात् । परिज्मन् सर्वगास्माकमधिकृत्य समर्हणम् ॥ अस्मिन् गिरः प्राप्नुवन्ति सम्यक्परममुख्यतः ॥ २०४ ॥ युञ्जन्तीत्यत्र बाहुल्यात् देवयन्तोत इत्यपि । बाहुल्यादृ(ल्यात् दृष्टि)ष्टितो गीर्भिर्विनाऽर्थो नान्य इष्यते ॥ २०५॥ इतो दिवो वा पातालात् सातिं लाभस्वरूपिणम् । महतो रञ्जकात् विष्णोर्लोकाद्वा तमधीमहे ॥ २०६ ॥ ॥ इति षष्टं सूक्तम् ॥ तमेव गाथिनः साम्ना स्तुवन्त्यृग्भिश्च बह्वृचाः । बृहन्तमन्यवाणीभिरपि हर्यो विमिश्रितः ॥ २०७ ॥ रथेऽथवा मनोबुद्ध्योर्वाङ्मात्रेणैव योगिनोः ॥ सचा सुखेन वज्री च ज्ञानानन्दो हि धातुतः । हितश्च रमणीयश्च हिरण्यय इतीरितः ॥ २०८ ॥ दीर्घकालं दर्शनाय सूर्यमारोहयद्दिवि । ज्ञानैरादरयोग्यं च प्राणात्मानं समैरयत् ॥ २०९॥ बहुभिर्युध्यमानेषु युद्धेष्वपि सदाऽव नः । दुष्टोग्रैः सदभिप्रायैः .महदल्पधनार्थिनः । हवामहेऽरिवर्ज्यं तं तमसां प्रतियोगिनम् ॥ २१० ॥ अस्मदीयं चरुं भोज्यमानन्दं त(त्व)मपावृणु । मोक्षगं सर्वदातस्त्वमप्रतिद्वन्द्व नो वृषन् ॥२११॥ त्वयैव प्रेरणे जाते तत्र तत्र य उत्तराः । तेऽपि स्तोमाः सुष्टुतित्वमस्यानन्त्यान्न चाप्नुयुः ॥ २१२॥ प्रतिवीरो वृषा वंसस्तद्गन्ता वंसगो विभीः । यूथान्याकर्षति यथा प्रजाः प्रेरयति प्रभुः । अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं तु युज्यते ॥२१३॥ राजा भवति वित्तानां प्रजानां चैक एव यः । देवगन्धर्वदैतेयपितृमानुषभेदतः । प्रजानामपि पञ्चानां सामान्याच्च विशेषतः ॥२१४॥ सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः ॥ २१५ ॥ सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः ॥ २१५ ॥ सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः ॥ २१५ ॥ सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः ॥ २१५ ॥ त्वत्प्रेरिता ज्ञानरतिं दृढत्वेनाऽददीमहि त्वया पृतन्यतः शत्रूनभिष्याम सुयोद्धृभिः ॥२१८॥ यस्मान्महाननादिश्च विष्णुर्जीवोऽवरस्तथा । तस्यैवास्तु महत्त्वं तन्न जीवब्रह्मतां स्मरेत् । आकाशवत् प्रथिम्नाऽसौ शवः सुखबले तथा ॥ २१९॥ अन्यसंवहनेनापि ये तं प्राप्ता जनार्दनम् । ज्ञानलाभेन तु नरस्त एव पशवो परे । विप्राश्चैव धिया युक्ता मूर्खाः शूद्रसमा मताः॥२२०॥ यः कुक्षिस्तस्य देवस्य समुद्र इव सोऽखिलान् । कामान् क्षरति भक्ताय महाप इव तर्पकाः ॥ काकुदस्तस्य जिह्वास्तु बह्व्यो बहुमुखेषु याः ॥२२१॥ एवमेवास्य वाणी च वेदेता महती तथा । पक्वा शाखेव यजते वरदात्री विरप्शिनः ॥ २२२॥ बलिष्ठस्य हि ते सन्ति सद्योऽपि यजते हि ते । मावते ज्ञानिने नित्यमूतयश्च विभूतयः ॥ २२३॥ स्तोमा उक्थानि चैवास्य तस्मै काम्यानि सर्वदा । गेयाः शंस्यानि सोमस्य पीतये नान्यथा पिबेत् ॥ २२४ ॥ ॥ इति अष्टमं सूक्तम् ॥ सोमपाः सोमपर्वाणः सर्वं यस्मात्तदिच्छया । अभिष्टिरोजसा नित्यं मदं सुखमवाप्स्यसि ॥२२५ ॥ एनमासृजतेन्दौ च विष्णुं तं मदकारिणम् । मन्दिने विष्णवे सम्यक्कर्मिणं सर्वकर्मिणे ॥ २२६॥ स्वानन्द विश्वजीवेश मत्स्वास्मद्रक्षया सहत्वन्निस्सृता वेदवाचस्त्वां प्रत्येवाप्यनारतम् ॥ २२७ ॥ उच्चैर्मुख्यतया सम्यग्विसृष्टाः स्वपतिं प्रति । अजोषाः स्तुत्यरूपेण त्वत्सेव्यास्त्वदृते क्वचित् ॥ २२८॥ अर्वाङ् नीचान् प्रति त्वस्मान् भद्रं राधः प्रचोदय । अस्त्येव ते विशेषेण प्रकृष्टं शुभमच्युतम् ॥ २२९॥ रभस्वतः शब्दवतः स्तोतॄनस्मान् यशस्वतः । तत्र त्वयि महाराये महाकीर्ते सुचोदय ॥ २३०॥ अस्मास्वतिबृहज्ज्ञानं नित्यं सन्धेहि चाक्षयम्विद्यां कीर्तिं सदेहान्नं बहुलाभयुतं बृहत् । प्रार्थने पौनरुक्त्यं न चोदयेति ततः पुनः ॥२३१॥ वसोर्वसूनां च पतिं देवदेवेश्वरं प्रभुम् । ऋङ्मेयमाह्वयामोऽत्र गृणन्तोऽभीष्टसिद्धये ॥२३२॥अविनाश्यरिरुद्दिष्टो बृहच्छूषं सुखं प्रति । सुते सुते सद्गृहाय देवाय बृहतेऽर्चति ॥ २३३ ॥॥ इति नवमं सूक्तम् ॥ गायन्ति सामगास्त्वृग्भिः शंसन्त्यृग्वेदिनोऽन्तिकम् । विरिञ्चास्त्वां बहुज्ञान शक्रकेतुमिवोच्छ्रितम् ॥ २३४ ॥ व्यजानन् उच्चतोऽप्युच्चं सामर्थ्यं करणे तव । ततोऽपि भूरि यत्तेन चेतत्यर्थमतो भवान् ॥ मुक्तामुक्तसमूहेन शोभते गूढशक्तिमान् ॥ २३५ ॥ उच्चादुच्चं विरिञ्चादिगतं कर्तृत्वमेव यत् । भूरि स्पष्टमभूत्तेन परेशस्य ततश्च सः । चेतत्यर्थानशेषांश्च महायूथेन चेष्टते ॥२३६॥ कक्ष्याभिः पूरकौ पुष्ट्या युङ्क्ष्व त्वं केशिनौ हरी । अथोपगम्य शृणु नो गिरःअभिस्वर च स्तुतिम् ॥ २३७ ॥ प्रशंसां कुरु शब्दं च पुनर्हर्षान्महत्तरम् । ब्रह्म यज्ञं च नोऽन्तस्थो बहिष्ठश्चैव वर्धय ॥ २३८॥नित्यवृद्धत्वतो विष्णोर्वर्धनं तु प्रकाशनम् । बहुशत्रून्निष्षिदसौ हरिर्दनुजघातकः ॥ २३९ ॥ अस्मत्सख्याय शब्दं च चकारास्मासु संस्थितः । यथा सुतेषु सोमेषु करोत्यृत्विक्षु च स्थितः ॥ २४०॥ तमेव शरणं नित्यं सखित्वाद्यर्थमीमहे । शक्त्यानन्दस्वरूपत्वाच्छक्रः सर्वत्र चाशकत् । अस्माकं च सदा वित्तं दददेव प्रवर्तते ॥ २४१॥ विस्पष्टं सुष्ट्वकाल्यं यशस्त्वद्दत्तमेव हि । गूढं ज्ञानसमूहं त्वं विवृण्वृद्धिं च नः कुरु ॥२४२॥ अद्रिरादरणीयत्वात् प्राणस्तद्वर्तकोऽद्रिवाः । हरिः शक्रस्तथाऽद्रीणां छेदनाद्वारणादपि ॥ २४३॥ न त्वामृघायमाणं हि वर्धमानं तु रोदसी । सम्प्राप्नुतः श्रीभूमी च सहिते वाऽप्रसादतः ॥ २४४॥ अपः प्रजाः सुखवतीरजयस्त्वद्वशत्वतः । ज्ञानानि सन्धूनुहि च प्रापयोच्चा अपि स्वयम् ॥ २४५॥ बहुश्रवणकर्णास्मदाह्वानं शृृणु चादरात् । औव च गिरो धेहि मयि स्तोमं च मत्कृतम् ॥ २४६॥ प्रियं योगादपि कुरु विद्म त्वां शक्तिमत्तमम् । श्रोतारं युत्सु चाह्वानमाह्वयामस्तवावनम् ॥ २४७॥ बहुलाभोत्तममिति स्थानान्तरगते ऋचौ । दृष्ट्वेन्द्रं यज्ञगं याभ्यां मधुच्छन्दाः समस्तुवत् । आतून इति तेनैव न विरुद्धा शतर्चिता ॥ २४८॥ मात्रा कुशैर्गृहीतत्वाज्जन्मन्यासीत् स कौशिकः । गाधित्वाद्वा हिरण्याण्डकोशस्थत्वात् हरिस्तथा ॥ २४९॥ मन्दसानो नित्यसुखी स्तुत्यमायुश्च नस्तिर । ऋषिं सहस्रलाभं मां कुरु च त्वा इमा गिरः ॥ २५०॥ सर्वदा परितः सन्तु मदीयाः सर्वलाभिनम् । वृद्धिरूपा गिरो जुष्टाः सेवारूपाश्च सन्तु नः ॥ २५१॥ अष्टावृचः पुनस्तेन दृष्टा अन्यत्र गास्तपः । कुर्वता ॥ इति दशमं सूक्तम् ॥ सम्यगुद्रिक्तगुणव्यक्तिस्तथाऽभिधः ॥ १५२ ॥ प्रथमानि महत्त्वेन ते दानान्यवनानि च । न भिद्यन्ते न नश्यन्ति गोमदन्नं यशस्तथा ॥ २५३ ॥ यदि मंहते ददातीशःवलस्तिर्यग्गतिर्धियः । वाचामन्यार्थबुद्धेस्तु बिलं मूलं तमो हि यत् । तदपावृतवांस्त्वं च प्रदर्श्य विनिवार्य च ॥ २५४ ॥ त्वां हि देवा भयापेताः प्रेर्यमाणास्त्वयैव च । छाद्यमानं गिरा दैत्यैररक्षन्निव सद्गिरा ॥ २५५॥ इन्द्रस्य गोसवार्थे च समुत्सृष्टा जगत्यपि । चर्तुं गावो हृता दैत्यैः सरमारक्षिताः पुरा । तस्याः स्वसृत्वमुक्त्वैव तयोच्छिष्टं च गोपयः ॥ २५६॥ तदर्थं पणयो नाम ते दैत्या बलपूर्वकाः । इन्द्रेण निहताः पश्चाज्ज्ञात्वा च सरमाकृतम् ॥ २५७॥ ताडयित्वा पदा वक्त्रात् सृते पयसि तां भयात् । शरणागतां प्रेषयित्वा दूत्येन पणिनां पुनः ॥ २५८॥ भित्वा गिरिव्रजं तं च गावो यत्र प्रतिष्ठिताः । निःसारिताः पुनस्ताश्च गोसवेनेष्टमेव च ॥ तदा देवा भीत्यैव परितो जुगुपुः पतिम् ॥ २५९॥ तव दानैरहं सिन्धुं नदीं प्रत्यागमं पुनः । त्वामावदन् स्तुतिपदैर्यज्ञदीक्षार्थमुद्यतः ॥ २६०॥ उपातिष्ठन्त कर्तारो विदुस्त्वां यो गिरोदितशक्तिभिः शक्तिमन्तं त्वं शोषकं वृत्रमातिरः ॥ २६१॥ तमो वा त्वां विदुर्मेधारतास्तेषां श्रवांसि च । विद्या उच्चैस्तरां देहि यस्तुवन्ति त्वां सहौजसा ॥ २६२ ॥ ऋक्संहितायाः स्वाध्यायात् प्रबन्धाद्व्यासनिर्मितात् । ब्राह्मणेभ्यस्तथा मानात् प्रोक्ताः स्युर्मुनयोऽत्र ये ॥ २६३॥ श्रुत्यभावादलिङ्गाच्च मुनिर्नान्यः प्रतीयते । श्रुतिलिङ्गान्यता यावत्तावत्पूर्वा प्रमा भवेत् ॥ २६४ ॥ शतर्ग्भिरुत्तराभिस्तु वह्निनामानमच्युतम् । अस्तौन्मेधातिथिस्ताभ्य उत्तरा अपि तद्-दृशः ॥ २६५॥ अन्यत्रगास्तपस्यन् स ता ददर्श कदाचन । कालस्थानान्तरत्वं चेत्सङ्ख्यातोऽभ्यधिकं भवेत् ॥ २६६॥ अन्यस्थानगता अन्यदृष्टा अप्यत्रगा यदि । सङ्ख्यान्तर्भावमेष्यन्ति ता इतोपगता यतः ॥ २६७॥ ॥ इति एकादशं सूक्तम् ॥ यज्ञभागार्थमत्रस्थो देवैः सम्प्रेषितो यतः ।दूतोऽग्निर्वासुदेवश्च तत्तत्प्रार्थितकृद्यतः । विश्ववेदाः स सर्वज्ञो यज्ञज्ञो यज्ञसुक्रतुः ॥ २६८ ॥ अग्निनामा जामदग्न्यो भगवान् सम्प्रकीर्तितः । तस्य रूपबहुत्वेन वीप्सा चैवोपपद्यते । हवीमभिर्ऋगाह्वानैराह्वयन्त प्रजापतिम् ॥ २६९॥ जज्ञानो व्यज्यमानस्तु वृक्तं प्रस्तुतमुच्यते । यजमानो वृक्तबर्हिः बोधयेशेच्छतः सुरान् ॥ २७०॥ देवैः सहोपविशसियस्य ते सुघृतं हविः । रिषतो नाशकान् रक्षो जनान् प्रति दहैव च ॥ २७१॥यस्याऽस्ये हूयते सोऽग्निः परेशेन समिध्यते । अथवाऽऽहवनीयोऽग्निर्मथितेन समिध्यते ॥ २७२॥ सत्यधर्मा सद्गुणभृद् दुःखघ्नोऽमीवचातनः । चातनं कालनं वा स्यात्देववीतिस्तु तद्गतिः ॥ २७३॥ आवासयति यस्त्वां च तं त्वं मृय सर्वदा त्वत्पूजाविषये देवानावहेन्द्रियमानिनः ॥ २७४ ॥गायत्रेण स्तूयमानो दृश्यमानेन नो रयिम् । पुत्रयुक्तामिषं चैव वीर्ययुक्तामथावह ॥२७५ ॥ ज्वलता तेजसा विश्वदेवाह्वानैर्वृणु स्तुतिम् ॥ ॥ इति द्वादशं सूक्तम् ॥अस्मद्धविष्मते देवानाहूय यज चादरात् ॥२७६ ॥ तनूभ्यो वाक् ततो देवो व्यक्तस्तेन तनूनपात् नरैः स्तुत्यो नराशंसो वह्नेरन्याऽथवा तनूः ॥२७७॥ मनूनां च हितत्वेन मनुर्हित इतीरितःआनुषक् सर्वतो देवस्थानं बर्हिः स्तृणीत च ॥२७८॥ शुद्धस्य विष्णोर्यत् स्थानं घृतपृष्ठं हि तन्मनः । यत्र स्याद् दर्शनं विष्णोर्नित्यामरणधर्मिणः ॥ २७९॥ऋतरूपेण हरिणा समृद्धाया ऋतावृधः । द्वारो देव्यः श्रियो दास्यः श्रयन्तामिह नो मखे ॥ २८०॥ मानसे बाह्ययज्ञे वा ह्यसङ्गत्वादसश्चतः । अद्याहनि तथा नूनमद्यैव यजनार्थतः ॥ २८१॥ द्वारभूतः स भगवानपि साक्षान्मुमुक्षतः । स्त्रीरूपश्च सःनक्ता स्यान्नाक्तो यस्मात् स सर्वतः । उषाः प्रकाशरूपत्वात् सुभद्रे ते उपह्वये ॥ २८२ ॥ अस्मिन् बर्हिषि संस्थित्यैहोतारौ देवगावपि । मथ्यमानोऽपरश्चैव वह्नी तद्गोऽथ वा हरिः ॥ २८३॥ आत्माऽन्तरात्मरूपेण द्विरूपो वा व्यवस्थितः । देवेषु यजतां यज्ञमस्मदीयमिमं सदा ॥ २८४॥ईेड्यत्वाद्धरिः श्रीर्वा भूरूपा सैव चापरा । मही तु भारती नाम वायव्या ब्रह्मणोऽपरा । तद्गतस्तादृशै रूपैः पृथक्स्थो वा हरिस्तथा ॥२८५ ॥त्वष्टा तेजस्त्वतो विष्णुर्बलत्वाद्वा समीरितः । विश्वरूपकरत्वाच्च विश्वरूपोऽथ पूर्तितः ॥ २८६ ॥वननीयपतित्वेन वनस्पतिरितीरितः । ज्ञानं तु चेतनम्वननीयपतित्वेन वनस्पतिरितीरितः । ज्ञानं तु चेतनम् स्वाहा स्वभागगतिमान् स्मृतः ॥ २८७ ॥ अव्ययत्वाद् अमोषश्च ॥ इति त्रयोदशं सूक्तम् ।। कामदोहा दुवः स्मृताःबृहन्पतिर्बृहत्या वा वाच एव बृहस्पतिः ॥२८८॥ मित्रेति मित्रावरुणौ पूषा नाम स पोषणात् । पूर्णत्वाद्वा भगः प्रोक्तः पूर्णैश्वर्यादिकत्वतः ॥ २८९ ॥आदिस्थत्वात् स आदित्य आददानः प्रयाति वा । बहुरूपत्वतश्चैव मानोक्तत्वात्तु मारुतः ॥ २९० ॥मत्सरा मदकारित्वात्ताच्छील्यादुत्तरं पदम् । द्रप्सास्ते द्रवणाच्चैव चमसस्थाश्चमूषदः । शिरश्च चमसं प्रोक्तमिष्टदानात् तथेन्दवः ॥ २९१॥अवस्युर्यजमानः स्यादवनार्थप्रवृत्तितः । आत्मस्थं वा बहुवचो बहवो मुनयोऽत्र वा ॥२९२॥ उत्तराणां वचस्त्वेन स्वयं वदति चेश्वरः । अरङ्कृतोऽतिकर्तारस्त्वलङ्कर्तार एव वा ॥ २९३॥स्निग्धपृष्ठाः समारूढा हरिणा वा विदोषिणा । मनोमात्रेण योज्याश्च त्वां देवांश्च वहन्ति ये ॥ २९४॥ तैर्देवान् यजतः स्तोतॄन् ज्ञातेन ब्रह्मणैधितान् । पत्नीभिर्योजया गन्तुं सह मध्वश्च पाययते षष्ठ्यतोऽनुदात्तः स्यादुदात्तो बहुवाचकः । आवृत्तस्तु भवेदर्थस्ते पिबन्तु वषकृतौ ॥ २९६॥ सूर्यस्य रोचनात् स्वर्गादावक्षत्यग्निरिन्दुपान् । उषःप्रकाशनाद् ब्रह्म तद्विदस्त उषर्बुधःदेवास्ते विष्णुधामत्वान्मित्रधामान ईरिताः ॥ २९७ ॥अग्निवाहा अश्वतर्यो दूर्वापद्माग्निसप्रभाः । लोहिताः क्वचिदश्वाश्च रोहिन्मृग्योऽपि कुत्रचित् ॥ २९८॥ इति चतुर्दशं सूक्तम् ॥ ऋतुर्मार्गस्तु नेतृत्वान्नेष्टाऽग्निर्हरिरेव वा । ईष्टे न कश्चिदस्येति ग्ना नद्यश्च समीरिताः ॥ गतिशीलत्वतो ग्नास्ता ज्ञातृनेतृत्वतो हरिः ॥२९९॥ गमनान्नयनाद्वा ग्ना ऋतुपात्रमृतुस्तथा । सोमास्तदोकसः प्रोक्ता ऋतुपात्रस्थिता यतः ॥३००॥ पत्नीनेतृत्वतो नेष्टा नेष्टर्त्विक् सम्प्रकीर्तितः । ज्ञापयन्ति स्वलिङ्गानीत्यृतवः ष प्रकीर्तिताः ॥३०१॥ पावनाच्चैव पोतारो मरुतः पोतृदेवताः । अग्निस्तु देवतानेष्ठुस्त्वष्टेन्द्रो विष्णुरेव वा ॥ ३०२॥ वेद्युत्तरासदश्चैव प्राग्वंशो योनयः स्मृताः । भूष भूषय नो यज्ञम् ब्राह्मणाच्छंसिपात्रतः । पिबेन्द्र नो राधसोऽर्थे त्वामनु त्वृतुदेवताः ॥३०३॥ स्तृतं छिन्नमिति प्रोक्तम् अस्तभ्यं दुर्दभं स्मृतम् । दक्षाख्यं यजमानं चापीशाथे यज्ञमेव च । सोमं पीत्वर्तुपात्रेण सहवा तेन चर्तुना ॥होता च होतृकाश्चैव द्रविणोदा द्रवीणसः । अग्निश्चैवाग्नयस्तेषां देवता विष्णुमीते ॥३०५॥ पातुमिच्छति सोमं स सोमास्तस्मै प्रतिष्ठिताः । ऋतुपात्रैर्देवताभिः सहैवैनमभीप्सत ॥३०६॥ चतुर्थवारमपि यत्त्वां यजामो ददिर्भवदीद्यग्नी इति दीप्ताग्नी सन्त्योऽग्निः सन्ततत्वतः ॥३०७॥ विष्णुर्वर्त्वधिपो विष्णुः केशवादिस्वरूपतः । ‘ग्रहान् सोमस्य मिमते’ इति तस्यैव कथ्यते ॥ गार्हपत्येन पात्रेण यजमानस्तुदेवयन् ॥ ३०८॥ देवान्पातीति इति पञ्चदशं सूक्तम् सुष्ठूरीकुर्वति विषयान् यतः । चक्षूंषीन्द्रस्य हरयस्तेनोक्ताः सूरचक्षसः ॥ ३०९ ॥भक्तिस्नुतानि धानानि बुद्धेर्धाना इति ह्यपिप्रातः’ इत्यादिवाक्येन सवनत्रयमीरितम् । समाप्तत्वात् सोमपीतिस्तृतीयं सवनं स्मृतम् ॥३१०॥ सदा विष्णुविवक्षायां यजमानबलं सहः । तदिष्टस्यैव दानाय तद्गुणव्यक्तिरेव वा ॥ ३११॥ ‘पूर्णमदः पूर्णमिदम्पूर्णात् पूर्णमुदच्यते’ । ‘हेयोपादेयरहितगुणपूर्णो हरिः सदा । अनुग्रहव्यक्तिरेव तद्गुणानां च नान्यथा’॥ ३१२ ॥ इत्यादि वेदवाक्येभ्यो नैव वृद्धिर्हरेः क्वचित्पृण सम्पूरय स्वाध्यः सुधीतय इतीरिताः ॥३१३ ॥अविकारेण संस्थानमीदृक्त्वं नाम कीर्तितम् मावतो ज्ञानयुक्तस्य प्रजाश्चर्षणयः स्मृताः नेदिष्ठत्वं समीपत्वं क्षिप्रं शरणमीमहे ॥३१४॥युवयोरेव वाक्यानां सुमतीनां च सर्वशः । भवेमान्नप्रदातॄणां सर्वदा विषया वयम् ॥ ३१५॥ क्रतुः प्रधान उक्थ्यश्च शस्त्रैस्स्तुत्यो विशेषतःरक्षणेन तयोर्वित्तं ज्ञानं वा प्राप्नुमः सदा । निधीमहि च दानं च स्यादेवास्माकमर्थिने ॥ ३१६॥ ह्रस्वता संहितायां तु देवतैक्यप्रदर्शिनी । स्वरूपैक्यं हरौ तत्तु मत्यैक्यं भिन्नयोरपि ॥३१७॥ अद्य वां नु नुमो लोपः स्वातन्त्र्यार्थे हि सूत्रतः । साधयन्तीषु धीष्वेव शर्मास्मभ्यं प्रयच्छतम् यथास्थितस्तुतिं यां च वर्धयेथे सदैवमे ॥ ३१८ ॥ सौम्यं शब्दं कृणु त्वं नो विष्णो वायो सुवाक्पते । कक्षीवन्तं प्रति हि यो दत्तो यः स उशिक्सुतः । विवक्षितो मुनिः सोऽपि तस्मादर्थोऽपि मां प्रति ॥३१९ ॥ वित्तवान् रोेगहा ज्ञानवेत्ताऽस्माभिः सयुग् भवेत् । तुरो वेगाद्धरिर्वायुः अररुचातिरोषणात् । तस्य धूर्तिर्वचो नोऽस्मान् पूरयेद्रक्ष नो हरेघेति हावधृतिश्चैव सोमः सौम्यत्वतो हरिः । उना मया च युक्तत्वादूमैर्युक्तत्वतोऽपि वा ॥३२१ ॥ अमः स इति वा .साक्षाच्छ्रीर्दक्षेनेति तु दक्षिणा । दक्षिणा चतुरत्वाद्वा स्वयमेव जनार्दनः सदसस्पतिर्हरिस्साक्षाद् वायुरग्निरथापि वा । लाभज्ञानस्वरूपोऽसौ शरणं तमयासिषम् ॥३२३॥धीप्रेरकः स ध्येयश्च धीभिर्योगं तदाऽप्नुते ॥ तस्माद्धविष्कृतः स्वृद्धिं करोति यजतो विभुः । करोति चोत्तमं यज्ञं देवाह्वानानि गच्छति ॥ ३२४॥ नरैः स्तुत्यो नराशंसो हरिर्धृष्टतमश्च सः । गुणानां प्रथिमाधिक्यात् सप्रथस्तम ईरितः । यस्य स्वर्गादपि गृहं मखः प्रियमिवेयते ॥ ३२५॥यज्ञं प्रतिप्रति त्यं तं सम्यक् शास्त्रोक्तलक्षणम् । आहूयसेमहान्नैव त्वदन्योऽस्ति (हि) क्रतुं प्रति ॥ ३२६ ॥ विष्णौ हि मुख्यतोऽर्थोऽयमग्नौ कांश्चिदृते सुरान्महतो रञ्जकात् स्वर्गादद्रोग्धारोऽखिलं विदुःप्राप्ता अर्कं विशेषेण सन्निधिस्तत्र यद्धरेः शुद्धा घोरबलाः क्षेत्रत्रातारः क्षतितोऽपि वा । रम्यसत्सुखभोक्तारो मरुतो मारुतत्वतः ॥ ३२८ ॥ एतादृशानि रूपाणि प्राणाग्निस्थानि चेशितुः । पृथग् वा तादृशान्येव देवगान्यपि सर्वशः ॥३२९॥ स्वर्गोपरि प्रकाशे च सूर्यादावासते सुराः । नाको निर्दुःखरूपत्वाद् द्यौः प्रकाशस्वरूपतः ॥३३०॥ प्रतोलयन्ति च गिरींस्तिरस्कृत्य च सागरम् । पुरुषान् प्रकृतिं वाऽपि पर्ववन्तो हि जन्मना ॥ पुरुषाः सुसमुद्रेकात् समुद्रः प्रकृतिर्मता ॥ ३३१॥ प्रकृतेः पुरुषाणां च प्रेरकः सन् सदा हरे । स्वरूपैर्बहुभिर्युक्त आयाहि सम सद्गुणैः ॥३३२॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऋक्संहिताभाष्ये प्रथमोध्यायः ॥ १ ॥इत्येकोनविंशं सूक्तम्

श्रीमदनुव्याख्यानम्

नारायणं निखिलगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यख्यैः । अस्योद्भवादिदमशेषविशेषतोपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।यतः तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥6॥अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।स्वयङ्कृतापि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेखिलैः ॥8॥ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।भावनाच्चैव सुत्वाच्च सोयं पुरुष इत्यपि ॥10॥स एव सर्ववेदार्थो जिज्ञास्योयं विधीयते ।
ज्ञानी प्रियतमोतो मे तं विद्वानेव चामृतः ॥11॥वृणुते यं तेन लभ्यः इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥12॥द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥13॥नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥14॥ अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।आनन्दश्च मुक्तानां स एवैको जनार्दनः ॥15॥ इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥16॥मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ।मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥17॥तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥18॥साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥19॥तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥20॥तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥21॥व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् । सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥22॥ तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन । वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥23॥ वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥24॥ यद्युच्यतेपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणोपि तस्मात् तदपि नो भवेत् ॥25॥ ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः । विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥26॥ असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥27॥ अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते । सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥28॥ तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः । निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥29॥ मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते ।न चावरणमज्ञानमसत्ये तेन चेष्यते ॥30॥ अप्रकाशस्वरूपत्वाज्जडेज्ञानं न मन्यते । अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥31॥अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने । अनवस्थितिस्तथा च स्यादन्योन्याश्रयताथवा ॥32॥ स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अविद्यादुर्घटत्वं चेत् स्यादात्मापि हि तादृशः ॥33॥ अतोधिकारिविषयफलयोगादिवर्जितम् । अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥34॥ सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥35॥ यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् । ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥36॥ सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः । ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥37॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् । स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥38॥ सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः । अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥39॥ अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः । अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥40॥ अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते । यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥41॥ एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् । कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥42॥ कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः । न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥43॥ कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥44॥ कार्यं साधनमिष्टस्य भगवानिष्टदेवता । मुख्येष्टं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥45॥ प्राणबुद्धिमनःखात्मदेहापत्यधनादयः । यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः ॥46॥ इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता तथा । तस्मिन्नेव समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥47॥ अत्त्यपूपांस्तव भ्रातेत्यादावावापतोपि च । उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥48॥ बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।
आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥49॥ एष्यदानयनायायं कुत एव प्रतीक्षते । व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥50॥ पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति । वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥51॥ आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः । दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ॥52॥ व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेगते ततः ।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥53॥ अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् । क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥54॥ वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि । न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥55॥ यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत् । तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥56॥ इतिशब्दोन्नयेग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥57॥ आत्मानमेवेत्यादीनि योगेग्नावपि तत्समम् । एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥58॥ वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले । इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥59॥ कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने । कल्पनागौरवादेव पदार्था न स्युरेव हि ॥60॥ प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि ।
तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥61॥ पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् । अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥62॥ अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् । क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥63॥ प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् । अतात्पर्यं पदार्थेपि न कल्प्यमविरोधतः ॥64॥ अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि । मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥65॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः । प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥66॥ अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः । मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥67॥ न मानमपि वेदानामङ्गीकार्या हि नित्यता । न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना भवेत् ॥68॥ अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥69॥ प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते । न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥70॥ अधर्मवादिनो वाक्यमप्रयोजनमेव हि । धर्माभावेपि नो तेन प्रत्यक्षावगतो भवेत् ॥71॥ अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा । शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥72॥ अतोन्विताभिधायित्वं गौरवं कल्पनेन्यथा । न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥73॥ एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥74॥प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥75॥ ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः । पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥76॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः । अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥77॥ यतोनुभवतः सर्वं सिद्धमेतदतोपि च । देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥78॥ चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः । प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥79॥ तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेभ्युपेक्षितः । स्वयं भगवता विष्णुबर्‌रह्मेत्येतत्पुरोदितम् ॥80॥ स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि ।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥81॥ मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा । अतस्तत्रैवविष्णुत्वसिद्धेबर्‌रह्मेत्यसूचयत् ॥82॥ दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः । गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥83॥ ब्रह्मशब्दोपि हि गुणपूर्तिमेव वदत्ययम् । अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥84॥ सिद्धत्वात् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ । अम्भस्पार इत्युक्तो नारायणपदोदितः ॥85॥ आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः । कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥86॥ योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।
यस्मिन् देवा अधीत्युक्त्वा समुद्रं स्थानमेव च ॥87॥ नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।
यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥88॥ अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् । सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥89॥ सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥90॥ यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि । श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥91॥ अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् । गुणाः श्रुता इति ह्यस्मान्न दोषोर्थः श्रुतेर्भवेत् ॥92॥ प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।
सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥93॥ तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः । न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥94॥ दर्शनान्तरमूलत्वात् मोहार्थं चाज्ञया हरेः । न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥95॥ अदोषवचनाच्चैव नियमेन हरेः श्रुतौ । अज्ञानं पारतन्त्र्यं च प्रलयेभाव एव च ॥96॥ अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।
जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥97॥ अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्णध्यानच्छलेनैव स्वयं भागवतेब्रवीत् ॥98॥ अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः । न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥99॥ हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः । निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥100॥ भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥101॥ सदैव गुणवत्त्वेस्य भिन्नं स्यान्निर्गुणं सदा । न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥102॥ निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा । लक्ष्यलक्षणयोर्भेदोभेदो वा यदि वोभयम् ॥103॥ इति पृष्टे तदैक्यस्य गतिरेव न विद्यते । ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥104॥ भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि । भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥105॥ स्वनिर्वाहकता चेत् स्याद् वाह्यं वाहकमित्यपि ।
पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥106॥ सत्यज्ञानादिकेप्येवं न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ॥107॥ निर्विशेषत्वमेतेन मूकोहमितिवद् भवेत् । अभिन्नेपि विशेषोयं बलादापतति ह्यतः ॥108॥ विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् । भेदहीने त्वपर्यायशब्दान्तरनियामकः ॥109॥ विशेषो नाम कथितः सोस्ति वस्तुष्वशेषतः ।
विशेषास्तेप्यनन्ताश्च परस्परविशेषिणः ॥110॥ स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ।
अतोनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ॥111॥ एवं धर्मानिति श्रुत्या तदभेदोप्युदीर्यते । शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥ तद्वाक्योपमयान्यच्च प्रमाणत्वेनुमीयते । ईशवाक्यत्वतः इति चेत्तद्गव्यभिचारिणा ॥113॥ अप्रामाण्यानुमा च स्यात् न पृथक् चानुमेश्वरे । पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ॥114॥ शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ।नावेदवित् न तर्केण मतिरित्यादिवाक्यतः ॥115॥ तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन । वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥116॥ किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम् । वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ॥117॥ इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने चातिप्रसङ्गोनुमयेदृशा ॥118॥ वस्तुत्वात् तुरगः शृङ्गी पुष्पवत् खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात् सोत्तरो भवेत् ॥119॥ उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः । त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥ मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः । ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥ लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः । माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ॥122॥ वाक्यार्थोपि हि वाक्यार्थशब्देनैवोदितो भवेत् । नावाच्यं तेन किञ्चित् स्यात् यत इत्यादिकैर्वदन् ॥123॥ अवाच्यत्वं कथं ब्रूयान्मूकोहमितिवत् सुधीः । येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोवदत् ॥124॥ एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ।
महती जायते लज्जा यत्र तत्राखिला रवाः ॥125॥ अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् । कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥126॥ आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः । जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥127॥ वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि । कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥128॥ आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधयन् । आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना ॥129॥ स्यात् सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।
नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥130॥ अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।
अन्धन्तमो नित्यदुःखं तस्य स्यात् वसनद्वयम् ॥131॥ अनन्दा नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति येविद्वांसो बुधो जनाः ॥132॥ असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥133॥ इत्यादिश्रुतयो मानं शतशोत्र समन्ततः । हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥134॥ तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह । उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥135॥ परिवारतया ग्राह्या अपि हेयाः प्रधानतः । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥136॥ इति स्वस्यैव पूर्णस्य पूर्णेप्यय उदाहृतः ।
कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥137॥ पदं च निर्गुण इति कथं गौणं वदिष्यति । गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम् ॥138॥ अतोनवस्थितिमुखसर्वदोषमहास्पदम् । कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥139॥ न साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लृपत् । भगवान्न ह्यशब्दत्वं प्रधानेङ्गीकरोत्यसौ ॥140॥ समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।
प्रथमप्रतिपाद्या स्यात् तदभावे कुतोन्वयः ॥141॥ कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम् । योसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः ॥142॥ जन्मादिकारणे साक्षादाह देवः समन्वयम् । उक्तं तदेव जिज्ञास्यं क्वावकाशोत्र निर्गुणे ॥143॥ कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ । मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥144॥ अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन । तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥145॥ वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखलित्तमम् । विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥146॥ निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् । अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ॥147॥ अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा । अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥148॥ जन्मादिकारणं यत्तत् साक्षान्नारायणाभिधम् । वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥149॥प्रवृत्तमस्त्ववाच्यं ते नैवं ब्रूयाः कथञ्चन । सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः ॥150॥शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत् । मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ॥151॥ वयं त्वा श्रुतियुक्तिभ्यां बध्वास्मच्छास्त्रमञ्जसा ।विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥152॥ अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च । अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥153॥ अवाच्यमिति लोकोपि वक्त्याश्चर्यतमं भुवि । ।।अथानन्दमयाधिकरणम्।।एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥ आनन्दमय इत्यादिनाध्यायेन वदत्यजः । तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ॥155॥ शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ।
गुणवाचिनां च प्रथममाह देवः समन्वयम् ॥156॥ समुद्रशायिनं सर्वप्रसूतिप्रभवं श्रुतिः । तदेव ब्रह्म परमं इति सावधृतिर्जगौ ॥157॥ यतोतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः । येन्नं ब्रह्मेत्यादिरूपादभ्यासात् तैत्तिरीयके ॥158॥ अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः । आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ॥159॥ उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ।
सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ॥160॥ पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् । सर्वे वेदा आमनन्ति यत्पदन्त्विति हि श्रुतिः ॥161॥ आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः । समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥162॥ ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम् । ब्रह्मतावयवेपि स्यात् तथावयविनि स्वतः ॥163॥ यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ।
दर्शिता चैव पार्थाय निःसीमा शक्तयोस्य हि ॥164॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ॥165॥ विरूपाक्षाख्यमपरं ब्रह्मोक्तं तद्व्रते स्थितम् । समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ॥166॥ कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति । ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ परः ॥167॥ स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति । स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ॥168॥ तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः । पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ॥169॥ महाव्याकरणे सूत्रमिति स्वरविनिर्णये । ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ॥170॥ विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ।
तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ॥171॥ ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोवसितो भवेत् ।
ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ॥172॥ ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः । इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ॥173॥ आथर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ । तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ॥174॥ अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा । एको नारायण आसीन्न ब्रह्मा न च शङ्करः ॥175॥ वासुदेवोग्र एवासीन्न ब्रह्मा न च शङ्करः ।
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ॥176॥ इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा । मुख्यं ब्रह्म हरिस्तस्मात् प्रस्तावः परमित्यपि ॥177॥ मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् । असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ॥178॥ प्राचुर्यार्थाश्च मयटः सर्वेत्र प्रतिपादिताः । भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ॥179॥ महाभोक्ता महाभोग्य इत्यर्थोन्नमये भवेत् । महाप्राणो महाबोधो महाविज्ञानवानपि ॥180॥ विशेषसामान्यतया विज्ञानं मन इत्यपि ।
एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ॥181॥ अभेदेपि विशेषेणैवान्य इत्युदितो हरिः । भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् ॥182॥ ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः । ब्रह्मतर्कवचोप्येवं अत एकः स पञ्चधा ॥183॥ उक्तोन्नमय इत्यादि भृगोश्चैतद्वदिष्यति । प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ॥184॥ प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि । उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते ॥185॥ महानन्दत्व एवास्य हेतुः कोन्यादिति स्फुटम् । उक्तः श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् ॥186॥ करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् । इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ॥187॥ दुखाद्रोदादिका चैव सर्वकर्तृत्वतोस्य च । सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ॥188॥ प्रवर्तको न चेदेष प्राण्यादन्यच्च कः पुमान् । ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ॥189॥ तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् । लक्षितं तत्र सत्यत्वं सृष्ट्यान्नप्राणयोरपि ॥190॥ उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् । अनन्तत्वं तथानन्दमयवाचाप्युदाहृतम् ॥191॥ सद्भावं यापयेद्यस्मात् सत्यं तत्तेन कथ्यते । इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ॥192॥ ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च । विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् ॥193॥ अतोद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि । प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये ॥194॥ आयुः प्राणो हि भूतानामिति यद्गतिजीवने । उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ॥195॥ प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः । नाल्पे सुखमिति प्रोक्त्यैवानन्दमयतोक्तितः ॥196॥ अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके । अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ॥197॥ क्रियते परया यस्मात् इतरोत्र न कथ्यते ।
पुरुषं वेत्ति यो मुच्येत् नान्यः पन्था हि विद्यते ॥198॥ इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति । पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ॥199॥ महानानन्द उद्विष्णुर्भग ओम इतीर्यते । स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ॥200॥ तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते । सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ॥201॥ इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते । ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ॥202॥ तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम् ।
भूतं भूताभिमानी च तद्देहोन्तर्नियामकः ॥203॥ हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च । आ समन्तात् काशते यदाकाशो मुख्यतो हरिः ॥204॥ बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् । आप आपालनाच्चैव पृथिवी प्रथितो यतः ॥205॥ उष्टानामाश्रयत्वेन स एवौषधिनामकः । ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ॥206॥ पुरि शेते यतः सोथ पुरुषश्चेति गीयते ।
क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ॥207॥ आकाशादिषु नान्योस्ति ह्यभिमानोभिमानिनः । अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥208॥ एवं देहादिपर्यन्तमागतं हरिमेव तु । परामृशति तस्यैव पञ्चरूपत्ववित्तये ॥209॥ त्यक्त्वा भूतादिकं सर्वं स वा एष इति श्रुतिः । स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ॥210॥ सारान्नमय एवायं न लोकान्नमयः प्रभुः । इति तं रसशब्देन विशिनष्टि शरीरगम् ॥211॥ इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः । शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ॥212॥ तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन । आदित्ये पुरुषे चायमिति भेदोपदेशतः ॥213॥ नास्याभेदोस्ति जीवेन नानुमा कामचारिणी । विमतानि शरीराणि मद्भोगायतानानि यत् ॥214॥ शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्षते ।
प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्झिता ॥215॥ अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् । जड आत्मैव वस्तुत्वात् प्रमेयत्वाज्जडं चितिः ॥216॥ घन आकाश इत्याद्या वार्यन्ते केन हेतुना । न जीवभेदसूत्राणां शङ्क्यात्र पुनरुक्तता ॥217॥ वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता । योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति ॥218॥ स्थानद्वयेप्यतः कोशा एत इत्यतिसाहसम् ।
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ॥219॥ अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् । अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः ॥220॥ श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् । मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ॥221॥ येन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः । उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ॥222॥ स्थानद्वयगता वेदवाणी तदपलापिनाम् । तमसोन्यत्र संस्थानं कथमेव सहेत सा ॥223॥ अधीहि भगवो ब्रह्मेत्युक्तोन्नप्राणपूर्वकम् । आह ब्रह्म कथं तन्न द्वारं तदितिवादिनः ॥224॥ उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः । वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ॥225॥ सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोपि च । तद्यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः ॥226॥ न वदेत् ब्रह्म च कथं मायावी न हि वारिराट् । चष्ट इत्येव तच्चक्षुःश्रवणाच्छ्रोत्रमुच्यते ॥227॥ वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम् । तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ॥228॥ विज्ञानानन्दसहितं पृथक् सृष्ट्यादलिक्षणैः । आवापोद्वापतः शाखा यत आहुः परं पदम् ॥229॥ यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् । लक्षितं गुरुणा पश्चात् तपसैवापरोक्षतः ॥230॥ दृष्ट्वैकैकस्वरूपं तु समस्तोक्तानुदर्शनम् । इच्छताज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ॥231॥ अब्रह्मेत्येव वदतां श्रुताहान्यश्रुतग्रहौ । साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ॥232॥ समीपे सहभोगस्य मुक्तित्वेनोक्तितोसकृत् ।भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ॥233॥ एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् । तदन्येषां मतमपि सत्संसत्सु न भासते ॥234॥ अतो नारायणो देवो निःशेषगुणवाचकैः ।
गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥235॥ अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः । अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥236॥ जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥237॥ अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः । शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥238॥ अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।
तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥239॥ रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥240॥ विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते । तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥241॥ समन्वयं साधयति.........।अन्तस्थत्वाधिकरणम्............ देवानां तत्र शक्तताम् ।
आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।
साधयित्वाभिदां तैश्च पुनरेव न्यावारयत् ॥243॥आकाशाधिकरणम्चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥इति शङ्कानिवृत्यर्थं आकाश इति नाम च ।
परतोपि वरीयस्त्व पूर्वल्लिङ्गाद्धरेर्भवेत् ॥245॥"नभो ददाति श्वसतां मार्गं यन्नियमाददः ।
' इत्यादिवाक्यैः...............॥प्राणाधिकरणम्.............अध्यात्ममन्वयव्यतिरेकतः ॥246॥प्राणादिहेतुतादृष्टेः अतिदेशो हि तादृशः ।
लिङ्गं बलवदेव स्यात् प्रेरकोस्यापि यद्धरिः ॥247॥गायत्र्यधिकरणम्नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।
कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।
तादृशत्वाच्च तच्छक्तेः ............॥अन्तिमप्राणाधिकरणम्.........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।
विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥250॥प्राणसंवादपूर्वाणि मुख्यतो जीवगतानि च ।
अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥251॥तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।
एको नारायणो देवो भण्यते नात्र संशयः ॥252॥वासुदेवादिरूपेण चतुर्मूतिश्च सर्वशः ।
अथवा पञ्चमूतिः स प्रोक्तोधिकरणं प्रति ॥253॥प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।
तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥254॥बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥255॥ग्रन्थोयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ।
तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः ॥256॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥द्वितीयः पादःसर्वगतत्वाधिकरणम्लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥1॥तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतोप्यतिशक्तः स लीलया केवलं प्रभुः ॥2॥इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।
अभेदोपि विशेषे स्याद्बली सोप्यनपोदितः ॥3॥एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥4॥अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥अत्तृत्वाधिकरणम्अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता ।
इति चेत् स विशेषोपि क्रियाशक्त्यात्मना स्थिरः ॥6॥शक्तिता व्यक्तिता चेति विशेषोपि विशेषवान् ।
अभिन्नोपि क्रियादिश्च स्वभाव इति हि श्रुतिः ॥7॥ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ।
नित्यानन्दोव्ययः पूर्णो भगवान् विष्णुरच्युतः ॥8॥इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥9॥इति सत्तत्ववचनं........... ।गुहाधिकरणम्........ द्वित्वं चैकस्य युज्यते ।
यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥अन्तरधिकरणम्अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता ।
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥12॥चेतनानां विशेषो यः स्वभावोपीश्वरार्पितः ।
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥13॥ईश्वरश्चेन्नियन्ता स्यात् स एव प्रथमागतः ।
किमित्यपोद्यते कस्मात् वृथावस्थितिकल्पना ॥14॥दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन ॥अन्तर्याम्यधिकरणम्रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।
स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ॥16॥स्वाधीनसत्ताशक्यादि कथमात्मप्रतीपकम् ।अदृश्यत्वाधिकरणम्गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥अभेदोभावधर्माणां ब्रह्मणा युज्यते कथम् ।
नाभावो भाव इति च विशेषः प्रायशो भवेत् ॥18॥अतद्भावोन्यता चेति न विशेषोस्ति कश्चन ।
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥19॥अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः ।
भावाभावविरोधोपि न तु सर्वत्र विद्यते ॥20॥तदभावो हि तद्भावविरोधी न ततोपरः ।
पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ॥21॥ कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।
पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ॥22॥ व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ॥23॥ यदा तदधिको दोषो विद्यते को नु वादिनाम् ।
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ॥24॥ अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।
यथैकः समवायोपि भेदाभेदौ च वस्तुनि ॥25॥ अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।
अखण्डवादिनोपि स्यात् विशेषोनिच्छतोप्यसौ ॥26॥व्यावृत्ते निविशेषे तु किं व्यावर्त्यबहुत्वतः ।
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ॥27॥प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥28॥तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ॥29॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥तृतीयः पादःतत्रान्यत्र प्रसिद्धानां लिङ्गानाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥द्युभ्वाद्यधिकरणम्विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्यखलिशत्वात् .............॥द्युभ्वाद्यधिकरणम्...............भूमा विष्णुः सुखाधिकः ॥2॥अक्षराधिकरणम्अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लाःक्षणैर्युतम् ॥3॥ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकान्यपि ॥4॥अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥5॥सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्याः प्रमाणं श्रुतिरत्र च ॥6॥वामनाधिकरणम्लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचायर् द्विःस्थिता इह ॥7॥बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥8॥लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।
बहुतादृक्त्वमुक्तस्य विरोधोर्थात् तथागतिः ॥9॥समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।
ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ॥10॥सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ॥11॥वैलक्ष्ण्यं स्वभावस्य प्रेक्षापूर्वा क्रिया तथा ।
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ॥12॥वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।
अनामरूपता भेदस्योपजीव्यप्रमाणता ॥13॥सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥14॥देवताधिकरणम्तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।
यतो जैमिनिनान्यार्थमसिद्धेर्थे विधिस्तथा ॥15॥विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।
मोक्षे फलविशेषोस्ति न च सर्वं प्रकाशते ॥16॥सर्वदा तेन देवानामपि युक्ता ह्युपासना ।
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ॥17॥स्पष्टातिस्पष्टविशदं ब्रह्मणोशेषवस्तुगम् ।
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ॥18॥इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ।
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत्तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते ॥19॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥चतुर्थः पादः।आनुमानिकाधिकरणम्दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ।
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥2॥ स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोन्यथा ।
न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ॥3॥यावद्राज्ञ्यन्यगत्वेपि स्वातन्त्र्याभासमात्रतः ।
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥4॥कारणं संशयस्य स्यादिति नैव प्रयुज्यते ।
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥5॥अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् ।
गुणास्तु तादृशा यत्र प्रयुज्यन्तेखिला अपि ॥6॥पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।
अतो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ॥7॥दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ।
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥8॥वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।
मङ्गलामङ्गलेन्यत्र ततो नामङ्गलं वदेत् ॥9॥स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।
बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ॥10॥एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।
नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः ॥11॥तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ।ज्योतिरुपक्रमाधिकरणम्जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ॥12॥आयजेतश्चायजेतो वसन्तिश्च वसंस्ततः ।
विगतच्छादनत्वात्तु गच्छ भूतभयङ्करः ॥13॥भुङ्क्ष्वेत्युक्तो हरिहुर्र्ं च हुतमस्मिन् जगद्यतः ।
स्फुटत्वात् फडिति प्रोक्तः कव रक्षण इत्यतः ॥14॥कवचं वर्तते यस्मात् षड्गुणत्वेन सर्वदा ।
वषट् तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥15॥स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः ।
नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते ॥16॥इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः ॥17॥तस्मादनन्तगुणता श्रुतितात्पर्यतोस्य हि ।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥18॥अङ्गीकृतेपि नैवास्ति दोषो वाक्यसमन्वये ।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥19॥कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्योस्ति क इत्यस्योभयार्थतः ॥20॥तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगोपि शब्दानामर्थैर्नैव निषिध्यते ॥21॥ज्योतिरुपक्रमाधिकरणम्स्त्रीशब्दाश्च निषेधार्थाः सर्वेपि ब्रह्मवाचकाः ।
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥23॥परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ॥24॥दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता ॥25॥उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इत्यादियुक्तयः साक्षात् सिद्धन्तस्थापकाः इह ॥26॥अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥27॥विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।
स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः ॥28॥विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥29॥प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥30॥तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।
अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥31॥इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।
तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥32॥तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥33॥प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥34॥उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥35॥प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेपरग्रहः ॥36॥एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणात् ॥37॥योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् ॥38॥अ इति ब्रह्म कथितं तद्य्वाख्यानात्मता तथा ।
शब्दानामपि सर्वेषां नामवित् कृतकृत्यता ॥39॥विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन् ॥40॥तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥41॥णकारश्च षकारश्च नामरूपतया मतौ ।
तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥42॥अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।
घोषाः सर्वेपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥43॥इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥44॥प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥45॥न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते ।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥46॥सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥47॥इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।
तेजोबन्नात्मकं वापि यद्युपादानमिष्यते ॥48॥अनाद्येवापराधः कः प्रधानमिति चोदिते ।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ॥49॥को दोषः सर्वथैवास्ति परिणामि जडं यदि ।
अस्माकं परमुख्यार्थो भगवानेक एव तु ॥50॥मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।
सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥51॥अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥52॥योगानां परमां सिद्धिं परमं ते पदं विदुः ।
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ॥53॥त्यागे च कारणाभावादुभयार्थत्वमिष्यते ।
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ॥54॥सा भवेद्यत्र न व्यर्थः पूर्वारोहो भ्रमो यथा ।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥55॥यतत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥56॥पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥57॥इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।
न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥58॥अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः ॥59॥निर्विकारोक्षरः शुद्धो निरातङ्कोजरोमरः ।
अविश्वो विश्वकर्ताजो यः परः सोभिधीयते ॥60॥निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥61॥इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः ।
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥62॥क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।
अपादानत्वमेवास्य यद्युपादानतयेष्यते ॥63॥अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भवः ।
न चोर्णनाभिजनितृमातॄणां च विकारिता ॥64॥चेतनात्वात् तदन्नं हि कार्यरूपतया भवेत् ।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥65॥उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।
इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा ॥66॥स्वभावोयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥67॥ससर्ज मातापितृवदूर्णनाभिवदेव वा ।
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥68॥न चेतनविकारः स्याद्यत्र क्वाप ह्यचेतनम् ।
नाचेतनविकारोपि चेतनः स्यात् कदाचन ॥69॥न चान्यस्यान्यरूपत्वं विकृतत्वेपि दृश्यते ।
न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥70॥सर्वज्ञात् ब्रह्मणोन्यत्वं जगतो ह्यनुभूयते ।
अभेदः सत्वमात्रेण स्यात् खर्वस्वर्णयोरपि ॥71॥भागेन परिणामश्चेद्भागयोर्भेद एव हि ।
यो भागो न विकारी स्यात् स एवास्माकमीश्वरः ॥72॥भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेत् ।
ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् ॥73॥शृङ्गाच्छरोवलिमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥74॥उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥75॥न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।
न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥76॥उपादानतया किं तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥77॥सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥78॥सत्त्वात् ततेर्वैदिकत्वात् सम्यग्वक्तुमशक्यतः ।
आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥79॥सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥80॥जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥81॥भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ।
तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥82॥शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥83॥तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ।
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥84॥दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोन्यगा ॥85॥ब्रह्मणश्चेत् क्व सार्वज्ञमन्यथा चेत् स्वतोन्यता ।
नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥86॥देहिनः कारणयुता देहाश्च यदि न भ्रमात् ।
किं भ्रान्तिकल्पितं तत्र भेदोपि भ्रमजो यदि ॥87॥भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया ।
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥88॥भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्न हि ।
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥89॥बाध्यं नार्थक्रियाकारि न च स्वप्नोपि नो मृषा ।
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥90॥स हि कर्तेति वाक्याच्च जाग्रत्वमिति हि भ्रमः ।
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥91॥तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ।
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥92॥अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ।
अमुख्यसत्यमानस्य साधकत्वे सदावयोः ॥93॥न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ।
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥94॥साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥95॥यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥96॥विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।
इत्याद्याः श्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥97॥सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वपि बाध्यत्वं तददोषतः ॥98॥सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥99॥अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥100॥तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥101॥तस्मान्न तं विना किञ्चन्स्मर्तुं द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥102॥अतोदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥103॥अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु ।
अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते ॥104॥इतः पूर्वं तथा भावाद्यदि नो संसृतेर्गतिः ।
वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षिणा ॥105॥तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च ॥106॥एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥107॥एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥108॥परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥109॥पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥110॥प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥111॥विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥112॥इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ॥113॥विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥114॥जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥115॥मिथश्च जडभेदोयं प्रपञ्चो भेदपञ्चकः ।
सोयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥116॥द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।
इति श्रुतेः मितं त्रातं मायाख्यहरिविद्यया ॥117॥उत्तमोर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ।
वाचारब्धं तु साङ्केत्यनाम स्याद्विकृतं बहु ॥118॥नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ।
प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोपि पूरुषः ॥119॥विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥120॥प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ।
देहः प्रध्वंसते वायं किं ततोस्यातिशिष्यते ॥121॥हन्यते न वधेनायं जरया च न जीर्यति ।
एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥122॥वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ॥123॥एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।
विकारित्वविवक्षायां न चैकनखकृन्तनम् ॥124॥सर्वं कार्ष्णायसं च स्यादतः सादृश्य एव च ।
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥125॥प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव विस्तरः ।
तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ॥126॥तदसङ्ख्‌यातदोषेतं हेयमेव शुभार्थिभिः ।
असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥127॥उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः ॥128॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ॥द्वितीयोध्यायःप्रथमः पादःउक्तः समन्वयः साक्षादविरोधोत्र साध्यते ।
चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥आनुमानिकाधिकरणम्आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।
पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥6॥न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।
न चास्या व्यभिचारेपि हीयते मानता क्वचित् ॥7॥निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता ।
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ॥8॥नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ।
अधिकारो हि सुलभः कथितोन्यागमेष्वलम् ॥9॥वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ।
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ॥10॥मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ।
अधिकारं दुरापाद्यमुक्त्वातिसुलभं पुनः ॥11॥अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये ।
उच्यतेतस्तदुक्तं हि व्यभिचारे फलेपि तु ॥12॥कथं प्रमाणतां गच्छेत् ...... ।न विलक्षणत्वाधिकरणम्........ नित्यत्वात् पुरुषोद्भवैः ।
उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥13॥विरूप नित्यया वाचा नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥14॥पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥15॥अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।
विरोधादर्शनात् तस्माद्वेदप्रामाण्यमिष्यते ॥16॥तन्मूलत्वात् स्मृतीनां च विरोधो यत्र न क्वचित् ।
विरोधोपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥17॥आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥18॥प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥19॥युक्तोयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात् तत्र युक्त एवार्थः युक्तिश्च त्रिविधा मता ॥20॥व्याप्तिः प्रत्यक्षगा यस्या युक्तिगागमगा तथा ।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥21॥याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥22॥ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥23॥अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥24॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।
अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥25॥न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।
फलवत्वं न चास्माभिः प्रामाण्यं हि विवक्षितम् ॥26॥तृणादिदर्शने किं च फलवत्वं निगद्यते ।
सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते ॥27॥न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥28॥प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥29॥निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥30॥निर्दोषत्वातिनियमात् तद्बलिष्ठतमं मतम् ।
पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम् ॥31॥अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।
प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता ॥32॥अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।
यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता ॥33॥यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् ।
न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥34॥दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव तु ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिधर्‌रुवा ॥35॥विरोधोसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥36॥विरोधोपि त्रिधैव स्यात् प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥37॥साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।
दुर्बलेन विरोधेपि न प्रमाणामसाधकम् ॥38॥स्ववाक्येन विरोधेपि नैव साधकतां व्रजेत् ।
संवादनुक्तिसंयुक्ता एत एव तु निग्रहाः ॥39॥वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी ॥40॥केवलं तु कथा वादो जल्पोर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥41॥अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।
उक्ते तैः प्रथमं माने वक्तव्ये तस्य दूषणम् ॥42॥विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥43॥विनैव तत्वनिर्णीतिं न हि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥44॥वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥45॥बहुविद्यत्वसिद्धौ तु नैव वादोपि कारणम् ।
सभासभापतिप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥46॥वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।
तत्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥47॥विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥48॥जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥49॥संवादे वादिनोः क्वापि विवादे हेतुरिष्यते ।
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ॥50॥रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ।
प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ॥51॥प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ।
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥52॥सद्भिरागम एवैकः प्रयोज्योभीष्टसाधकः ।
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ॥53॥प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ।
आगमे दर्शनीयात्र दोषो लिङ्गवलिमता ॥54॥लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनमनुग्रहः ।
त्रिपञ्चवयवामेव युग्मावयविनीमपि ॥55॥नियमाद्योनुमां ब्रूयात् तं ब्रूयाद्यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना ॥56॥नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात् तस्मात् सैवानुमा मता ॥57॥अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते ।
पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम् ॥58॥मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।
अतीतानागतं यद्वद्योगिभिर्दृश्यतेञ्जसा ॥59॥एवं पूर्वानुभूतं च मनसैवावगम्यते ।
विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ॥60॥साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते ।
एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥61॥प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ।अभिमान्यधिकरणम्तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ॥62॥दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत् ।
ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ॥63॥युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते ।
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ॥64॥तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ।
सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ॥65॥व्याप्तिश्चोक्तानुसारेण दृश्यते चाधिकारिभिः ।
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ॥66॥व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत् ।
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥67॥असदधिकरणम्अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥68॥विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ।
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ॥69॥कथं न निर्णयं कुर्यादिति असत्कारणं न हि ।
श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ॥70॥अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते ।
असत्कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ॥71॥इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ।
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम् ॥72॥प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।
धर्मधर्म्यैक्यतश्चैव न तु तन्मात्रता भवेत् ॥73॥अभावस्य च भावोपि धर्मोथापि हि धर्मिणः ।
तादृक्त्वं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥74॥विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥75॥सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।
नाशोयं विमतोपि स्यात् नाश्ुतवात् कर्तृशेषवान् ॥76॥न चाशेषनृनाशस्तु दृष्टो दृश्योस्ति वा क्वचित् ।
धर्माधर्माश्रयत्वेन स्वीकार्योपि नरो लये ॥77॥अनादित्वं विना दृष्टं कथं स्यात् कारणं क्वचित् ।
पूर्वदृष्टात् परादृष्टं यदि नैवोत्तरं कुतः ॥78॥अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।
उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् ॥79॥तद्दृष्टान्तेन सर्वत्र कर्ता हि नानुमीयते ।
आगमानुगृहीता तु मानमेषानुमापि तु ॥80॥आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ॥81॥अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ।
न च शिष्टागृहीतत्वं निरीशादीशवादिनः ॥82॥अतोवशिष्टजीवादिकर्तृतात्र निषिद्ध्यते ।
तन्मनोकुरुतेत्यादेरसतो मनसो जनिः ॥83॥निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ।
असतो विश्वजननमाशङ्क्यात्र निषिद्ध्यते ॥84॥प्रापकं वाक्यमात्रं तु परिहारोविशेषितः ।
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ॥85॥तद्वदेवानुमान्त्यत्र वस्तुत्वात् क्रियते श्रुतेः ।भोक्त्रधिकरणम्नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ॥86॥अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ।
क्वचिद्भिन्नताय दृष्टं तदभिन्नतया कथम् ॥87॥दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ।
भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ॥88॥भोक्त्रापत्तेरिति प्राह ...... ।आरम्भणाधिकरणम्...... कथं च तदनन्यता ।
जगतस्त्वविकारत्व उक्तन्यायेन साधिते ॥89॥स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्ध्यते ।
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ॥90॥यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेः तद्वशस्य भावो न पर इत्यतः ॥91॥शक्तोपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत्सदा ॥92॥नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।
असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥93॥अनवस्थान्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः ।
शक्तोपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥94॥स्वभिन्नं कारणाभिन्नं भिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थोयमशेषतः ॥95॥इतरव्यपदेशाधिकरणम्अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥96॥यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंशितापि वा ॥97॥अंशिनो हि घटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥98॥अतोनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥99॥बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।
बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥100॥यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।शब्दमूलत्वाधिकरणम्तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥101॥विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः ॥102॥सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥103॥मानमेयविशेषेण पुनरुक्तिर्न जायते ।न प्रयोजनाधिकरणम्सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥104॥अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः ।
देवस्यैष स्वभावोयमित्याह श्रुतिरञ्जसा ॥105॥क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥106॥आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥107॥इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता ।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ॥108॥महातात्पर्ययुक्तैश्च नेच्छामात्रं निषिद्ध्यते ।
मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ॥109॥उन्निनीषति वाक्याच्च लोकदृष्टानुसारतः ।
इच्छानिमित्तको यस्मात् तदभावे कुतः श्रुतिः ॥110॥महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ।
याथार्थ्यमेव मानत्वमिति वाक्यं प्रयोजकम् ॥111॥मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ।वैषम्यनैर्घृण्याधिकरणम्वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ॥112॥नाङ्गीकार्यमतोन्यत्तु न वैषम्यादिनामकम् ।सर्वधर्मोपपत्त्यधिकरणम्यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ॥113॥गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।
सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः ॥114॥निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ।इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥द्वितीयः पादःस्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥एवं चतुर्विधा नैव विरुद्ध्यन्तेन्वयं प्रति ।
इति प्रथमपादेन निर्णीतेप्यभियोगतः ॥2॥दर्शनानां प्रवृत्तत्वान्मन्दः आशङ्कते पुनः ।
अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥न चोच्छेदोस्ति कस्यापि समयस्येत्यतो विभुः ।
भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् ।
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।
विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।
चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥रचनानुपपत्त्यधिकरणम्चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥चेतनं तदसङ्ख्यातं भिन्नमन्यद्भिदोज्झितम् ।
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ॥11 ॥परस्परविभेदश्च कार्याणामालयं भवेत् ।
भोक्तॄणां चेतनस्याहुः केचित् तामपि नापरे ॥12॥स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम् ।
प्रकृतेश्च स्वरूपस्य विवेकग्राहमेव तु ॥13॥अभोगवादिनो भोगमाहुर्भेदग्रहात् तयोः ।
भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ॥14॥ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ।
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ॥15॥एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते ।
न च काचित्प्रोमोक्तार्थे श्रुतिरेव प्रमा हि नः ॥16॥आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ।
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ॥17॥स्वोक्ताखलिनिषेधी स्यान्न च किञ्चित् प्रसिद्ध्यति ।
इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत् ॥18॥इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ।
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ॥19॥अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ।
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ॥20॥कुत इच्छाचेतनस्य सेच्छं चेत् किमचेतनम् ।
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ॥21॥अचेतनेच्छापगता यदि भेदाग्रहोत्र च ।
कथं स न घटस्य स्यान्मन म इति भेदतः ॥22॥मनसोपि गृहीतत्वात् उभयात्मकता यतः ।
कामस्य तु मनः कामः प्रियाप्रियविभेदतः ॥23॥द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ।
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ॥24॥अचेतनं जगत्कर्तृ पयोम्ब्वादि च नोपमा ।
एतत्प्रशास्ति वचनाच्चेतनाचेतनस्य च ॥25॥द्वैविध्येपि तु कामादेः कुतः स्वामित्वमात्मनः ।
साक्षादनुभवारूढं शक्यतेपोदितुं क्वचित् ॥26॥इच्छास्वामित्वमेवोक्तमिच्छावत्वं न चापरम् ।
किञ्चित् तद्वशगत्वेपि स्वामित्वं लोकवद्भवेत् ॥27॥सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ।
न चानुभवगं कामस्वामित्वं वेदवागपि ॥28॥शक्तापवदितुं तस्मात् सा तदन्याभिधायिनी ।
मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ॥29॥मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ।
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ॥30॥विभागे च तयोर्मानं नैव किञ्चित् क्वचिद्भवेत् ।
सर्वमानविरोदैकदुर्दीक्षादीक्षिततस्त्वयम् ॥31॥मायावाद्युपमां यायात् तच्च शब्दान्निराकृतः ।अन्यत्राभावाधिकरणम्साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥अस्तीश्वरः स्वयंभातः क्लेशकर्मादिवर्जितः ।
क्षेत्रशक्तिमती चैव प्रकृतिर्बीजशक्तिमान् ॥33॥जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ।
पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ॥34॥बीजावपनकर्तैवेत्यत प्राह स्वयं प्रभुः ।
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ॥35॥शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वशः ।
सत्ता प्रधानपुरुषशक्तीनां च प्रतीतयः ॥36॥प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ।
तथा नित्यतया नित्यं नित्यशक्त्या स्वयेश्वरः ॥37॥नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ।
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ॥38॥यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ॥39॥तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ।अभ्युगमाधिकरणम्चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ।
यदैवं दर्शनेनास्य कोर्थः प्रत्यक्षगोचरः ॥41॥लब्धस्तेनैव हि नरैः शास्त्रात् किं मोहनं विना ।
स्वपरार्थविहीनत्वात् स्वमतेनैव निष्फलम् ॥42॥किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ।
देहादन्योनुभवत आत्मा भाति शरीरिणाम् ॥43॥मम देह इति व्यक्तं ममार्थ इतिवत् सदा ।
प्रत्यक्षस्येव मानत्वमिति केनावसीयते ॥44॥यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ।
न चान्यामानता क्वापि प्रमाणेनावसीयते ॥45॥स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ।पुरुषाश्माधिकरणम्सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ।
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ॥47॥तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः ।
किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोखलिम् ॥48॥अन्यथानुमित्यधिकरणम्अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् ।
तत्प्रेरणेप्यशक्तत्वात् स्वतन्त्रोन्यो ह्यपेक्षितः ॥49॥न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।
हिताक्रियादिदोषाच्च भद्रं नानीश्वरं मतम् ॥50॥संसारिणोन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ॥51॥नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ।
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ॥52॥अङ्गीकार्यतमो नित्यं सर्वैरपि सुनिश्चितम् ।वैशेषिकाधिकरणम्नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥युक्तमीशं वदन्तोन्ये तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोखिलाः ॥54॥परमाणुद्वयेनैव द्य्वणुकं नाम जायते ।
द्य्वणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् ॥55॥ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः ॥56॥कारणं समवाय्याख्यं परमाण्वादिरत्र हि ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥57॥सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥58॥कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥59॥एवं स्थितेपि सिद्धान्ते विशेषस्तत्र कल्पितः ।
द्य्वणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥60॥न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।
इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥61॥महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥62॥यथा तथैव ह्रस्वत्वात् पारिमाण्डिल्यतोपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः ॥63॥न चेन्महत्वतश्चैव दीर्घत्वादपि नो भवेत् ।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥64॥अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वतः ।
इति चेन्न महत्त्वं च परमाणावणावपि ॥65॥कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते ।
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखलि ॥66॥अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ।
तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च ॥67॥यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ।
परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ॥68॥दृश्यतेनन्त इत्येव तथानन्त्यमणावपि ।
न महत्तत्वगुणत एतावानिति हीश्वरः ॥69॥परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ।
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ॥70॥नावसाययितुं शक्यो विरोधादेव केवलम् ।
केवलं साक्षिमानेन कालो देशोपि नान्तवान् ॥71॥अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः ।
यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ॥72॥विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ।
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ॥73॥अनन्तमेव चाणुत्वं कुतो नैवावसीयते ।
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ॥74॥अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ।
बहुत्वाल्पत्वयोर्यद्वत् सङ्ख्यायामुपलभ्यते ॥75॥आनन्त्यमेकभागानां तावत्त्वं ह्येव गम्यते ।
अणीयांश्च महीयांश्च भगवानगमोदितः ॥76॥आनन्त्यवाचकः शब्दो द्विधानन्त्येपि मानताम् ।
याति नैव गुणाल्पत्वं कालाल्पत्वं च मानगम् ॥77॥सर्वकालगतस्याल्पकालेपि स्यादवस्थितिः ।
महागुणस्य चाल्पोपि गुणः स्यादिति चेद्भवेत् ॥78॥तावत्त्वमेव नैव स्याद्देशेप्येतन्न नो मतम् ।
महतोल्पत्वमपि हि व्योमवत् प्राह वेदवित् ॥79॥यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ।
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेत् ध्रुवम् ॥80॥एकत्राप्यनवस्थस्य कुत एवाखलिस्थता ।
शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ॥81॥अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ।
उभयानन्त्ययुक् तस्मात् यदि मुख्यं महद्भवेत् ॥82॥तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा ।
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ॥83॥अक्षजादेश्च मानत्वमनवस्थान्यथा भवेत् ।
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ॥84॥सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ।
तत्संयोगादनियतात् पदार्थानां जनिर्भवेत् ॥85॥द्वयोरेव तु संयोग इति केनावसीयते ।
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ॥86॥तारतम्येन सर्वेपि महान्तश्चाणवो यतः ।
न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ॥87॥कथं साक्षिमितस्यास्य शक्नुयात् वारणे क्वचित् ।
यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ॥88॥पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् ।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥89॥देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत् ।
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ॥90॥येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥91॥प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥92॥सहदर्शनमात्रेण न व्याप्तिरवसीयते ।
यदैवाव्यतिरेकेस्य ह्यक्षजं वागमो भवेत् ॥93॥तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ।
अन्यथा सप्तमरसभावोप्यनुमयापतेत् ॥94॥अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ।
कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ॥95॥भिन्नस्यैव तु सम्बन्धः समवायोन्य ईर्यते ।
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम् ॥96॥स स्वनिर्वाहकश्चेत् स्याद् द्रव्यमेव तथा न किम् ।
विशेषस्तद्गतत्वादिर्यद्यभिन्नेवसीयते ॥97॥गुणक्रियादिरूपस्य निषेधः केन हेतुना ।
द्रव्यमेव ततोनन्तविशेषात्मतया सदा ॥98॥नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ।
विशेषश्च विशेषी सः स्वेनैव समवायवत् ॥99॥कल्पनागुरुतादोषात् पदार्थान्तरता न हि ।
कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ॥100॥एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः ।
येन प्रत्यक्षसिद्धेन व्यवहारोखलि भवेत् ॥101॥भावाभावविभागेन यं विना न कथञ्चन ।
एतादृशो विशेषेस्मिन् को द्वेषो वादिनां भवेत् ॥102॥अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेस्मिन् सविशेषावसीयते ॥103॥सामान्यादिपदार्थेषु तन्निष्ठत्वादयोखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्येपि हि वादिभिः ॥104॥कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति स च धर्मोपरो यदि ॥105॥षट्पदार्थातिरेकः स्यात् पदार्थानियमेपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाखनिर्भवेत् ॥106॥सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥107॥अस्मत्पक्षे गुणाद्याश्च तद्वन्ते हि विशेषतः ।
अनन्यत्वान्नानवस्था भेदो नाशे भवेत् तथा ॥108॥विशेषमेव संश्रित्य विशेषो बलवान् यतः ।
दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥109॥विरोधो ह्यविरोधश्च यतो दर्शनमानकौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥110॥अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।
नित्या धर्मास्तदीयास्तु सर्वेस्मान्नैव भेदिनः ॥111॥सामस्त्योच्छेदिनोन्यत्र धर्मा उभयरूपिणः ।
भावे त एव चोच्छेदात् तदन्ये च समस्तशः ॥112॥अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥113॥एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा ॥114॥अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥115॥परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।
अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेपि सः ॥116॥परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ।
अंशिनोंशैरभेदोयमंशेन तु भिदाभिदा ॥117॥सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते ।
संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ॥118॥अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ।
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ॥119॥यथैव च पदार्थानामनयोर्भेद इत्यपि ।
इतोमुष्यामुतोप्यस्य भेदो दृष्टो द्विधर्मिकः ॥120॥तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ।
नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ॥121॥न सर्वधर्म एकोस्ति समुदायस्तु भिन्नगः ।
एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् ॥122॥एकस्मिन् स विनष्टेपि यतोन्यत्रैव दृश्यते ।
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ॥123॥एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ।
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ॥124॥स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ।
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥125॥न केनचिदभिन्नोतो भगवान् स्वैर्गुणैर्विना ।
इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ॥126॥सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ।
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ॥127॥अभीष्टावागतिश्च स्याच्छक्तिः सादृश्यगा यतः ।
तादृशोयं च तच्छब्दः इति ज्ञापयति स्फुटम् ॥128॥जातितश्चेत् कथं तासु तत्र चेदनवस्थितिः ।
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ॥129॥यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ।
कथं स्वरूपत्वमपि ज्ञायतेनुगतं यदि ॥130॥एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।
कल्पनागौरवात् तेन युक्ता नानुगकल्पना ॥131॥औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत् तदेव चेदग्निमत्वं किं तत्र भण्यते ॥132॥अग्निसंयोगमात्रं चेद्भवेत् तत्सिद्धसाधनम् ।
भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः ॥133॥समवायो यदि ह्यस्य चैकत्वाद् सिद्धसाधनम् ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥134॥नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः ।
सत्यत्वात् को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥135॥उपाधिजन्यं तद्गम्यमिति चौपाधिकं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ॥136॥भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ।
अविद्यमान एवान्यः समवायोधिगम्यते ॥137॥उपाधिना तद्गमकमनुमानं न मा भवेत् ।
एवमेवासतः सत्तासमवायो जनिर्मता ॥138॥तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ।
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ॥139॥नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ।
अभावस्य च धर्माः स्युर्भावास्तेषां च तेखिलाः ॥140॥प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥141॥तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।
सोभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥142॥तस्मात् प्रध्वंस्तभेदादि सदित्येवावगम्यते ।
अस्त्यभावोस्ति च ध्वंसो देहाभावश्च भस्मता ॥143॥इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।
अन्योन्याभावभेदी च पृथक्त्वं च पृथक् पृथक् ॥144॥यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥145॥भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुतास्ते यतोन्यस्य प्रतियोगित्वमिष्यते ॥146॥प्रतियोगिनो हि भेदोयं न तु स्वस्मात् कथञ्चन ।
विभागेनाल्पतैव स्यात् कुत एव च शून्यता ॥147॥न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।
विदारणार्थो धातुश्च विभागगुणवाचकः ॥148॥अविदारणेपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।
अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः ॥149॥न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरोष्टगुणत्वेन प्रमेयोप्रमित्वतः ॥150॥मय्यनन्तगुणेनन्त गुणतोनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥151॥नारायणः परोशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥152॥अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारितः ॥153॥कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥154॥स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥155॥ज्ञानं विश्वधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः ॥156॥इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥157॥ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।
स्वप्रकाशत्वमेतस्माद्दुर्निवारं समापतेत् ॥158॥सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥159॥योशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥160॥ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥161॥न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।
सहदर्शनमात्रेण श्रुतीनामपलापकः ॥162॥यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥163॥अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।
अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ॥164॥तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ।
इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ॥165॥किं कार्यमनुमानेन गलस्तनसमेन हि ।
अनुमानेन यद्यर्थः श्रुतिदृष्टोप्यपोद्यते ॥166॥पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात् तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥167॥ईशस्यानुमया सिद्धेः श्रुतिर्धर्मिप्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥168॥अनानन्दानुमानस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत् तस्मान्नानुमात्रोपयोगिनी ॥169॥नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत् ॥170॥न हि कालविभेदोस्ति तत्पक्षेस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥171॥विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥172॥उदीरयति कालाख्यां शक्तिमित्यस्य वागपि ।
कालस्य कालगत्वेन न विरोधोपि कश्चन ॥173॥असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा ।
ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥174॥ईशाधीनो च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥175॥तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः ॥176॥स्वभावादेव हीच्छैषा देवस्यैष इति श्रुतेः ।
स्वभावोपि परेशेच्छावशः इत्युदितः पुरा ॥177॥नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥178॥अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः ॥179॥समुदायाधिकरणम्वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।
अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।
नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥181॥संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः ।
दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥182॥मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।
नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥183॥अतोन्योन्याश्रयत्वेन समुदायो न युज्यते ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥184॥स्यात् तत्सदातनत्वेपि तच्च सामीप्यहेतुकम् ।
इति चेत् कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥185॥न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।
अतोर्थेन्द्रियसंयोगिरूपकारणतात्मनः ॥186॥संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ।
विशेषकार्यजनकं यदि कारणमिष्यते ॥187॥कुतः समानरूपत्वं कार्याणामपि सर्वशः ।
अतोनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ॥188॥अदृष्टमपि तस्यैव विशेषापादकं कुतः ।
यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ॥189॥कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ।
भवेन्नियामकाभावादिदमस्यैव कारणम् ॥190॥इति नित्यविनाशित्वे केन मानेन गम्यते ।
इदं न जायतेमुष्मादित्यत्रापि न कारणम् ॥191॥विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ।
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ॥192॥फलादीनां विशेषेण सर्वत्राप्यनुमीयते ।
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ॥193॥अविशेषोखलिस्यापि सत्त्वात् किं नानुमीयते ।
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ॥194॥सधर्मिप्रतियोगित्वमभावस्य नियामकम् ।
तौ विना न ह्यभावश्च क्वचिद् दृष्टः कदाचन ॥195॥अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ।
स्वीकारत्यागतोदृष्टदृष्टयोः सर्ववस्तुषु ॥196॥गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ।
उत्तरोत्पत्तिमात्रेण विनाशात् पूर्ववस्तुनः ॥197॥न संस्कारार्पकत्वं च युज्यते कस्यचिन्क्वचित् ।
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ॥198॥एकत्वमनुभूतिस्थं त्यक्त्वा निर्मानिका भिदा ।
कुत आत्मादिकेषु स्याद् बल्येनानुभवो यतः ॥199॥कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥200॥सम्बद्धा एव संस्कारमन्यत्रादधतेखिलाः ।
असम्बद्धः कथं पूर्वं उत्तरे वासनाकरः ॥201॥एककालतया योगं विना संस्कारतः कथम् ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥202॥पूर्वमध्यापरकलारहितः क्षण इष्यते ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥203॥यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।
विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥204॥अभेदेपि विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥205॥विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः ।
दिक्सुखे च स्वदृष्टान्ताद्भावो सच्चेत् क्वचिद्भवेत् ॥206॥विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥207॥सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥208॥सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥209॥सोहं तदिदमेवाहं सुखी सद्गगनं दिशः ।
सत्या इत्याद्यनुभवः सदा तत्प्रतिपक्षगाः ॥210॥अतो निर्मानमखलिप्रमाणप्रतिपक्षगम् ।
दुर्मतं कोनुगृह्णीयाद्विनासुरततिं क्वचित् ॥211॥असदधिकरणम्अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ॥213॥रागादिदोषरहितं तद्भावं योगिनं नयेत् ।
तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् ॥214॥सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ।
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ॥215॥सांवृतेनैव सत्वेन व्यवहारोखलि भवेत् ।
शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ॥216॥सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥217॥नासतो जगतो भावो न हि दृष्टासतो जनिः ।
सतः क्वचित् प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥218॥यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारशृङ्गं गोरिव घातकम् ॥219॥कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन ।
न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात् ॥220॥देशकालादिनियमो न हि शून्यात् सतो भवेत् ।
पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते ॥221॥किं नानुमीयते तद्वद्वस्तुत्वात् पुरुषोद्भवः ।
सर्वस्यापि न चाभावो विश्वं सदिति गम्यते ॥222॥यतोनुभवविरोधे तु वचनं वादिनः कुतः ।
स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ॥223॥यदि सत्वेन किञ्चात्र भ्रमो नैव निवर्तते ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ॥224॥निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ।
दृष्टस्य भ्रान्तितो चेत् स्याददृष्टे न भ्रमः कुतः ॥225॥गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ।
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ॥226॥उक्तभङ्ग्यागमानां च प्रामाण्याद्युज्यतेखलिम् ।
दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेदियं च मा ॥227॥मिथ्या चेत् साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ।
साधकत्मसत्यस्य साध्यं विप्रतिपत्तितः ॥228॥तस्य चेत्यनवस्था स्यात् सत्त्वं चास्यानुभूतितः ।
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ॥229॥अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥230॥दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोपरम् ।
भ्रान्तेः संवृतिसत्यस्य विशेषो व्यभिचारवान् ॥231॥तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ।
विज्ञानाद् व्यभिचारोस्य कदाचित् स्यादिति प्रमा ॥232॥नैव दृष्टा प्रमा सा च न भवेत् स्वविरोधतः ।
भेदो विशेषधर्म्यादिग्रहणापेक्षया यदि ॥233॥अन्योन्याश्रयताहेतोर्दुग्राह्या इति यन्न तत् ।
स्वरूपं वस्तुनो भेदः यन्न तस्य ग्रहेग्रहः ॥234॥अन्यथास्यामुना भेद इति वक्तुं न शक्यते ।
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ॥235॥स्यात् प्रतीतिविरोधाच्च न हि कश्चित् तथा वदेत् ।
धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ॥236॥विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ।
को विरोधः स्वरूपेण गृहीतो भेद एव तु ॥237॥अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ।
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ॥238॥धर्म्यादिभेदग्रहणात् तेनोक्तोन्योन्यसंश्रयः ।
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ॥239॥अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः ।
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ॥240॥मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ।
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ॥241॥न हि लक्षणभेदोस्ति निर्विशेषत्वतस्तयोः ।
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ॥242॥स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ।
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ॥243॥अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥244॥अनुपलब्ध्यधिकरणम्ज्ञानमेवैकमखलिज्ञेयाकारं प्रभासते ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥कल्पिताः प्रतिभासान्ते नानासंवृतिभूमिषु ।
इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ॥246॥भासतेनुभस्यैव विरुद्धत्वादपेशलम् ।
तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ॥247॥ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमेशिवाः ॥248॥नैकस्मिन्नधिकरणम्आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।
भावाभावतया विश्वं येन रूपेण मीयते ॥250॥तद्रूपमेव तदिति नियमः केन वार्यते ।
तत्तद्दोषनिवृत्यर्थं स्वीकृता तत्तदात्मता ॥251॥यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शनः ।
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ॥252॥अशेषमविरुद्धं च निर्मानं व्याहतं सदा ।
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ॥253॥स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ।
वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ॥254॥दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ।
अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ॥255॥तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ।
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ॥256॥लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ।
ओतप्रोतात्मकत्वं तु पटे देहेङ्गसंस्थितिः ॥257॥इत्यादलिक्षणस्यैव निवृत्तौ स्यादनित्यता ।
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ॥258॥नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ।
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥259॥व्याप्त्या तयान्यथाभावादात्मनोनित्यता भवेत् ।
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ॥260॥अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ।
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ॥261॥संस्थानापगमश्चेत् स न हि भूसागरादिषु ।
यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ॥262॥देहमाने विकारः स्यादिति स्थास्नूननात्मनः ।
आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः ॥263॥अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥264॥गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥265॥एवं चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ।पत्युरधिकरणम्सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ।
आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ॥267॥नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ।
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ॥268॥यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया ।
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ॥269॥घ्नञ्छिश्नदेवानेकोसावासीन्नारायणः परः ।
तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ॥270॥यज्ञेन यज्ञमयजन्ताबधन्न् पुरुषं पशुम् ।
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥271॥इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः ।
पराधीनपदप्राप्तिरज्ञत्वं प्रलयेभवः ॥272॥प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ।
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ॥273॥कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ।
न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ॥274॥अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।
नास्याधिष्ठानयोगोस्ति भूतानां प्रलये तदा ॥275॥अदेहश्चेदसर्वज्ञः शिलाकाष्ठादिवत् सदा ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥276॥न चैतदखिलं विष्णौश्रुतिप्रामाण्यगौरवात् ।
मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः ॥277॥स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवोग्रतो भवेत् ॥278॥एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः ॥279॥सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः ॥280॥आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः ॥281॥आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् ।
मनसोस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥282॥पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥283॥इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत्सर्वमाविरासीदितीर्यते ॥284॥मानवत्वाद्विरोधः को नामानं क्वचिदिष्यते ।
अविरोधो विरोधश्च मानेनैव हि गम्यते ॥285॥अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥286॥नामानि सर्वाणि च यमेको यो देवानामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥287॥न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥288॥पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥289॥समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥290॥स्कन्दसूर्यगणेशादिमतानि न्यायतोमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥291॥उत्पत्त्यधिकरणम्निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥त्रिपुरा भैरवीत्यादिनामभिः साभिधीयते ।
तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ॥293॥भूतभौतिकमप्येतदिति तन्नोपपद्यते ।
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ॥294॥केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ।
नार्च्यं महावाममतं वामैरन्यैरुदीर्यते ॥295॥शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ।
इति तच्चोपपन्नं न शिवस्याकरणत्वतः ॥296॥अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ।
अणुवामा न तद्युक्तमीशवादप्रवेशनात् ॥297॥सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ।
न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ॥298॥उक्तदोषस्च तत्पक्ष इति नैवात्र दूष्यते ।
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ॥299॥सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ।
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ॥300॥सूत्राण्यतिविरुद्धं तद्यत आह स भारते ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥301॥ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ।
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ॥302॥एकान्तभावोपगता वासुदेवं विशन्ति ते ।
इति गीता च तच्छास्रसङ्क्षेप इति हीरितम् ॥303॥वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि ।
दृश्योहं नान्यथा दृश्यो वर्षकोटिशतैरपि ॥304॥इति वाराहवचनं श्लोका इति वचः श्रुतौ ।
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ॥305॥पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ॥306॥कथमेवात्र दोषः क उत्पत्तिर्ज्ञोत इत्यपि ।
इहैवोक्ता न चाभूतभावस्तत्रापि कथ्यते ॥307॥अनादिकर्मणा बद्धो जीवः संसारमण्डले ।
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥308॥न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ।
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ॥309॥वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ।
मनोभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ॥310॥सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तोन्यथानूद्य कथं दुष्टत्वमुच्यते ॥311॥यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥312॥अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥313॥अतोशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते ॥314॥अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवायान्ति एतस्या नैव निन्दकाः ॥315॥ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतां विद्ययामृतमश्नुते ॥316॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥तृतीयः पादःअथाशेषसमाम्याविरोधापाकृतिं प्रभुः ।
करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोधिकम् ।
एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।वियदधिकरणम्प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः ॥9॥महादाद्याश्च जायन्ते पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥10॥अवकाशमात्रमाकाशः कथमुत्पद्यतेन्यथा ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥11॥मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥12॥अत आकाशशब्दोक्तस्तद्देवोत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥13॥भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेव्याकृतं हि गगनं साक्षिगोचरम् ॥14॥प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ।
तथापि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ॥15॥खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ।
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ॥16॥ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ।
कालप्रवाह एवैको नित्यो न तु विशेषवान् ॥17॥पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ।
सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ॥18॥प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ।
पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥19॥मातरिश्वाधिकरणम्एवं प्रलयकालेपि प्रतिभातपरावरः ।
मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥पराधीनविशेषेण जनिमानेव शब्दितः ।
नैव किञ्चित् ततो जन्मवर्जितं परमादृते ॥21॥पराधीनविशेषत्वे जन्मनः स्थूलताभवः ।
पूर्वशब्दवलिपश्च यदि जन्मेति कीर्त्यते ॥22॥रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ।
प्रधानस्य च वेदस्यापीश्वरेच्छया ॥23॥व्यक्तिर्नाम विशेषोस्ति तस्मात् तद्वशतैव हि ।
उत्पत्तिरत्र कथिता ....... ॥असम्भवाधिकरणम्...... स्वतन्त्रत्वात् परात्मनः ॥24॥नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोपरम् ।व्यतिरेकाधिकरणम्अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः ।
अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥26॥अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥27॥पृथगधिकरणम्एवं स्थितेपि जीवैक्यं केचिदाहुः परात्मना ।
तद्योहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।
प्रज्ञानेत्रो लोक इति मुक्तो भेदोभिधीयते ॥29॥एतमानन्दमित्यन्या परं साम्यमित्यपि ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ॥30॥सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च ।
उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ॥31॥तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ।
आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ॥32॥इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः ।
शाखां शाखां महानद्यः संयान्ति परितः स्रवाः ॥33॥धानापूपाः मांसकामाः सदा पायसकर्दमाः ।
यस्मिन्नग्निमुखाः देवाः सेन्द्राः सहमरुद्गणाः ॥34॥ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ।
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ॥35॥निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ।
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ॥36॥कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ।
स सङ्गत्य पुनःकाले कालेनेश्वरमूर्तिना ॥37॥जाते गुणव्यतिकरे यथापूर्वं प्रजायते ।
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ॥38॥यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि ।
सहैव ब्रह्मणा कामान् भुङ्क्ते निस्तीर्णतद्गुणः ॥39॥दुःखादींश्च परित्यज्य जगद्य्वापारवर्जितः ।
भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ॥40॥मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ।
जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ॥41॥मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत् साध्यधर्मोयं सन्न सन् वा न वोभयम् ॥42॥यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥43॥न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।
अनुमानेन चेत् सैव ह्यनवस्था भविष्यति ॥44॥न चागमस्तदर्थोस्ति नासदासीन्न तद्भवेत् ।
परिशेषादनिर्वाच्यं यदि सिद्ध्येत् परात्मनः ॥45॥अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ सदा ।
न चान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥46॥न च प्रत्यक्षमत्रास्ति न चार्थापत्तिरिष्यते ।
बाधायोगात् सत इति बाधाभावत एव हि ॥47॥इष्टापत्तिर्न हि भ्रान्तावपि बाधोवगम्यते ।
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ॥48॥न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ।
बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते ॥49॥कश्चायं बाध उद्दिष्टो न हि नाशोसतो भवेत् ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥50॥नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस्तदा सत्त्वं तेनैवाङ्गीकृतं पुनः ॥51॥प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥52॥न चोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च ।
शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥53॥अनुभूतिविरोधेन कथमेकत्वमुच्यते ।
किञ्चित् कर्ता च दुःखीति सर्वैरेवानुभूयते ॥54॥सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥55॥उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥56॥स एव धर्मिणी ग्राही तदभेदः कथं भवेत् ।
यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥57॥एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥58॥धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।
नोपजीव्यो ह्यभेदोत्र क्वचिद्भेदश्रुतेर्बलात् ॥59॥न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।
येन मानेन चोपेयं भेदस्तेनावगम्यते ॥60॥सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञत्वगुणेनैव तया भेदोवगम्यते ॥61॥न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।
न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ॥62॥यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥63॥श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥64॥न च बाधविशेषोस्ति यदबाधितमेव तत् ।
बाधो यद्यनुभूतेर्थे कथं निर्णय ईयते ॥65॥कोपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ॥66॥एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ।
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ॥67॥स चेत् साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ।
विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः ॥68॥ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।
साक्षिणो व्यवसायी तु व्यवहारोभिधीयते ॥69॥तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव सः ॥70॥शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।
उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ॥71॥अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ।
तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ॥72॥सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ।
अतोभेदवदेवैताः श्रुतयः प्रवदन्ति हि ॥73॥पौराणि च वाक्यानि सादृश्याभेदसंश्रयात् ।
सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपि चाभिदाम् ॥74॥आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ।
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ॥75॥सादृश्यं च विशेषेण जडानां द्वयमेव तु ।
भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना ॥76॥ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥77॥यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥78॥इति श्रुतेः नोभयं च भेदाभेदाख्यमिष्यते ।
एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ॥79॥मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥80॥इवोभये च सादृश्य इति वाक् शब्दनिर्णये ।अंशाधिकरणम्भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥चेतनत्वादि सादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥82॥न केनचिदभेदोस्ति भेदाभेदोपि वा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ॥83॥इति श्रुतेर्न तस्यास्ति भेदाभेदोपि केनचित् ।
अभेदश्रुतयोंशत्वात् सादृश्यं चांशतास्य तु ॥84॥अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोन्य एव च ।
विभिन्नांशोल्पशक्तिः स्यात् किञ्चित् सादृश्यमात्रयुक् ॥85॥अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।
स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥86॥सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्योथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥87॥कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ॥88॥नानावताररूपेण स्थितः पूर्णगुणः सदा ।
विण्मूत्राद्यभिमानिन्यो यथापभ्रष्टदेवताः ॥89॥सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् ।
देहदोषैश्च दृष्टत्वादपभ्रष्टाख्यदेवताः ॥90॥अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ।
एवमेवं पराद्विष्णोः पृथक् संसारिणो मताः ॥91॥अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ।
न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ॥92॥गुणैरशेषैः पूर्णत्वान्मुख्याभेदो परैर्न च ।
अंशाभासाश्च सर्वेपि परस्यांशा न मुख्यतः ॥93॥यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।
न तु पुम्पादवत् पादा जीवा एते परात्मनः ॥94॥पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमा श्रुतिर्नारायणं परम् ॥95॥अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥96॥प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ॥97॥उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ।
ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ॥98॥सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ।
ततो रूपं महन्नाम ब्रह्मणोहङ्कृतिः शिवः ॥99॥ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥100॥तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।
तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥101॥जन्मस्थितलियाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥102॥मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।
इति श्रुत्युपपत्तिभ्यां पादेस्मिन् प्रभुणोदितम् ॥103॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥चतुर्थः पादःश्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ।
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।
युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥
युक्तयो निर्णयस्यैव स्वयं भगवतादिताः ॥3॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥तृतीयाध्यायस्यप्रथमः पादःस्वाभाविकान्यथानामसहभावान्ययोक्तयः ।
अविशेषविशेषौ च सहभाIो विमिश्रता ॥1॥विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ ॥2॥उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता बलवत्त्वं च विभागः कारणाभवः ।
क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥3॥बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् ।
अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥द्वितीयः पादःपश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥गुणसाम्यमयोगश्च तर्कबाधो वलिमता ।
नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥अशक्यकर्तृताशक्तिः स्वतोबोधस्तदेव च ।
अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् ।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥सन्ध्याधिकरणम्वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥त्रिगुणात्मकं मनोस्त्येव यावन्मुक्तिः सदातनम् ।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥6॥सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥7॥संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।
स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्वमेव हि ॥8॥अदृष्टे चाश्रुते भावे न भाव उपजायते ।
अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥9॥इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।
कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥10॥दृष्टं सामानाधिकरणं दृश्यतेत्र स च भ्रमः ।
वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता न च ॥11॥भेदोभेदोथवा द्वन्द्वमिति प्रश्नो न युज्यते ।
द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥12॥प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।
सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः ॥13॥तत्त्वनिर्णयवैलोम्यं तु कथावसितिकारणम् ।
परिहारेपि सिद्धत्वं दूषणं प्रतिवादिनः ॥14॥प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधिका ।
आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ॥15॥केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ।
दोषो व्याहतिरेवास्ति नृशृङ्गस्तित्वसाधने ॥16॥यत्र व्याहतता नास्ति कोतिसङ्गोस्य साधने ।
प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ॥17॥न्यायाभासा अमूलाः स्युः न्यायस्यान्यस्य तौ पुनः ।
अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ॥18॥ज्ञायते साक्षिणैवाद्धा मानबाधे तु तद्भवेत् ।
यत्साक्षिणैव मानत्वं मानानामवसीयते ॥20॥अमानस्य तु मानत्वं मानसत्वाचलं भवेत् ।
उत्सर्गतोपि यत्प्राप्तमपवादविवर्जितम् ॥21॥व्यभिचार्यपवादेन मानमेव भविष्यति ।
अतो हि भोजनादीनामिष्टसाधनतानुमा ॥22॥मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ।
व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ॥23॥रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।
इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका ॥24॥अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा ।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥25॥व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते ।
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ॥26॥लिङ्गस्योक्तौ विशेषोयं केन मानेन गम्यते ।
साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ॥27॥यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ।
यत्र नातिप्रसङ्गोस्ति मानं न च विपर्यये ॥28॥क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ।
परिशेषो मिथःसिद्धिचक्रकास्वाश्रयादयः ॥29॥असिद्धसाधकत्वेन पञ्चावयवता विना ।
अङ्गीकार्या समस्तैस्तन्नियमः किं निबन्धनः ॥30॥सिद्धसाधनता च न कथावसितिर्भवेत् ।
व्यभिचारो हेत्वसिद्धिरेकपक्षेपि दूषणम् ॥31॥साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।
वैय्यर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥32॥अप्रयोजनता तत्र प्रथमप्रश्नदूषणम् ।
सिद्धप्रश्नादिकं यत् तदाधिक्यान्तर्गतं भवेत् ॥33॥अर्थापत्त्युपमाभावा अनुमानान्तर्गताः क्वचित् ।
प्रत्यक्षान्तर्गतोभावः सुखादेर्नियमेन च ॥34॥अन्यत्र झटिति प्राप्ताः प्रारम्भाद्याश्च युक्तयः ।
आगमार्थावसित्यर्था नियतव्याप्तयोखिलाः ॥35॥वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।
कुरुपाण्डववत् तेषामुपपत्तेः पृथग्वचः ॥36॥स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।
स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः ॥37॥प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ॥38॥जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ।
एवं संशोधितन्यायसदागमविरोधतः ॥39॥नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ।
वलिक्षणं सदसतोरिति हि व्याहतं स्वतः ॥40॥प्रतियोगित्वमप्यस्य ब्रह्मणोङ्गीकृतं भवेत् ।
मिथ्या चेत् प्रतियोगित्वं वैलक्ष्ण्यं ततो न हि ॥41॥अवलिक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ।
अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ॥42॥ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ।
इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ॥43॥इत्थम्भावो हि धर्मोस्य न चेन्न प्रतियोगिता ।
इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोखिलाः ॥44॥अदृश्यत्वादयोप्यस्य गुणा हि प्रभुणोदिताः ।
यदि स्युस्तादृशाः धर्माः सर्वज्ञत्वादयो न किम् ॥45॥अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ।
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ॥46॥सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते ।
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥47॥अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ।
न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ॥48॥वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ।
धर्मारोपोपि सामान्यधर्मादीनां हि दर्शने ॥49॥इदन्तदादिधर्मित्वे धर्मोन्यः कल्प्यतेत्र हि ।
सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ॥50॥तदर्थं यदि धर्माणामारोपः सानवस्थितिः ।
ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ॥51॥भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।
तन्मात्रस्यान्यथाभावे किं न स्याद्विश्वसत्यता ॥52॥येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्येव किं न सा ।
भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ॥53॥भवेयुभर्‌रान्तयो नॄणां नैवेशादेः कथञ्चन ।
सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीर्यते ॥54॥प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ।
साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ॥55॥साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ।
तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ॥56॥ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि ।
ऐक्यप्रमाणमिथ्यात्वं यदा विश्वस्य सत्यता ॥57॥ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते ।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥58॥अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥59॥प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।
कालान्तरेप्यमानं चेदिदानीं मानता कुतः ॥60॥मिथ्यात्वमानं मोक्षेपि मानं किं नेति भण्यताम् ।
मानत्वेद्वैतहानिः स्यादमानत्वेप्यमोक्षता ॥61॥विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।
अस्ति चेन्मुक्त्यवस्था च द्वैतपत्तिरतोन्यथा ॥62॥अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।
काल एवागमोप्याह मुक्तिं कालनिवर्तने ॥63॥मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत् ।
क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ॥64॥देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।
मम देह इति ह्येव न देहोहमिति प्रमा ॥65॥उपचारश्च कृष्णोहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्यात् यद्युपाधिकृतं तदा ॥66॥स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते ।
कथं च भेदो देहादेरात्मनो न प्रतीयते ॥67॥जातमात्रा मृगा गावो हस्तिनो पक्षिणो झषाः ।
भयाभयस्वभोगादौ कारणानि विजातने ॥68॥अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥69॥यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥70॥भेदज्ञानेपि चाङ्गारवह्निवत् स्वाविविक्तवत् ।
भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥71॥अर्थान्यथानुभवतः प्रतिपादयितुं क्षमाः ।
लोकाः ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥72॥शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥73॥आगमोपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
विशेषं ज्ञापयेदेव कथं शक्तिग्रहोन्यथा ॥74॥अतीतानागतार्थेषु जाते शक्तिग्रहेखलिम् ।
विशेषं गमयेद्वाक्यं न तदज्ञानशक्तिके ॥75॥शक्तिश्चेद्वर्तमाने स्यान्नतीतानागतं वदेत् ।
यदि शक्तिग्रहोन्यत्र कथं स स्यात् तदग्रहे ॥76॥सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।
सामान्यवर्जितं वस्तु स्वरूपं गमयेत् कथम् ॥77॥न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥78॥सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ॥79॥स्यादुत्तरं ततोन्यच्चेत् तदेव स्वयमेव नः ।
एवं व्यावृत्तरूपेपि यदा शक्तिग्रहो भवेत् ॥80॥तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः ।
अतो विशेषसामान्यरूपं सर्वमपीष्यते ॥81॥व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ।
न चैकधर्मता तेन पदार्थानां परस्परम् ॥82॥धर्माणां भेददृष्ट्यैव तत्सादृश्यस्य दर्शनात् ।
अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः ॥83॥सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ।
किञ्चित् सादृश्यविज्ञानादखलिस्यापि वस्तुनः ॥84॥शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः ।
प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ॥85॥तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।
आधिक्यमनुभूतात् तु यदातीतत्वमिष्यते ॥86॥मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्र हि ।
मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ॥87॥अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।
न च सा स्मृतिमात्रार्धा तदितन्त्वग्रहैकतः ॥88॥अतो न वर्तमानैकनियमः स्याद्ग्रहेक्षजे ।
न च प्रमाणतोन्या स्यात् प्रमितिर्नाम कुत्रचित् ॥89॥मानाभावाद् गौरवाच्च कल्पनायाः किमेतया ।
मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ॥90॥ज्ञानमेव ततोन्या न प्रमितिर्नाम दृश्यते ।
मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित् ॥91॥स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ।
जाग्रत्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ॥92॥अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ।
आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः ॥93॥एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ।
यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ॥94॥अबाधितानुवृत्तेस्तु स्वप्नादेभर्‌रान्तता कुतः ।
न च काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ॥95॥अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ।
किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ॥96॥अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।
वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥97॥भ्रान्तत्वभ्रान्तता चेत् स्यात् कथं नाभ्रान्तिसत्यता ।
अशेषदोषदूरं तन्मतं हेयं बुभूषुभिः ॥98॥येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।
भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥99॥उन्मत्तोपि कथं तस्य मतं स्वीकर्तुमिच्छति ।
ईशशक्तेरचिन्त्यत्वात् महोन्मत्तैः प्रवर्तितम् ॥100॥अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।
निमित्तमैश्वरी मुख्या निर्मितं त्रातमेव च ॥101॥ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः ॥102॥प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥103॥चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥104॥मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते ।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥105॥क्वचित् स्पष्टा स्युष्टे वासना मानसी च सा ।
ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥106॥देहयोगाधिकरणम्सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।
वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥107॥सम्पत्त्यधिकरणम्सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा ।
जीवं नयति देवेशः नान्यः कर्तास्य कश्चन ॥108॥नस्थानतोप्यधिकरणम्न स्थानतोभेदतोप्यस्य भेदः कश्चित् परेशितुः ।
सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत् ।
महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥110॥दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।
भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा ॥111॥प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।
निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥112॥यो मामशेषदोषोज्झं गुणसर्वस्य बृंहितम् ।
जानात्यस्मै प्रसन्नोहं दद्यां मुक्तिं न चान्यथा ॥113॥यो मामशेषाभ्यधिकं विजानाति स एव माम् ।
विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥114॥यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः ।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥115॥लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात् ।
महातात्पर्यमुख्यस्य विरोधादत एव हि ॥116॥दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।
नार्थः श्रुतिपुराणादेः तद्विरुद्धोखलिस्य च ॥117॥अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ॥118॥एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।
इत्यतोखलिसच्छास्त्रविरुद्धत्वेन नानुमा ॥119॥वर्तते तत्र तेनेशो निर्णीतोखलिसद्गुणः ।
न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ॥120॥उपमाधिकरणम्यत आभासतामेव श्रुतिरस्य वदत्यलम् ।
यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ॥121॥छाया यथा पुंसदृशा पुमधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥122॥सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।
आभास एवं पुरुषा मुक्ताश्च परमात्मनः ॥123॥छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्येखिला अपि ॥124॥हरेबर्‌रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।
मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥125॥सर्वेल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
चेतनत्वेपि भिन्नास्ते तस्मादेतेन सर्वदा ॥126॥इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ।
आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ॥127॥तन्न युक्तं यदाभास उपाध्यायत्त ईयते ।
उपाध्यायत्तताभावादाभासत्वविरोधतः ॥128॥चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् ।
अतः पृथक्त्वमुदितं समुदायांशयोर्भवेत् ॥129॥ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ।
अतो देहाद्युपाधीनामपाये समता भवेत् ॥130॥ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ।
यदा तदोपाध्यायत्तरूपाणां नांशिता भवेत् ॥131॥इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।
अत एवोपमेत्येव चान्याभासविशेषिताम् ॥132॥यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।
जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम् ॥133॥तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।
नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥134॥किञ्चित् सुखादिसादृश्यमपीशेनासुरानृते ।
तत आभासते नित्यं तद्वदाभासतेपि च ॥135॥भानमस्तित्वमपि चैवासमन्ताद् यतस्ततः ।
जीव आभास उद्दिष्टः सदैव परमात्मनः ॥136॥न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।
तदधीनत्वमेवेति किञ्चिद् सादृश्यमेव च ॥137॥सम्प्रकाशयतः सूत्रगतावखलिमानतः ।
जीवेशभेददृष्ट्यैव समुदायैकता कुतः ॥138॥अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ।
सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ॥139॥अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद्दोषवान् कथम् ।
अनुसन्धानरहितमैक्यं चेदेकता न तत् ॥140॥चेतनैक्येनुसन्धानं प्रमाणं नैव चापरम् ।
अनुसन्धानरहितं समुदायैक्यमेव चेत् ॥141॥चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ।
मुक्तौ स्यादनुसन्धानमित्यपि स्यात् सुदुष्करम् ॥142॥सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ।
पञ्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिनां भवेत् ॥143॥विद्यमानानुसन्धानंं न चेदज्ञत्वमापतेत् ।
असदैक्यं भवेत् पश्चाद्यदि स्यात् सप्तमो रसः ॥144॥समुदायैक्यमेतस्माद् दूरतोपाकृतं सदा ।
अतोशेषगुणोन्नद्धं निर्दोषं यावदेव हि ॥145॥तावदेवेश्वरो नाम तत्र भेदोपि न क्वचित् ।
नेह नानास्ति किमपि हरयोयमयं हि सः ॥146॥इत्यादिश्रुतिमानेन जीवांशः सर्व एव च ।
नियमेनानुसन्धानवन्तो यद्येकता स्वतः ॥147॥अंशिनोशेषसन्धानमत्यल्पस्यापि विद्यते ।
भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ॥148॥अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ।
ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ॥149॥सेशतानुपपन्नैव यदि जीवैकतास्य हि ।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥150॥ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।
अनीशत्वेन विज्ञातमीशत्वेनाथवादिशेत् ॥151॥उपजीव्यविरोधेन नैव मानत्वमेष्यति ।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥152॥ईशत्वेनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥153॥अतोन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।
श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत् ॥154॥ईशोनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥155॥इति हि ब्रह्मतर्कोक्तिरतिहेयमतोखिलैः ।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥156॥नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।
यदीशत्वविरोधि स्यात् तदेवायुक्तमञ्जसा ॥157॥ईशत्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।
सिद्धेशत्वेन चायुक्तमपि हीशेन योजयेत् ॥158॥मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् ।
इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ 159॥स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् ।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥160॥अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।
यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि ॥161॥आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ॥162॥ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।स्थानविशेषाधिकरणम्प्रतिबिम्बवदप्येषामानन्दोन्यगुणा यथा ॥163॥नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ।
तस्माद्भिन्नस्य सततं अन्यज्ज्ञानं परस्य च ॥164॥अन्यज्ज्ञानं च जीवानामन्य आनन्द ईशता ।
मुख्येशता परेशस्य गौणी जीवस्य सा यतः ॥165॥इति श्रुतेः ....... ।
॥ पालकत्वाधिकरणम् ॥ ..... सृष्टिनाशौ तदधीनावितीरिते ।
स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ॥166॥यतः स्वभावोप्यखलि ईशायत्तोखलिस्य च ।
॥ अव्यक्ताधिकरणम् ॥ अव्यक्तोपि स्वशक्यैव भक्तानां दृश्यते हरिः ॥167॥॥ उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ॥ तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥168॥विशेषात्मतया तेषां नित्यशक्त्यात्मना तथा ।
नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ॥169॥न विशेषात्मता चेयमनित्या शक्तिरूपता ।
सैव यत्सविशेषा स्याद् विशेषोन्यो न चाप्ययम् ॥170॥स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषता ।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥171॥ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।
श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥172॥भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।
भिन्नश्चेदनवस्था स्यादभिन्नश्चेत् पुरा न किम् ॥173॥विशेषोभिन्न एवेति तेन नाभ्युपगम्यते ।
अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः ॥174॥अनेनानेन भिन्नोयमिति यत्सविशेषतः ।
भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥175॥अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः ।
तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥176॥अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।
भेदोन्योन्यमभेदश्च भेदिना चेद्विशेषिता ॥177॥अविशेषे कथं भेदो भेदिनैकस्तथा भिदा ।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥178॥भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।
अभेदाभेदिनोश्चैव किं भेदोभेदभेदयोः ॥179॥विशेषेणैव सर्वत्र यदि व्यवहृतिभवेत् ।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥180॥ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः ।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥181॥सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनापि हि ।
अङ्गीकार्यो विशेषोयं यद्यसत्यविशेषणम् ॥182॥पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ।
मायाविशेषराहित्यविशेषणविशेषिता ॥183॥सत्यस्यापि भवेत् सा च तथा चेदनवस्थितिः ।
यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा ॥184॥लक्ष्यते चेत् तेन लक्ष्यमित्यपि स्याद्विशेषिता ।
पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः ॥185॥यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ।
असार्वज्ञादिराहित्यमप्येवं ते भविष्यति ॥186॥तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ।
यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ॥187॥असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा ।
अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ॥188॥अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ।
अखण्डखण्डनादेवं विशेषोखण्डवादिना ॥189॥खण्डितेनापि मनसा स्वीकार्योनन्यथागतेः ।
अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ॥190॥महादरेण शिरसि विशेषो धार्य एव हि ।
निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ॥191॥गुणानामादरेणाह तच्च नाभिहितान्वयः ।
यदाशेषविशेषाणामुक्तिः सामान्यतो भवेत् ॥192॥पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ।
यतोशेषविशेषाणां वस्तुनास्त्येव चैकता ॥193॥अतः सामान्यतो ज्ञातः पदान्तरबलात् पुनः ।
भवेत् विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता ॥194॥स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः ।
अनेनेति तदुक्त्यैव ज्ञायतेनुभवेन हि ॥195॥यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।
तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥196॥व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात्‌।
पुमानप्येकवारोक्त्या कृतकृत्यो यदा भवेत् ॥197॥अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य च ।
यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ॥198॥अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोन्वयः ।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥199॥तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ।
अपूर्तेस्तावदर्थानामकाङ्क्षा पूर्वमिष्यते ॥200॥कर्मकर्तृक्रियाणां तु पूर्वो कोन्योन्वयो भवेत् ।
अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते ॥201॥व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः ।
उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ॥202॥बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।
पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥203॥पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते ।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ॥204॥यततां शब्दशक्तिश्चेत् तत्र नैवान्वये कथम् ।
तत्कल्पनागुरुत्वादिदोषेतोभिहितान्वयः ॥205॥अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ।
कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ॥206॥विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ।
गुणक्रियादिधर्माणां विशेषे कथिते पुनः ॥207॥निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ।
अतोनन्तगुणात्मैको भगवानेक एव तु ॥208॥उच्यते सर्ववेदैश्च ........ ।
॥ परानन्दाधिकरणम् ॥ .... ते चाखलिवलिक्षणाः ।
सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ॥209॥तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोपि च ।
तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ॥210॥अन्यानन्दादिसादृश्यमानुकूल्यादि नापरम् ।
पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ॥211॥पूर्णोशेषनियन्ता च सुस्वादुतम एकलः ।
गुणोरुसमुदायोयं वासुदेवः सुनिष्कलः ॥212॥वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ।स्थानविशेषाधिकरणम्स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ।
कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ॥214॥न ते विशेषं कमपि प्रेरणादिकमुच्यते ।
कुर्युः कदापि तेनायं स्वतन्त्रोनुपचारतः ॥215॥कर्माणि तानि च पृथक् चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्जि च ॥216॥प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।
तानि चैवमितीशस्य निःसीमा शक्तिरुत्तमा ॥217॥एकैव ब्रह्महत्या हि वराहहरिणोदिता ।
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥218॥स्तोत्रस्य तस्य माहात्म्यात् व्याधत्वं गमिता पुनः ।
प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वशः ॥219॥अनन्तान्युदितान्येवं प्रभुणा कपलिन हि ।
संसारे पच्मानानि कर्माण्यपि पृथक् पृथक् ॥220॥तस्मादनन्तमाहात्म्यगुणपूर्णो जनार्दनः ।
भक्त्या परमयाराध्य इति पादार्थ ईयते ॥221॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥तृतीयः पादःवैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेत् विष्णोरिति पादक्रमो भवेत् ॥1॥युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।
परस्परविरोधे च प्रणुद्याशेषवाक्यगम् ॥2॥अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः ॥3॥विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥4॥देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतोधिकम् ॥5॥निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥6॥सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥7॥कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।
अत इत्युदितेप्यस्य विशेषानुक्तितः पुनः ॥8॥सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ॥9॥इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ।
येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ॥10॥सुप्रसन्नो भवेदीशो जिज्ञासातोस्य मुक्तिदा ।
मोक्षादिदत्वमीशस्य कथमेवावगम्यते ॥11॥इति चेच्छास्त्रयोनित्वात् शास्त्रगम्यो हि मोक्षदः ।
प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ॥12॥किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ।
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ॥13॥धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ।
अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि ॥14॥दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ।
तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥15॥शास्त्रगम्यश्च नान्योस्ति मोक्षदत्वेन केशवात् ।
मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ॥16॥वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ॥17॥तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः ।
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ॥18॥यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥19॥य एनं विदुरमृता इत्युक्तस्तु समुद्रगः ।
तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥20॥यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः ।
शास्त्रयोनिर्न चान्योस्ति मुख्यतस्त्विति गम्यते ॥21॥शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।
समिति ह्युपसर्गेन परमुख्यार्थतोच्यते ॥22॥एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥23॥कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्ताम् ॥24॥अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ।
उत्तारणोपमेत्यस्मान्न ज्ञेयात्र समन्वयः ॥25॥इत्याशङ्कापनोदार्थं स आह करुणाकरः ।
अशक्योत्तारणत्वेपि ह्यागमापारवारिधेः ॥26॥निर्णीयते मयैवायं रोमकूपलयोदिना ।
यद्यप्यशेषवेदार्थो दुर्गमोखलिमानवैः ॥27॥मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ।
इति प्रकाशयन् वेदपतिराह प्रमेयताम् ॥28॥निखलिस्यापि वेदस्य गतिसामान्यमञ्जसा ।
को नाम गतिसामान्यमनन्तागमसम्पदः ॥29॥ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् ।
अन्योप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ॥30॥जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः ।
इति मुख्यतयाशेषगतिसामान्यवित् प्रभुः ॥31॥प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ।
अतो निखलिवेदानां सिद्ध एव समन्वयः ॥32॥इति सुज्ञापितार्थोपि पृथक् चाह समन्वयम् ।
तत्र प्रथमतोन्यत्र प्रसिद्धानां समन्वयः ॥33॥शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ।
इतोत्यभ्यधिकत्वेपि तुर्यपादोदितस्य तु ॥34॥महासमन्वये तस्मिन्नाधिकारोखलिस्य हि ।
ब्रह्मैवाधिकृतस्तत्र मुख्यतोपि यथाक्रमम् ॥35॥दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोञ्जसा ।
अतोन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ॥36॥प्रवृत्तः प्रथमं देवः तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥37॥देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥38॥अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुरेवमन्येप्यशेषतः ॥39॥इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥40॥तेषामन्यगतत्वे तु न स्यात् सम्यक्समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥41॥आह उभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥42॥शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥43॥शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥44॥यतोतो यदधीनास्ते शब्दार्थत्वमुपागतः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥45॥अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥46॥इत्याह एवं च शब्दानां नारायणसमन्वये ।
सिद्धेप्यशेषशब्दानां न कथञ्चन युज्यते ॥47॥विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥48॥परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सोपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥49॥अन्योवरत्वानुभवी तयोः पूर्वोस्ति केशवे ।
द्वितीयो जीव एवास्ति स्वातन्त्र्यान्न तु दूषणम् ॥50॥हरेरेवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ॥51॥अतोशेषविरोधानां कृतेशेन निराकृतिः ।
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥52॥किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ।
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ॥53॥उक्तायां भक्तिदार्ढ्याय प्रोक्तेशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥54॥सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥55॥तथोभयात्मकं चैव पादेस्मिन् बादरायणः ।
आहोपासनमद्धैव विस्तरात् श्रुतिपूर्वकम् ॥56॥पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥57॥विभ्रमोपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गोदूरसंश्रयः ॥58॥विशिष्टकारणं चेष्टां दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥59॥पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ॥60॥अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥61॥युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥62॥फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥63॥कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥64॥संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥65॥सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥66॥अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥सर्ववेदान्तप्रत्ययाधिकरणम्यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् ।
तत्राखलिस्य विज्ञप्तिः सम्यग्ब्रह्मणः एव हि ॥68॥तदन्येषां यथायोगमखलिज्ञप्तिरिष्यते ।
तावतोपासने योग्यो भवेदेवाखलिः पुमान् ॥69॥महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥70॥किन्तु निश्चलया भक्त्या ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः ॥71॥इत्यादिवाक्यसन्दर्भाद्यथायोग्याखलिज्ञता ।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणम् ॥72॥वेदः कृत्स्नोधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥73॥अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं तथाप्यावस्तुनिर्णयात् ॥74॥श्रवणं मननं चैव कर्तव्यं सर्वदैव हि ।
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ॥75॥वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ।
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ॥76॥विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ।
यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ॥77॥सत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत् ।
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ॥78॥अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत् ।
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ॥79॥शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ।
महद्भ्यो विष्णुभक्तेभ्यो यथाशक्ति च संशयम् ॥80॥छिन्द्यात् स्वतोधिकाभावे स्वयमेव समभ्यसेत् ।
ब्रूयादपि च शिष्येभ्यः सत्सिद्धान्तमहापयन् ॥81॥अशेषगुणपूर्णत्वं सर्वदोषसमुज्झितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥82॥स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।
अदोषत्वस्य सिद्ध्यर्थं यदभेदे तदन्वयः ॥83॥तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।
मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ॥84॥गच्छद्दृष्टं क्वचित् तस्याप्यभावोनुभवोपगः ।
पूर्वाभेदे दोषवत्त्वमीशस्येत्यातिभिन्नता ॥85॥नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।
भेदाभेदेप्यभेदेन दोषाणामपि सम्भवः ॥86॥निर्दोषत्वं रमायाश्च तदनन्तरता तथा ।
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः ॥87॥शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ।
सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ॥88॥एतद्विरोधे यत्सर्वं तमसेन्धाय केवलम् ।
अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ॥89॥इत्येव श्रुतयोशेषाः पञ्चरात्रमथाखलिम् ।
मूलरामायणं चैव भारतं स्मृतयोखिलाः ॥90॥वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि ।
ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ॥91॥अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः ।
प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ॥92॥मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ।
अन्यावकाशरहितं प्रकाशयति सादरम् ॥93॥एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ।
सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ॥94॥असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ।
सम्यग्विषमविज्ञानतारतम्यानुसारतः ॥95॥फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम् ।
सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम् ॥96॥अतो यथात्मशक्त्यैव श्रवणं मननं तथा ।उपसंहाराधिकरणम्कृत्वाथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥97॥नवाधिकरणम्विषयेषु च संसर्गात् शाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते ॥98॥इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥99॥दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते ॥100॥सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ॥101॥स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुद्ध्यते ।
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ॥102॥तारतम्येन कर्तव्या पुरुषार्थमभीप्सता ।
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ॥103॥ततोधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।
कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ॥104॥न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत् ।
समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया ॥105॥कायैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ।
तत्तमोन्धं व्रजेत् विष्णुसमत्वं योनुपश्यति ॥106॥रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।
किमुताधिक्यदृष्टेस्तु गुणाभावमतेरपि ॥107॥दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।
इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतः ॥108॥उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ।
द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत् ॥109॥रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥110॥हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोपि च ॥111॥इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते ।
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ॥112॥विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः ।
यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् ॥113॥तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।
निन्दां भगवतः शृण्वन् तत्परस्य जनस्य वा ॥114॥ततो नापैति यः सोपि यात्यधः सुकृताच्च्युतः ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥115॥परं भावमजानन्तो मम भूतमहेश्वरम् ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥116॥राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः ॥117॥तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥118॥आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥119॥यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद् द्वेष्यः आलोकान्तस्य कस्यचित् ॥120॥यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ॥121॥इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।
॥ विद्याधिकरणम् ॥
नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥122॥भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ।
इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ॥123॥न हि प्रत्यक्षमानेन मोक्षाभावोवसीयते ।
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ॥124॥नेति वक्तुमर्हत्त्वं तु कथञ्चन न विद्यते ।
साधयन् सर्वसामान्यं कथमेव विशेषवान् ॥125॥दृश्यन्ते पुरुषा लोके परापरविदोपि च ।
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ॥126॥प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ।
ज्ञानविज्ञानपारज्ञा निषिध्यन्ते कथं नृभिः ॥127॥दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ।
यदि तेपि निषिद्ध्यन्ते किं नोक्तिस्ते निषिद्ध्यते ॥128॥यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ।
वरादयोपि तद्दत्ताः सदा सत्या भवन्ति हि ॥129॥अप्रामाण्यं तदुक्तेश्च वृथा वाचावसीयते ।
न हि प्रयोजनं किञ्चित् परलोकनिवारणात् ॥130॥वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥131॥प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः ॥132॥यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् ॥133॥अतः प्रत्यक्षगम्यत्वाद् वेदमात्वस्य च स्फुटम् ।
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ॥134॥यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।
लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्ध्यति ॥135॥अस्ति मोक्षोपि धर्मेण यथार्थज्ञानतोपि च ।
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥136॥तद्वाक्याद् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।
धर्मोहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥137॥इति जैनाः कथं तत्स्यात् प्रमाणमनुमानतः ।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ॥138॥प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता ।
आसमन्ताद् गमयति धर्माधर्मौ परं पदम् ॥139॥यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः ।
एतेन कारणेनैव तत्तन्मानत्वमिष्यते ॥140॥स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः ।
अतोनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ॥141॥स्वरूपे पुद्गलस्योक्ता दोषा आनन्दमेव च ।
न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥142॥मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।
सुखस्याभावता केन न च स्यात् किं विपर्ययः ॥143॥यदि भावेपि कश्चित् स्यात् तस्यैवाभावता कुतः ।
यदि सर्वेप्यभावाः स्युरन्योन्यमिति भावना ॥144॥अभावाभावतैव स्यात् किं नश्छिन्नं तदा भवेत् ।
भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥145॥निषेधस्य निषेधोपि भाव एव बलाद्भवेत् ।
प्रथमप्रतिपत्तिस्तु भावाभावनियामिका ॥146॥न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।
अस्वातन्त्र्यात् पुद्गलस्य ज्ञातोपि सुखदो न हि ॥147॥न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ।
यदि पुद्गलविज्ञानाद् दुःखी स्यात् कथञ्चन ॥148॥देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ।
ईशक्लृप्त्यनुसारेण स्यात् कालादीशवादिनः ॥149॥कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित् ।
अशेषदुःखवलिये नेदानीं कारणं यथा ॥150॥तथोत्तरं च नैव स्यात् दृष्टिपूर्वानुमा यतः ।
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ॥151॥तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ।
स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ॥152॥अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।
हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम् ॥153॥धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।
हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥154॥न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेत् यदीदानीं कथं न सः ॥155॥परप्रसादनेच्छोस्तु वलिम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद्वलिम्बः किं कृतो भवेत् ॥156॥अन्यत्रापि वलिम्बास्तु स्युरीशेच्छानिमित्ततः ।
अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते ॥157॥कारणे सति कार्यस्य भावः सुनियतोस्य हि ।
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ॥158॥विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ।
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ॥159॥भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ।
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ॥160॥इति साङ्ख्या न चैतस्मिन् मानमीशाप्रसादतः ।
श्रुतयः स्मृतयश्चैव यदेशस्य प्रसादतः ॥161॥वदन्ति नियमान्मुक्तिं तमृतेतः कुतो भवेत् ।
कणादयोगक्षपादा अपीशस्य प्रसादतः ॥162॥मुक्तिं ब्रुवाणा अप्याहुः भोगादेव च कर्मणाम् ।
क्षयं प्राहुः कुतश्चेत् प्रसन्ने जगदीश्वरे ॥163॥भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥164॥भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट आत्मनीश्वरे ॥165॥इति श्रुतिपुराणादिवचनेभ्योन्यथागतेः ।
न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ॥166॥नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ।
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि ॥167॥एवं पुरुषशब्दश्च प्रयुक्तोब्धिशये हरौ ।
न तस्यैशे कश्चन तस्य नाम महद्यशः ॥168॥इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ।
विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ॥169॥इति सर्वाधिकत्वोक्त्या समोपि विनिवारितः ।
समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥170॥पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥171॥मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।
अमृतेशानवचनात् सर्वस्येशानतोदिता ॥172॥यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥173॥पुरुषेणैवेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।
एतावानस्य महिमेति महिम्नो वचो हि यत् ॥174॥सोमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥175॥उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।
अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः ॥176॥तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ।
यथैधांसि समिद्धोग्निर्भस्मसात् कुरुतेर्जुन ॥177॥ज्ञानाग्निः सर्वकर्माणि भस्मासात् कुरुते तथा ।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ॥178॥अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥179॥नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् ।
मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ॥180॥विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ।
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ॥181॥नान्यः पन्था इति ह्येव निवारयति सादरम् ।
अन्यथोपासनमपि तमेवमिति वादिनी ॥182॥निवारयत्यादरेण न प्रतीक इति प्रभुः ।
अन्धंतमः प्रविशन्ति ये त्वविद्यामुपासते ॥183॥इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ।
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ॥184॥इति सर्वं प्रविज्ञाय सर्वैस्तर्कैः सदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः ॥185॥ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥186॥॥ यावदधिकाराधिकरणम् ॥
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥187॥न तावता विरोधोस्ति निर्दोषत्वात् समस्तशः ।
आभासत्वात् परेषां तदवराणां च सर्वशः ॥188॥यतोवराणां सर्वेपि गुणाः सर्वाः क्रियाः अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ॥189॥अतः सच्छिष्यवत् तेषां नैवेर्ष्यादिः कथञ्चन ।
न च संसारिदेवानां कालेयत्तापरे इमे ॥190॥सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।
अनारब्धस्य भोगेन त्वितरे इति चोदिताः ॥191॥पौनरुक्त्येन तेनैते उक्तार्थे इति निश्चयः ।
॥ इयदामननाधिकरणम् ॥
उषाः स्वाहा च पर्जन्यो मित्रोग्निर्वरुणो विधुः ॥192॥प्रवहोनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सवैश्च मुक्तिगाः ॥193॥सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥194॥सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।
पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥195॥धार्मी च मित्रवत्त्वेव प्रावही परिकीर्तिता ।
मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥196॥भृगुरग्निसमो मित्रस्तन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥197॥कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।
निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥198॥वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ॥199॥तद्वच्च विप्रराजन्यविशेषोत्रापि कश्चन ।
तद्वत् प्रियव्रतश्चापि तदन्याः शतदेवताः ॥200॥पर्जन्यमित्रान्तराले तदन्ये तु ततोवराः ।
एतेभ्योभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ॥201॥तत्समो नास्ति परमो हरिरेव न चापरः ।
संहितायां बृहत्यां तु स्वयं भगवतोदितम् ॥202॥तदेतदखिलं प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो ..... ॥ ॥ दर्शनभेदाधिकरणम् ॥ ..... दृष्टिरिति योग्यानुसारतः ॥203॥॥ प्रदानाधिकरणम् ॥ सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।
॥ गुरुप्रसादाधिकरणम् ॥ श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥204॥॥ पूर्वविकल्पाधिकरणम् ॥ गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् ।
विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता ॥205॥समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा ।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥206॥गुरुबर्‌रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥207॥तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः ॥208॥उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।
॥ ताद्विद्याधिकरणम् ॥ साधनेभ्योधिका भक्तिर्नैवान्यत् तादृशं क्वचित् ॥209॥भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ।
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ॥210॥अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥211॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥चतुर्थः पादःएवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।
अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥1॥देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।
जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥2॥सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः ।
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥कामचाराधिकरणम्विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् ।
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥देवानामपि न प्रायः क्लृप्तस्य तु कथञ्चन ।
प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा ॥5॥तथापि तत्क्लृप्तमेव तस्मान्न नियमोज्झितिः ।
चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ॥6॥प्राप्ताहानिरभून्नैव क्लृप्तहानिः कथञ्चन ।
ह्रासोपि मानुषादीनामानन्दस्य विकर्मणा ॥7॥भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ।
ज्ञानोत्तरस्य पापस्य चतुर्थेलेप उच्यते ॥8॥अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥9॥प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ॥10॥उपमर्द इह प्रोक्तः देवादीनां यथाक्रमम् ।
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ॥11॥न ब्रह्मदर्शिनोपि स्यात् फलह्रासस्तु विद्यते ।
सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ॥12॥स्यात् काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् ।
एवमाद्यपि सम्प्रोक्ते तन्त्रभागवते स्फुटम् ॥13॥तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः ।
अवृजिनोकामहत इति मुक्तिं निगद्य च ॥14॥आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक् ।
संसार एव चेदेतत् तारतम्यं न मुख्यतः ॥15॥अकामहतशब्दार्थोवृजिनत्वं च नो भवेत् ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥16॥इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ।
कामाहतिः कुतोन्यत्र प्राप्तकामस्य सा भवेत् ॥17॥अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।
तदैवाकामहतता कुत एवान्यथा भवेत् ॥18॥चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ।
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥19॥यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः ।
अवशोपि व्याहरति कुतः सुप्तावकामता ॥20॥सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।
पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुयात् ॥21॥कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् ।
आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥22॥अकामः स्यात् कथं मुक्तः कामा येस्य हृदि श्रिताः ।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ॥23॥आह श्रुतिर्हृदीत्येव न चेद् व्यर्थं विशेषणम् ।
हृद्येव तेषां श्रयणमिति पक्षो न भासते ॥24॥मुक्तानां कामितामाह पृथक् शाखासु यच्छ्रुतिः ।
अतोकामहतत्वं तु मुक्तानामेव मुख्यतः ॥25॥मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ।
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ॥26॥अप्रियं वृजिनं दुःखमकं तोद इतीर्यते ।
तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ॥27॥इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ।
अपापत्वं च नैवास्ति यावत् संसारमस्य हि ॥28॥आरब्धपापमस्त्येव दुःखं च ज्ञानिनोपि हि ।
तस्मात् तस्मादकामत्वमिति चाश्रुतकल्पना ॥29॥अकामहत इत्युक्ते श्रुतहानिरपि स्फुटा ।
कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित् क्वचित् ॥30॥इन्द्रादिसुखभोगोस्तीत्यनुभूतिर्हि कुप्यति ।
तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ॥31॥उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।
आहेति पेशलं तच्च चशब्दादेव गम्यते ॥32॥राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥33॥यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥34॥निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इति गीयते ।
स्थितस्यानन्यथाप्राप्तेर्द्रढिष्ठ इति चोदितः ॥35॥बलिष्ठस्य स्वभावेन मुक्तो भवति केवलम् ।
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥36॥स एक इति संसारगतमुक्त्वा सुखं पुनः ।
श्रोत्रियस्येति वदति मुक्ताञ्छतगुणात्मताम् ॥37॥संसारगाच्च संसारगतस्यैव शताधिकम् ।
मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षतः ॥38॥युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु ।
नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः ॥39॥यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ।
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ॥40॥दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा ।
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ॥41॥दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥42॥शक्रेण वर्षकोटीश्च धूमः पीतोतिदुःखतः ।
वर्षायुतं च सूर्येण तपोवाक्शिरसा कृतम् ॥43॥सुदुःखेन सुखं त्यक्त्वा धर्मेमाकाशशायिना ।
पीता मरीचयो वर्षसाहस्रमतिसादरम् ॥44॥अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोपि च ।
इत्येतदखिलं मोक्षे विशेषाभावतः कथम् ॥45॥दैवी सम्द्विमोक्षाय निबन्धायासुरी मता ।
इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥46॥तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥47॥अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥48॥इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।
व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥49॥दुःखाद्यभावसाम्यं च साम्यवाक्यर्थ ईयते ।
भक्त्यादिगुणसद्भावे ह्यतुल्यत्वं च भारते ॥50॥उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते ।
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ॥51॥दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ।
नित्ययुक्तैर्महाभागैविमोहक्लेशसाध्वसैः ॥52॥महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ।
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ॥53॥शौचस्वाध्यायसन्तोषतपःसत्यदायन्वितैः ।
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ॥ अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ॥54॥कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ॥55॥मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥56॥इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥57॥यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।
ब्रह्मापि यं वेत्ति न वेद सम्यक् अन्ये कुतो देवमुनीन्द्रमर्त्याः ॥58॥नमस्तेमिततत्त्वाय ब्रह्मादीनां च सूतये ।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ॥59॥नाहं परायुर्ऋषयो न मरीचिमुख्याः जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः ।
यन्मायया मुषितचेतसा ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥60॥अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोग्निरीशः पवनोर्को विरिञ्चः ।
आदित्यविश्वे वसवोथ साध्यामरुद्गणा रुद्रगणाः ससिद्धाः ॥61॥अन्ये च ये विश्वसृजोमरेशाभृग्वादयोस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोन्ये ॥62॥सर्वस्यादौ स्मृतौ ब्रह्मा तस्माद् देवादनन्तरः ।
जातानि देवप्रवरं भूयश्चातोधिकं नृप ॥63॥न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यति ॥64॥यथा भक्तिविशेषोत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोपि ज्ञानिनां लिङ्गेभेदने ॥65॥सायुज्यं समनुप्राप्ताः अपि देवादयोखिलाः ।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने ॥66॥मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः ॥67॥य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68॥न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥69॥अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥70॥श्रद्धावाननसूयश्च श?ृणुयादपि यो नरः ।
सोपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥71॥ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सङ्ख्येन योगेन कर्मयोगेन चापरे ॥72॥अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्यः उपासते ।
तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥73॥सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।
स्वात्मानं भगवान् विष्णुः सर्वरूपोपि सर्वदा ॥74॥सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।
सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥75॥न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोधिकम् ।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥76॥ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोधिकम् ।
न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥77॥मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापि तु ।
न रमावद्विशेषाणां दर्शनं शक्नुयात् क्वचित् ॥78॥स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।
पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ॥79॥त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम् ।
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ॥80॥पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ।
उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ॥81॥रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन ।
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ॥82॥जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ।
पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ॥83॥पश्यन्ति सोमसूर्यौ तु मनःस्थं परमेश्वरम् ।
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ॥84॥बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित् क्वचित् ।
अन्ये चैव यथायोग्यमण्डान्तर्वतिनं हरिम् ॥85॥श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।
कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम् ॥86॥उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु ।
विशेषान् वासुदेवस्य पश्चादुक्तान् विवक्षते ॥87॥शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् ।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ॥88॥इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।
तारतम्यं च मुक्तानां साधनानां च दृश्यते ॥89॥साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते ।
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ॥90॥सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ।
तारतम्यात् साधनानां साध्यतादृक्त्वमीशतः ॥91॥अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे ।
स्वातन्त्र्ये विद्यमानेपि साधनादौ परेशितुः ॥92॥अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः ।
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥93॥अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।
मया कया विरुद्धा स्यात् राजादावपि दृश्यते ॥94॥त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।
मायिभ्योन्येन केनापि तत्किमन्यैश्च वादिभिः ॥95॥मायिनोत्रनुगम्यन्ते श्रुतहान्यश्रुतग्रहौ ।
अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोधिकाः ॥96॥निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥97॥भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।
तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ॥98॥दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ॥99॥यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ।
अदर्शनादरत्यादिः कथं तेन निवार्यते ॥100॥ब्रह्मणोप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ ।
नैव रेमे स चैकाकी तस्मान्न रमते क्वचित् ॥101॥द्वितीयमैच्छत् तेनासाविति श्रुतय ऊदिरे ।
यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा ॥102॥श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ।
तारतम्यं च कामं च श्रुतमेवातिहाय तु ॥103॥अश्रुता समता केन कल्प्यते युक्तिमानिना ।
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ॥104॥वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे ।
मोक्षेपि तारतम्येतश्चेतनत्वात् पुरा यथा ॥105॥इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः ।
न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् ॥106॥शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ।
येनानन्द्येव भवति न शोचति कदाचन ॥107॥किल्बिषस्पृगित्यतुषणिररं हितं इहेश्वरः ।
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ॥108॥इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ।
अतो दुःखाद्यनुमया नावकाशोत्र लभ्यते ॥109॥तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ।
श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ॥110॥मुक्तावपि ततः केत्र विरोधं कर्तुमीशते ।सन्ध्याधिकरणम्अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥को निवारयितुं शक्तो युक्त्यागमबलोद्धताम् ।
ब्रह्मणोन्यत आधिक्ययुक्तः कालो विवादवान् ॥112॥कालो ह्ययं यथेत्यादि मानुमा मानिनो भवेत् ।
अन्यशब्दो हरिश्रीस्वसमेभ्योन्यविवक्षया ॥113॥प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः ।
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ॥114॥व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च ।
बलज्ञानाधिकत्वं च तेभ्योपि ब्रह्मणो सदा ॥
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥115॥शृण्वे वीर उग्रमुग्रं दमायन् अन्यमन्यमतिनेनीयमानः ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥116॥परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥117॥दिवे दिवे सदृशीसन्यमर्धं कृष्णा असेधदप सद्मनोजाः ।
अहं दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥118॥तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥119॥तद्यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां भूतानाम् ॥120॥प्रयान्ति परमां सिद्धिमैहिकीमुष्मकीं द्रुतम् ।
या न प्राप्यासुरैः सर्वैरक्षय्या क्लेशवर्जिता ॥121॥न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥122॥परं भावमजानन्तो मम भूतमहेश्वरम् ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥123॥राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ॥124॥भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ॥125॥दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ॥126॥दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ॥127॥भवन्ति सम्पदं दैवीमभिजातस्य भारत ।
दम्भो दर्पोभिमानश्च क्रोधः पारुष्यमेव च ॥128॥अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ।
मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः ॥129॥तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥130॥आसुरीं योनिमापन्नाः मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥131॥द्विविधो भूतसर्गोत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥132॥देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥133॥दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया ।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥134॥वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥135॥अनादिवैष्णवा एव देवतास्तु स्वभावतः ।
विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥136॥मानुषा मिश्रमतयो विमिश्रगतयोपि च ।
इत्यादिवाक्यसन्दभैर्ज्ञायतेनादियोग्यता ॥137॥यद्यनादिविशेषो न साम्प्रतं कथमेव सः ।
अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः ॥138॥आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।
सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ॥139॥अदृष्टाच्चेद्विशेषोयमनादित्वं कुतो न तत् ।
न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ॥140॥दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ।
बहुत्वं च विशेषेण न भेदेन कथञ्चन ॥141॥प्रत्यभिज्ञा च येषां न तेपि तन्मुष्टदृष्टयः ।
भेदं नैव प्रपश्यन्ति भेदमन्येभ्यः एव च ॥142॥पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ।
एवं बृहत्संहितायां वचनं न पुराणगम् ॥143॥लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ।
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ॥144॥निषेद्धुं शक्नुयात् क्वापि देवदत्तादिदृष्टिवत् ।
न च निश्चितभेदस्य दर्शनेस्ति पुराणगम् ॥145॥वाक्यं कश्चिद्धि संमुग्धं दर्शनं तत्र गम्यते ।
अपरीक्षितमेवात्र वेधिकमधीशितुः ॥146॥परीक्षादर्शने नैव दृश्यते केनचित् क्वचित् ।
निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ॥147॥निर्दोषमेव रुद्रोद्राङ्निर्दोषं तं पुरन्दरः ।
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ॥148॥अन्ये सदोषाः सर्वेपि निर्दोषो हरिरेकलः ।
इति बर्कश्रुतेश्चैव सदोषं नास्य दर्शनम् ॥149॥अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ॥150॥इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ।
अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ॥151॥परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् ।
इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥152॥न परीक्षानवस्था स्यात् साक्षिसिद्धे त्वसंशयात् ।
मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ॥153॥सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।
इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ॥154॥साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् ।
यत्क्वचिद् व्यभिचारि स्याद्दर्शनं मानसं हि तत् ॥155॥मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रामाण्यं सुगृहीतं स्यात् तत्परीक्षितदर्शनम् ॥156॥न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ।
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥157॥स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥158॥दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥159॥अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥160॥न हि कश्चित् सुखाद्येषु संशयं कुरुते जनः ।
न चैवाखलिमानानि निश्चिनोत्यखलि जनः ॥161॥तस्मादनुभवारूढं किमर्थमपलप्यते ।
दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥162॥तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥163॥तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥164॥लौकिकव्यवहारेत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ॥165॥आगमेन हि विष्णुत्वं ज्ञात्वा दोषोत्र कल्प्यते ।
न चेत् स्याद्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥166॥कस्यचिद्दोषवत्वं स्यादितिमात्रेक्षजं भवेत् ।
न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥167॥केचित् पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम् ।
पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्ध्यते ॥168॥पुराणस्योपजीव्यश्च वेद एव न चापरः ।
तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥169॥अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ।
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥170॥यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।
दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ॥171॥भ्रमेप्यभ्रमभागोस्ति तन्मात्रमुपजीव्य हि ।
बाधकज्ञानवृत्तिः स्यान्न चैवं सुपरीक्षिते ॥172॥सर्वं तदुपजीव्य प्रमाणं वर्तते यतः ।
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादलिक्षणम् ॥173॥विहाय यस्मात् कस्माच्चित् स्वरूपस्यैव चेद्यदि ।
उपजीव्यत्वमेतस्मात् व्यावृत्तं यावता भवेत् ॥174॥तावतैवोपजीव्यत्वं स्वरूपस्यैव न क्वचित् ।
सर्वलक्षणयुक्तं च स्वरूपं यदि भण्यते ॥175॥अस्तु नो नैव हानिः स्यात् स्वपक्षश्चायमञ्जसा ।
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ॥176॥विशेषसामान्यतया स्वरूपमखिलं भवेत् ।
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ॥177॥व्यावर्तयन्ति तद्रूपं चैवमात्राद्विनैव हि ।
ब्रह्मणो निर्विशेषत्वात् व्यावर्तयति किं पुनः ॥178॥यस्मात् कस्माच्चिदप्यर्थात्तावच्चेत् सिद्धसाधनम् ।
चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः ॥179॥तावन्मात्रं यदीष्टं स्यात् सर्वज्ञत्वं कुतो न तत् ।
चिन्मात्राभेदसाध्येपि सिद्धं तत्प्रतिवादिनः ॥180॥स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् ।
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ॥181॥इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् ।
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ॥182॥स्वशब्दोपि परापेक्षस्तस्मात् व्यावृत्तिरेव हि ।
स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥183॥रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः ।
न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वरवस्य यत् ॥184॥चेतनस्य स्वभावो हि चैतन्यमिति गीयते ।
तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥185॥न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ।
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा ॥186॥ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः ।
हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः ॥187॥नित्यत्वात् तादृशं च स्यादिति चेन्नित्यवागिति ।
वाक्यवक्तृविहीना स्यान्न हि सा चैव तादृशी ॥188॥द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ।
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥189॥न हि वक्तृविहीना च वाच्यहीनापि वाक् क्वचित् ।
ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत् ॥190॥न हि नित्योपि वक्तास्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञोप्येवं नैव विद्यते ॥191॥किञ्च सर्ववलिपश्च केन मानेन गम्यते ।
सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ॥192॥तदभावे न सर्वस्य नापलापो भवेत् तदा ।
न गृह्यते चेत् तन्न्यायादपलापो न हि क्वचित् ॥193॥उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ।
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ॥194॥श्रुत्यादौ पूर्वपूर्व च ब्रह्मतर्कविनिर्णयात् ।
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ॥195॥विरुध्यन्ते न चार्थोस्ति यत्र लिङ्गविरोधिता ।
स एवार्थः कथं ग्राह्य उपपन्नेविरोधिनी ॥196॥मुख्यार्थे विद्यमाने तु क्व सार्वज्ञं निषिध्यते ।
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि ॥197॥अपलापोपि सर्वस्य न कथञ्चन युज्यते ।
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ॥198॥मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ।
ज्ञानिनोपि यतो नित्यं कुर्वन्ति शुभमेव हि ॥199॥तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ।
तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ॥200॥कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ।
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ॥201॥न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ।
कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥202॥तादृशोपि स्वभावश्चेदज्ञस्यापि भवेत् तथा ।
फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत् ॥203॥निष्कामं ज्ञानपूर्वं च निवृत्तमिति चोच्यते ।
निवृत्ते सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥204॥शुभेनानन्दवृद्धिः स्यात् ह्रासश्चैवाशुभेन हि ।
ज्ञानिनोपि यतस्तेन कर्तव्यं शुभमेव तैः ॥205॥उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि ।
अस्माद्ध्येवात्मनो यद्यत् कामयेत् सृजते च तत् ॥206॥अविद्वान् बहुकर्मापि ह्यन्तवत् फलमाप्नुयात् ।
यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ॥207॥इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ।
न चात्रोपासकस्यैव फलमक्षयमुच्यते ॥208॥न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ।
ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता ॥209॥ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं न चान्यथा ।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥210॥प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ॥211॥ज्ञानात् पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये ।
अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥212॥योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।
ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य कारणम् ॥213॥ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते ।
ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥214॥परोक्षत्वापरोक्षत्वे विशेषो ज्ञानगौ यथा ।
स्नेहयोगोपि तद्वत् स्याद् विशेषो ज्ञानगोपरः ॥215॥इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।
वदन्ति श्रुतयः सोयं विशेषोपि ह्युदीर्यते ॥216॥भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः ।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥217॥चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥218॥मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ॥219॥काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ।
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ॥220॥इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ।
असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः ॥221॥मुक्तिशब्दोपि मोक्षं स्वभक्तानां करोति यत् ।
द्वेषतोपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ॥222॥भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥223॥यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ।
स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् ॥224॥द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ।
यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ॥225॥प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ।
वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ॥226॥बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ।
तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तयैव च ॥227॥विष्णौ विष्णुप्रसादेन वलिमत्वेन चाञ्जसा ।
इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥228॥महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।
याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥229॥वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः ।
सोर्थः कथं परित्यज्य एकशब्दस्य संशये ॥230॥अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥231॥तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ॥232॥ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी ।
भक्त्या प्रसन्नो भगवान् दद्यात् ज्ञानमनाकुलम् ॥233॥तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ।
नाहं वेदैर्न तपसा न दानेन न चेज्यया ॥234॥शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।
भक्त्या त्वनन्यया शक्य अहमेवविधोर्जुन ॥235॥ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।
इत्यादिवाक्यतश्चैव सोयमुक्तार्थ ईयते ॥236॥न च प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात् ।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥237॥ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् ।
त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ॥238॥अन्यद्दृष्टानुसारेण वासुदेवेपि गृह्यते ।
दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥239॥अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः ।
एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ॥240॥तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।
कर्तव्यैषापि तद्भक्तिर्लोकवेदानुसारतः ॥241॥यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान् ।
दृश्यतेसौ नियमतो विपरीतो विपर्यये ॥242॥व्यभिचारो यदि क्वापि भक्तिह्रासोत्र कल्प्यते ।
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥243॥तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।
विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा ॥244॥स्वप्रीत्यनुसृतौ प्रीतिर्लोकेप्यद्धैव दृश्यते ।
तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥245॥लक्ष्मीविरिञ्चवाणीशगिरीजेन्द्रा गिरां पतिः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥246॥तेषुः भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।
सर्वेपि गुरवश्चैते पुरुषस्य सदैव हि ॥247॥तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।
इति षाड्गुण्यवचनादप्येषोर्थोवसीयते ॥248॥हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥249॥तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि ।
नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः ॥250॥इति प्रवृत्तवचनं साधनस्य विनिर्णये ।
प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ॥251॥हरिद्वेषो न शुभदः सद्द्वेषात्वाद्यथा गुरोः ।
क्रमाद् भक्तिः हरिप्रीतिकारणं तत्प्रियोपगा ॥252॥भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ।
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ॥253॥प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा ।
इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् ॥254॥फलश्रुत्यधिकरणम्स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ।
अशुभं त्वशुभेप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ॥255॥आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ।
पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात् ॥256॥इत्यादिश्रुतयो मानमुक्तेर्थे युक्तयोपराः ।
उपासनाधर्मफलं यतो देहान्तरे स्थितिः ॥257॥वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ।
प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः ॥258॥अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ।
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ॥259॥हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः ।
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ॥260॥सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः ।
देवा एव हि देवानां विशिष्टा विनियामकाः ॥261॥ब्रह्मा त्वखलिदेवानां नराणां च नियामकः ।
अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ॥262॥द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।
देवानामन्यगं चापि तेषु हि ब्रह्मणोधिकम् ॥263॥बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।
लोकेप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥264॥एवं च कलिपूर्वाणामसुराणां महत्फलम् ।
अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥265॥शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।
क्रमेणैव यथाशक्ति यथा चे ये प्रयोजकाः ॥266॥प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।
इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥267॥यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।
शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ॥268॥तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ।
मानुषोत्तममारभ्य देवास्तु निरयं विना ॥269॥असुरास्तु विना मुक्तिं तमोन्धमपि चाप्नुयुः ।
इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥270॥अन्वयाधिकरणम्ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः ।
मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोचनम् ॥271॥तद्गुरुर्द्विगुणं तस्मात् सार्धं तावत् ततोपरे ।
देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ॥272॥ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।
इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ॥273॥युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात् ।
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ॥274॥भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ॥275॥भविता न च मे तस्मादन्यः प्रियतरो भुवि ।
इत्याह भगवानेवमपि पात्रमपेक्ष्यते ॥276॥एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।
ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥277॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ॥चतुर्थाध्यायस्यप्रथमः पादःसमन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।
चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि ।
उपदेशोतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥लिङ्गाल्लातव्यतः पूर्वमृजोबर्‌रह्मत्वतः शतात् ।
शुश्रावोग्रतपाः नाम योग्यो रुद्रपदस्य यः ॥4॥सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा ॥9॥इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते ।
आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥आत्माधिकरणम्आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ।
विष्णुर्नारायणोनन्त इति श्रीपतिरीर्यते ॥11॥इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः ।
ओमात्मा भगवान् विष्णुरात्मानन्दोक्षरः स्वराट् ॥12॥विश्वत्राता नृसिंहोजो नारायण उरुक्रमः ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ॥13॥दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ।
इति भागवते चैव तस्मादात्मा जनार्दनः ॥14॥तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ।
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ॥15॥आदानर्थत्वतस्छायमात्माशब्दः पतिं वदेत् ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥16॥स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥17॥इति सत्तत्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ॥18॥इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।न प्रतीकाधिकरणम्प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनर्थदा ।
योन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ॥20॥किं तेन न कृतं पापं चोरेणात्मापहारिणा ।
योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥21॥किं तेन न कृतं पापं चोरेणात्मापहारिणा ।
योन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ॥22॥किं तेन न कृतं पापं चोरेण ब्रह्महारिणा ।
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ॥23॥चेतनाचेतनं वान्यत् ध्यायेद्यः केशवस्त्विति ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ॥24॥योन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।
अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित् ॥25॥योन्यद्विणुरिति ध्यायेत् विष्णुरन्यदिति स्म वा ।
अन्यथाध्यानदोषेण सोन्धे तमसि मज्जति ॥26॥योन्यद्विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥27॥यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥28॥यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥29॥यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥30॥न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥31॥तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥32॥इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद्यस्मात् मिथ्याज्ञानमनर्थदम् ॥33॥इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा ॥34॥ब्रह्माधिकरणम्ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम् ॥36॥इति प्रकाशिकायां च वचनं विष्णुनेरितम् ।
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ॥37॥आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥38॥यद्यात्मशब्दो जीवेपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ॥39॥आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ॥40॥नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ।
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ॥41॥आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ।
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ॥42॥भेददार्ढ्ये हेतुमाह तात्पर्यं स जगत्पतिः ।
व्यावहारिकभेदश्चेत् क्वासावव्याहारिकः ॥43॥व्यावहारिकमित्येव वचनं व्यावहारिकम् ।
उत नेति विकल्पे तु यदि स्याद् व्यावहारिकम् ॥44॥तस्यापि बाध्यता चेत् स्यात् भेदः स्यात् पारमार्थिकः ।
अव्यवहारिकत्वं चेद्भेदोयं सत्यतां गतः ॥45॥एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥46॥असत्यं नोक्तमित्युक्तं सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्तेसत्यतामपि ॥47॥न स्वप्नेपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥48॥भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
स्ववाचोसत्यता चेत् स्यात् तस्माद्भेदस्य सत्यता ॥49॥तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।
एतस्मादात्मशब्दोयं परमात्माभिधा भवेत् ॥50॥प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।
प्रतीके विष्णुरित्यैव तस्मात् कार्या ह्युपासना ॥51॥न च विष्णुः प्रतीकं यत् तस्मात् नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ॥52॥स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ।
यद्यप्युत्कर्षमात्रेण ह्यतद्भावेप्युपासना ॥53॥उत्कर्ष आत्मनोपि स्याच्चेतनत्वादचेतनात् ।
तस्मादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥54॥उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥55॥अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ।
नीचस्य स्वात्मताध्यानात् कुप्यति ब्रह्म लोकवत् ॥56॥चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ॥57॥पुरतो नरदेवस्य चाण्डालो यदि पूज्यते ।
राजवत् किं न कोपः स्याद्राज्ञो लोकेभिपश्यति ॥58॥राज्ञस्तु पुरतः प्रोक्ते चण्डाले नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्ध्येव कुप्यति ॥59॥अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि ।
अयं राजा त्वमित्युक्ते चण्डालेथ नृपेपि च ॥60॥चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ।
ध्यातेप्येकस्य तद्भावे तद्भावोन्यस्य किं न तत् ॥61॥न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ।
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ॥62॥तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।तदधिगमाधिकरणम्तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ।
करोति तद्द्विषश्चैवं पुण्यनाशोप्यसङ्गता ॥64॥यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्यते ।
पूर्वं स्वर्गादलिब्ध्यर्थं वीयवत्वेन चोदितम् ॥65॥कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ।
ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ॥66॥ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ।
ब्रह्मणां शतकालात् तु पूर्वमारब्धसङ्क्षयः ॥67॥ब्रह्मणस्त्वेव तावत्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥68॥अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ॥69॥इति सत्तत्ववचनं स्वयं भगवतेरितम् ।इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥द्वितीयः पादःदेवानां च मनुष्याणामेतावत्सममेव हि ॥1॥उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।
कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ।
स्रष्टृत्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः ।
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ।
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः ।
जातानां मानुषे लोके देवानां तु कदाचन ॥6॥उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।
अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥क्ष्माम्भोनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥8॥एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥9॥भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥10॥प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः ॥11 ॥इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।
नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः ।
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः ।
सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः ।
महाशुद्धचितित्वेन ततोप्यतिमहाचितिः ॥17॥अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।
नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः ।
तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु केवलम् ॥20॥न तादृशी ब्रह्मणस्तु एवं श्रियो यथा ।
मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।
एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।
ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।
नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते ।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।
अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।
प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् ।
अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।
आगमाननुसारित्वे प्रसङ्गोयं यतस्ततः ॥30॥नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् ।
तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।
सोपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।
चकार सौगतमतं मोहायैव चकार यत् ॥33॥असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।
अतोसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।
अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।
ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा ।
एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥तत्संवृत्यैव भेदोयं चेतनाचेतनात्मकः ।
दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।
न सुखत्वं न दुःखत्वं न विशेषोपि कश्चन ॥39॥निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥अशेषदोषरहितं मनोवाचामगोचरम् ।
मोक्ष इत्युच्यतेसद्भिर्नानासंवृतिदूषितम् ॥41॥संसृत्यवस्था विज्ञेया संवृत्यैव विशिष्यते ।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।
अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥संवृत्त्या यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ।
इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥बहुजीवमताश्चेति माया तेषां तु संवृतिः ।
निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा ॥46॥सच्चित्यसुखादिकं चैव किं कुतोखण्डवादिनः ।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥अनृतादेरपोहं तु स्वयमेव हि मन्यते ।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥प्रामाण्यादि च वेदस्य फलतः सममेव हि ।
अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् ।
दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।
छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।
न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥मायिना शून्यपक्षेपि ज्ञानं जाड्यविरोधि च ।
धर्माः केपि न सन्त्येव को विशेषस्ततस्तयोः ॥55॥एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।
स्वपक्षसाधनेनैव नाभाव इति चोक्तितः ॥56॥आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः ।
यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥कल्पितत्वाद्विशेषाणां मायिनोपि समं हि तत् ।
दृश्यमाने विशेषेपि यदि चेदविशेषता ॥58॥घटाभावोविशेषः स्यात् पाश्चात्यश्चेदनागतः ।
न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः ।
न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी ।
श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ।
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ।
दुःखं दुःखादभिन्नत्वान्मोक्षोपि स्यादसंशयम् ॥63॥भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः ।
हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥एवं विज्ञानवादोपि ज्ञानमात्रविशेषतः ।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ।
कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥एतयानुमया रोधान्न तादृङ्मोक्षरूपता ।
यदि कालोपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् ।
अवस्थात्वादिति ह्येव हेतुः सापि कदेति च ॥68॥पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।
न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् ।
एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥कुपिता कालमाधाय द्वैतमेवोपपादयेत् ।
विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ।
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥निराकृतानि तेषां च समत्वात् पक्षदोषयोः ।
ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ।
मोक्षो न शुद्धविज्ञानसन्तानौ कालगत्वतः ॥74॥प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।
अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः ।
साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च निःसुखम् ॥76॥इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।
तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥महानन्दं च भोगं च नियमेन वदन्ति हि ।
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ।
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।
हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥असुरा नैवमेवं च नैवं चाखलिमानुषाः ।
इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।
धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।
ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।
धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ।
आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।
येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥केन तं च विजानीयादित्यनिष्टं हि सर्वथा ।
नाखलिज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।
प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥न स्वविज्ञानितायां च विरोधः कश्चनेष्यते ।
कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥कथमेव पदं गच्छेद्विरोधोदृष्टबाधनम् ।
सोश्नुते सर्वकामांश्च कामान्नी कामरूप्यथ ॥92॥इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ।
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ॥94॥शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ।
सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ।
तयोश्च दुःखहानाद्धि सुखनाशोधिको भवेत् ॥96॥प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।
यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः ।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।
यदेन्द्रवैरोचनयोबर्‌रह्मास्त्राभ्यां सुतापिताः ॥100 ॥अपि नैवाजहुर्युद्धरसात् ते नारदादयः ।
इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः ।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।
मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥सोनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥परमानन्दमाप्नोति यत्र कामोवसीयते ।
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः ।
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।
इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ।
शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेसनुव्रता यत्र सुरासुरार्चिताः ॥110॥श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥113॥ऋचां त्वः पोषमास्ते पुपुष्मान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ॥114॥कामान्नरूपाचरतीतिपूर्वं श्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति ॥116॥न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् ।
स ब्रह्मणा सहितोशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ।
भुङ्क्ते स देवः पुरुषोत्तमोजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥सेतुः स देवोखलिमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेखिलान् मुक्तिगतोपि भोगान् ॥119॥कालोप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥न चैव मुक्तौ न हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः ।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षेसम्प्राप्तिविरुद्धहेतवः ॥125॥सुशक्यता शश्वदतिप्रसिद्धिर्विवेकविन्यासविचारसञ्ज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च ।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः ।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥नैकस्मिन्नधिकरणम्प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोपि युक्त्या ।
यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोपि ॥130॥महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोपि ।पराधिकरणम्तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥इन्द्रदीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ।
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ॥132॥तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ।
सोमस्तु वारीशयुतोनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ॥133॥सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।
उमागिरीशाविति भारतीराविति स्म वाग्वेदता ब्रवीति ॥134॥अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ।
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ॥135॥ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैति ।
सूर्योग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ॥136॥तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।
इन्द्रप्रवेशस्तु यदोच्यतेत्र तदा ह्युमेत्येव सुपर्णपत्नी ॥137॥उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ।
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ॥138॥विशन्ति ये मनवो राजमुख्या मनुं प्रविश्याथ गता महेन्द्रम् ।
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ॥139॥सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ।
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोपि समेति काले ॥140॥तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ।
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगाश्च तद्देहगताः प्रभुञ्जते ॥141॥आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्टत एव निर्गताः ।
क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥142॥सायुज्यहीनास्तु लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति ततोन्यदापि सायुज्यभाजां भवति प्रवेशः ॥142॥उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च सर्गक्रमतो विपर्ययः ।
मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवद्गिरां प्रभुः ॥143॥लयो यतो मुक्तिरिति सुराणां भोगो विशेषेण च यं वदिष्यति ।
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥144॥बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।
तेजोभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ॥146॥आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेत्र तिष्ठति ।
सर्वेपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोपि ॥147॥भुञ्जन्त एवासत ईशदेहे लयेथ सर्गे बहिरेव यान्ति ।
प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ॥148॥सर्वेनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ।इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ॥तृतीयः पादःउत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥सान्तनिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः ।
विशेषसमप्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥2॥सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ।
उपासते ते पुरतः समाप्नुयुबर्‌रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥प्राप्स्यन्त्यतोन्येपि तमाप्य तस्मात् हरिं गता मुक्तिभाजः परान्ते ॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ॥चतुर्थः पादःअतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥समस्तकार्यं वशिता च विश्वसमभावना युक्तयस्त्वन्यपक्षके ।
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ।
विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥2॥अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥पतिं यदेषामपि विष्णुमाह ह्युतामृतत्त्वस्य पतित्ववाग्घरेः ।
एतेपि चान्याधिपतित्वयुक्ता विष्ण्वन्यचित्वेन यथा पुमांसः ॥4॥प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्टसिद्ध्यै भवतीह निश्चयात् ।
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ॥5॥अनेन देवेन तथामुना च हीष्टे परार्वाक्तनलोकिनामिति ।
फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ॥6॥लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।
सर्वे बिलं देवगणा वहन्तीत्येतच्च नान्यस्य तु युक्तिमेति ॥7॥लोका इतीहापि तु लोकितां वचो लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ॥8॥तद्गास्तु मुक्ता इह लोकशब्दाः अन्योन्यनाया इति पैङ्गिनां श्रुतिः ।
अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ॥9॥लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।
ब्रह्मैव होकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥10॥न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बगे हरौ ।
उक्तं पृथक् तच्च पुरैव यस्मात् भेदोमुनेत्यादि च सम्यगुक्तः ॥11॥त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिलार्थः ।
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥12॥अतो जगद्य्वापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥13॥नमो नमोशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रेनुपाधिप्रियसद्गुणात्मने ॥14॥यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥15॥निःशेषदोषरहित कल्याणाखलिसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥16॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥

चतुर्थोध्यायः
फलं निगद्यतेस्मिन्नध्याये । कर्मनाशाख्यं फƒमस्मिन् पादे । नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उच्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः ।
ॐ आवृत्तिरसकृदुपदेशात् ॐ ।।1।।
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फƒप्राप्तिः । किन्त्वावृत्तिः कर्तव्या । "स य एषोणिमेतदात्म्यमिदं सर्वम्' इत्याद्यसकृदुपदेशात् ।।1।।

ॐ लिङ्गाच्च ॐ ।।2।।
"स तपोतप्यत... पुनरेव वरुणं पितरमुपससाद' इत्याद्यावर्तनिƒङ्गाच्च ।
"नित्यशः श्रवणं चैव मननं ध्यानमेव च । कर्तव्यमेव पुरुषैबर्‌रह्मदर्शनमिच्छुभिः ।।' इति बृहत्तन्त्रे ।।2।।
।। इति आवृत्यधिकरणम् ।।1।।

ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ।।3।।
आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव । "नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति' इति ह्युपगच्छन्ति । "आत्मेत्येवोपास्स्व आत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येवैष भवति' इति ग्राहयन्ति च ।
आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः । नानाक्लेशसमायुक्तोप्येतावन्नैव विस्मरेत् ।। इति भविष्यत्पर्वणि ।।
आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः । सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ।।
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यते ।। इति ब्राह्मे ।।3।।
।। इति आत्मोपगमाधिकरणम् ।।3।।

ॐ न प्रतीके न हि सः ॐ ।।4।।
"नाम ब्रह्मेत्युपास्ते' इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् । ब्रह्मतर्के च -
नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ।।
नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते । सर्वाथा प्रथमा यस्मात् सप्तम्यर्था ततो मता ।। इति ।।4।।
।। इति नप्रतीकाधिकरणम् ।।3।।

ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ।।5।।
ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।
ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् । महत्त्ववाची शब्दौयं महत्त्वज्ञानमेव हि ।।
सर्वतः प्रीतिजनकमतस्तत्सर्वथा भवेत् । आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।।
कार्यैव सर्वथा विष्णोबर्‌रह्मत्वं न परित्यजेत् ।। इति ब्रह्मतर्के ।।5।।
।। इति ब्रह्मदृष्ट्यधिकरणम् ।।4।।

ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ।।6।।
"चक्षोः सूर्यो अजायत' इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानत्वात् स्वाश्रयत्वात् मुक्तौ तत्र ƒयस्यापेक्षितत्वाच्चोपपन्नं तथोपासनम् । नारायणतन्त्रे च -
आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु । गुणानां स्मरणाशक्तौ विष्णोबर्‌रह्मत्वमेव तु ।।
स्मर्तव्यं सततं तत्तु न कदाचित् परित्यजेत् । अत्र सर्वगुणानां च यतोन्तर्भाव इष्यते ।।
स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।। तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ।।
तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः ।। इति ।।6।।
।। इति आदित्यादिमत्यधिकरणम् ।।5।।

ॐ आसीनः सम्भवात् ॐ ।।7।।
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ।।7।।

ॐ ध्यानाच्च ॐ ।।8।।
स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा । स्मरणं सर्वदा योग्यं ध्यानोपासनमासने ।।
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः । आसीनस्य भवेत् तत्तु न शयानस्य निद्रया ।।
स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवात् । स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः ।। इति च नारायणतन्त्रे ।
अतो ध्यानत्वाच्च ।।8।।

ॐ अचƒत्वं चापेक्ष्य ॐ ।।9।।
"अचलं चेच्छरीरं स्यान्मनसश्चाप्यचाƒनम् । चƒने तु शरीरस्य चञ्चलं तु मनो भवेत् ।।' इति च ब्रह्माण्डे ।।9।।

ॐ स्मरन्ति च ॐ ।।10।।
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेेक्ष्य नासिकाग्रं स्वं दिशश्चानवƒोकयन् ।। इत्यादि ।।10।।

ॐ यत्रैककाग्रता तत्राविशेषात् ॐ ।।11।।
देशकाƒलावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
तमेव देशं सेवेत तं कालं तामवस्थितिम् । तानेव भोगान् सेवेत मनो यत्र प्रसीदति ।।
न हि देशादिभिः कश्चित् विशेषः समुदीरितः । मनः प्रसादनार्थं हि देशकाƒलादिचिन्तना ।। इति वाराहे ।।11।।
।। इति आसनाधिकरणम् ।।6।।

ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ ।।12।।
यावन्मोक्षस्तावदुपासनादि कार्यम् । "स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत' इति हि श्रुतिः । "सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासते' इति सौपर्णश्रुतिः ।
श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ।।
दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते । भक्तिश्चानन्तकाƒलीना परमे ब्रह्मणि स्फुटा ।।
आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम् ।। इति ब्रह्माण्डे ।।12।।
।। इति प्रायणाधिकरणम् ।।7।।

ॐ तदधिगम उत्तरपूर्वाघयोरश्ƒेषविनाशौ तद्य्वपदेशात् ॐ ।।13।।
ब्रह्मदर्शन उत्तरघस्याश्लेषः पूर्वस्य विनाशश्च । "तद्यथा पुष्करपƒलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते' "तद्यथैषीकातूƒमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानं प्रदूयन्ते' इति तद्य्वपदेशात् ।।13।।

ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ।।14।।
पुण्यस्याप्येवमसंश्लेषः पाते । तुशब्दोनुत्थानवाची ।
यथाश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः । एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम् ।। इति चाग्नेये ।।14।।

ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ।।15।।
अनारब्धकार्ये एव पूर्वे पुण्यपापे विनश्यतः । "तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्यते' इति तदवधेः । तुशब्दः स्मृतिद्योतकः ।
यदनारब्धपापं स्यात् तद्विनश्यति निश्चयात् । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ।।
द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः । तस्याप्यारब्धकार्यस्य न विनाशोस्ति कुत्रचित् ।।
आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः ।। इति च नारायणतन्त्रे ।।15।।

ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ।।16।।
अग्निहोत्राद्यपि तु मोक्षेनुभावायैव । तुशब्दात् ब्रह्मदर्शनवतः । "स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोन्यद्वा कर्माकृतम् यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव ƒोकमुपासीत स य आत्मानमेव ƒोकमुपास्ते न हास्य कर्म क्षीयतेस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत् सृजते' इति तद्दर्शनात् ।।16।।

ॐ अतोन्यदपीत्येकेषामुभयोः ॐ ।।17।।
मुक्तावनुभवकारणाद्यदन्यत् तत् पुण्यमपि विनश्यति अप्रारब्धमनभीष्टं च । तथा ह्येकेषां पाठ उभयोस्त्यागेन- "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति ।
"अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति । किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः ।।' इति पाद्मे ।।17।।

ॐ यदेव विद्ययेति हि ॐ ।।18।।
ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तं च भवति । "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति श्रुतेः । "न हास्य कर्म क्षीयते' इति च ।
"अल्पमात्रकृतो धर्मो भवेज्ज्ञानवतो महान् । महानपि कृतो धर्मो ह्यज्ञानां निष्फƒो भवेत् ।।' इति च भारते ।।18।।

ॐ भोगेन त्वितरे क्षपयित्वा सम्पत्स्यते ॐ ।।19।।
आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।
"आरब्धपुण्यपापस्य भोगेन क्षपणादनु । प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ।।
ब्रह्मणां शतकाƒलात्तु पूर्वमारब्धसङ्क्षयः । नियमेन भवेन्नात्र कार्या काचिद्विचारणा ।।' इति नारायणतन्त्रे ।।19।।
।। इति तदधिगमाधिकरणम् ।।8।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः ।।
******************************
द्वितीयः पादः ।।
देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पादे उच्यते-
ॐ वाङ्मनसि दर्शनाच्छब्दस्य ॐ ।।1।।
वागभिमानिन्युमा मनोभिमानिनि रुद्रे वलिीयते । वाचो मनोवशत्वदर्शनात् । "तस्य यावन्न वाङ् मनसि सम्पद्यते' इति शब्दाच्च ।
"उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः । तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद् विहीयते ।।' इति स्कान्दे ।।1।।

ॐ अत एव च सर्वाण्यनु ॐ ।।2।।
अत एव चशब्दात् सर्वाणि दैवतानि यथानुकूलं विƒलीयन्ते । "अग्नौ सर्वे देवा विƒीयन्तेग्निरिन्द्रे इन्द्र उमायामुमा रुद्रे विƒलीयते एवमन्यानि दैवतानि यथानुकूƒम्' इति गौपवनश्रुतिः ।।2।।
।। इति वाङ्मनसाधिकरणम् ।।1।।

ॐ तन्मनः प्राण उत्तरात् ॐ ।।3।।
"मनः प्राण' इत्युत्तराद्वचनान्मनोभिमानी रुद्रः प्राणे वायौ विƒलीयते । "वायोर्वाव रुद्र उदेति वायौ विƒलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठः' इति च कौण्डिन्यश्रुतिः ।।3।।

ॐ सोध्यक्षे तदुपगमादिभ्यः ॐ ।।4।।
स प्राणः परमात्मनि विƒलीयते । "सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमनुप्राणिति तस्मादाहुः प्राणस्य प्राणः इति' "प्राणः परस्यां देवतायाम्'
"मुक्ताः सन्तोग्निमाविश्य देवाः सर्वेपि भुञ्जते । अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोपि तु ।।
आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् । न ह्यानन्दो निजस्तेषां परैर्ƒभ्यः कथञ्चन ।।
किमु विष्णोः परानन्दो न ते विष्णविति श्रुतेः । प्राणस्य तेजसि ƒयो मार्गमात्रमुदाहृतम् ।।
सर्वेशितुश्च सर्वादेस्तस्यान्यत्र ƒयः कथम् ।।' इत्यादिश्रुतिस्मृतिभ्यः ।।4।।
इति अध्यक्षाधिकरणम् ।।3।।

ॐ भूतेषु तच्छ्रुतेः ॐ ।।5।।
भूतेष्वन्येषां देवानां ƒयः । "भूतेषु देवाः विƒीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकƒ एव मध्ये स्थाता' इति बृहच्छ्रुतेः ।।5।।
।। इति भूताधिकरणम् ।।4।।

ॐ नैकस्मिन् दर्शयतो हि ॐ ।।6।।
नैकस्मिन् भूते सर्वेषां देवानां ƒयः । "पृथिव्यामृभवो विƒीयन्ते वरुणेश्विनावग्नावग्नयो वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विƒीयन्ते । मृत्यवः पृथिव्यां वरुण आपोग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विƒीयन्ते' इति महोपनिषच्चतुर्वेदशिखा च दर्शयतः । अतोग्नौ देवा विƒलीयते इत्यत्र निर्दिष्टानामेव ।।6।।
।। इति अनेकƒयाधिकरणम् ।।5।।

ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ।।7।।
देशतः काƒतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात् स्वत एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च- "द्वौ वाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चैतौ ज्ञात्वा विमुच्यत' इति । नैतावता साम्यम् ।।7।।

ॐ तदपीतेः संसारव्यपदेशात् ॐ ।।8।।
"समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विƒलीनो हि प्रकृतौ संसारमेति विƒलीनः परमे ह्यमृतत्वमेति' इति सौपर्णश्रुतेः ।।8।।

ॐ सूक्ष्मं प्रमाणतश्च तथोपƒब्धेः ॐ ।।9।।
सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।
सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः । ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येधिकाः प्रभोः ।। इति च तुरश्रुतिः ।।9।।

ॐ नोपमर्देनातः ॐ ।।10।।
अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
देशतः काƒतश्चैव समा प्रकृतिरीश्वरे । उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।।
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् । प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।।
नियता नैव केनापि नियता हि हरेर्गुणाः ।। इति भविष्यत्पर्वणि ।।10।।

ॐ अस्यैव चोपपत्तेरूष्मा ॐ ।।11।।
"द्विधा हीदमवदृश्यते ऊष्णावदनूष्मावच्च । तत्रोष्मावत् परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत् प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च' इति सौपर्णश्रुतेः किञ्चित् साम्योपपत्तेः ।।11।।

ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ।।12।।
"असतो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्येतेणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति । अथ परो न जायते न म्रियते पूर्णश्चैष भवति' इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न । शरीराद्धि साम्यं प्रतिषिध्यते ।।12।।

कुतः
ॐ स्पष्टो ह्येकेषाम् ॐ ।।13।।
"अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्ƒयो नियतिरायतिश्चैकं ह्येवैतद्भवत्यथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिः बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोसुरा यत्किञ्चेदं चरमचरं चाथ समासमा प्रकृतिर्वाव समासमैषा हि नित्याजरा तद्वशा च' इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ।।13।।

ॐ स्मर्यते च ॐ ।।14।।
मत्स्यकूर्मवराहाद्याः समाः विष्णोरभेदतः । ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समासमा ।। इति च वाराहे ।।14।।
।। इति समनाधिकरणम् ।।6।।

ॐ तानि परे तथा ह्याह ॐ ।।15।।
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विƒलीयन्ते । "सर्वे देवाः प्राणमाविश्य देवे मुक्ता ƒयं परमे यान्त्यचिन्त्ये' इति कौषारवश्रुतिः ।।15।।
।। इति पराधिकरणम् ।।7।।

ॐ अविभागो वचनात् ॐ ।।16।।
"एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पाः यथानिकाममन्तर्बहिः परिचरन्ति' इति गौपवनश्रुतिः । तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् । "कामेन मे काम आगात् हृदयात् हृदयं मृत्योः' इति वचनात् ।
"मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु । कामानुकूƒकामत्वं नान्यत् तेषां विधीयते ।।' इति ब्राह्मे ।।16।।
।। इति अविभागाधिकरणम् ।।8।।

ॐ तदोकोग्रज्वƒनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ।।17।।
उत्क्रान्तिकाƒले हृदयस्याग्रज्वƒनं भवति । "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते' इति श्रुतेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
"यं यं वापि स्मरन् भावं त्यजत्यन्ते कƒेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।'
इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च । "आचार्यस्तु ते गतिं वक्ता' इति हि िƒङ्गम् ।
हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु । उत्क्रान्तिबर्‌रह्मरन्ध्रेण तमेवोपासतो भवेत् ।। इति चाध्यात्मे ।
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्गन्या उत्क्रमणे भवन्ति ।। इति च ।।17।।

ॐ रश्म्यनुसारी ॐ ।।18।।
निष्क्रमति । सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्य चेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैष निर्गच्छति । इति हि पौत्रायणश्रुतिः ।।18।।

ॐ निशि नेति चेन्न सम्बन्धात् ॐ ।।19।।
रश्म्यभावात् ज्ञानिन उत्क्रमणं न युक्तमिति चेन्न । सर्वदा सम्बन्धात् रश्मीनाम् ।।19।।

कियत्फƒम् -
ॐ यावद्देहभावित्वाद् दर्शयति च ॐ ।।20।।
यावद्देहो विद्यते तावद्रश्मिसम्बन्धो अस्त्येव । संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो यावदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते । इति हि माध्यन्दिनायनश्रुतिः ।।20।।

ॐ अतश्चायनेपि हि दक्षिणे ॐ ।।21।।
"दक्षिणे मरणाद्याति स्वर्गं ब्रह्मोत्तरायणे' इत्युक्तेपि ज्ञानिनो दक्षिणायनोत्क्रान्तिः युज्यते ।
शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः । तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ।।
ते सर्वे देहसम्बद्धा सर्वदा सर्वदेहिनाम् । महर्ƒोकादिगन्तारः उत्तरायणरश्मिभिः ।।
निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः । उत्तरं दक्षिणमिति ते एव तु निगद्यते ।।
न तु काƒविशेषोस्ति ज्ञानिनां नियमात् फƒम् । ददाति काƒेनुगुणे फलं किञ्चिद्विशिष्यते ।।
अत्युत्तमानां केषाञ्चिन्न विशेषोस्ति काƒतः ।। इति नारायणाध्यात्मे ।।21।।
।। इति हृदयाग्रज्वƒनाधिकरणम् ।।9।।

ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ।।22।।
न केवलं काƒलादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।
अग्निर्ज्योतिरहः शुक्लः षण्मासाः उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।।
धूमो रात्रिस्तथा कृष्णः षण्मासाः दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।।
इत्यत्र योगीति विशेषणात् स्मरणनिमित्ते चैते गती ।
गत्यनुस्मरणात् ब्रह्म चन्द्रं वा गच्छन्ति ध्रुवम् । अननुस्मरतः काƒले स्मरणं प्राप्य वै गतिः ।। इति हि अध्यात्मे ।।22।।
।। इति प्रतिस्मरणाधिकरणम् ।।10।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ।।
******************************
तृतीयः पादः ।।
मार्गो गम्यं चास्मिन् पाद उच्यते-
ॐ अर्चिरादिना तत्प्रथितेः ॐ ।।1।।
"तेचिषमभिसम्भवन्त्यर्चिषोहरह्ण आपूर्यमाणपक्षम्' इत्यर्चिषः प्राथम्यं श्रूयते । "यदा ह वै पुरुषोस्माल्लोकात् प्रैति स वायुमागच्छति' इति वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।
द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम् । धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ।।
अग्निज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः । अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ।।
एकस्मिंस्तु पुरे संस्थो द्विरूपोग्नेः सुतो महान् ।। इति च ब्रह्मतर्के ।।1।।
।। इति अर्चिराद्यधिकरणम् ।।1।।

ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ।।2।।
अर्चिषो वायुं गच्छति । "स वायुमागच्छति' इति सामान्यवचनात् । "स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्ण आपूर्यमाणपक्षम्' इति विशेषवचनाच्च ।।2।।
।। इति वायुगत्यधिकरणम् ।।3।।

ॐ तटितोधि वरुणस्सम्बन्धात् ॐ ।।3।।
"मासेभ्यस्संवत्सरं संवत्सरात् वरुणƒोकं वरुणƒोकात् प्रजापतिƒोकम्' इति कौण्डिन्यश्रुतिः । "संवत्सरात् तटितमागच्छति तटितः प्रजापतिƒोकम्' इति गौपवनश्रुतिः । "तत्र तटितो वरुणं गच्छति । तटिता ह्यूयते वरुणƒोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति' इत्युपरिसम्बन्धश्रुतेः ।।3।।
।। इति तटिदधिकरणम् ।।4।।

ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ।।4।।
पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनिƒङ्गात् ।।4।।

कुतः-
ॐ उभयव्यामोहात् तत्सिद्धेः ॐ ।।5।।
"स वायुमागच्छति' इति प्रथममुच्यते । "उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युतमेवान्तत उपगच्छति द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति' इत्यन्तेपि वायुगमनश्रुतेः । पूर्वोक्त आतिवाहिकपरो वेति व्यामोहे उत्तरे दिवस्पतिरिति विशेषणात् पूर्वत्रातिवाहिकस्यैव सिद्धेः । ब्रह्मतर्के च-
उत्क्रान्तस्तु शरीरात् स्वात् गच्छत्यर्चिषमेव तु । ततो हि वायोः पुत्रं च योसौ नाम्नातिवाहिकः ।।
ततोहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च ।।
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ।। इति ।।5।।
।। इति आतिवाहिकाधिकरणम् ।।4।।

ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ।।6।।
प्रकारान्तरेण तत्र तत्रोच्यमानत्वात् वायोरपि परतो ब्रह्मणोर्वाग्गन्तव्यस्तीति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव "स एनान् ब्रह्म गमयति' इति ब्रह्मगमनश्रुतेः ।
विद्युत्पतिर्वायुरेव नयेत् ब्रह्म न चापरः । कुतोन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ।। इति बृहत्तन्त्रे ।।6।।
।। इति वैद्युताधिकरणम् ।।5।।

ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ।।7।।
"स एनान् ब्रह्म गमयति' इति कार्यं गमयतीति बादरिर्मन्यते ।
ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् । यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मƒोकमवाप्नुयात् ।। इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ।।7।।

ॐ विशेषितत्वाच्च ॐ ।।8।।
"यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्' इति कौषारवश्रुतौ ।।8।।

ॐ सामीप्यात्तु तद्य्वपदेशः ॐ ।।9।।
"ब्रह्मविदाप्नोति परम्' इति तद्य्वपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थमेव ।।9।।

कदा?
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ।।10।।
"ते ह ब्रह्माणमभिसम्पद्य यदैतद्विƒलीयतेथ सह ब्रह्मणा परमभिगच्छन्ति' इति सौपर्णश्रुतेर्महाप्रƒये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ।।10।।

ॐ स्मृतेश्च ॐ ।।11।।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ।। इति ।।11।।

ॐ परं जैमिनिर्मुख्यत्वात् ॐ ।।12।।
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ।।12।।

ॐ दर्शनाच्च ॐ ।।13।।
दृष्टत्वाच्च परब्रह्मणः ।।13।।

ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ।।14।।
न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
यदुपास्ते पुमान् जीवन् यत्प्राप्तुमभिवाञ्छति । यच्च पश्यति तृप्तः संस्त्प्राप्नोति मृतेरनु ।। इति पाद्मे ।।14।।

ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॐ ।।15।।
प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् । न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तु ते ।।
अप्रतीकाः देवतास्तु ऋषीणां शतमेव च । राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ।।
एतेधिकारिणो व्याप्तदर्शनेन्ये न तु क्वचित् । अयोग्यदर्शने यत्नात् भ्रंशः पूर्वस्य चापि तु ।।
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ट्यैव गच्छेत् ब्रह्मसलोकताम् ।।
ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ।।
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति । "स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते' इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ।।15।।

ॐ विशेषं च दर्शयति ॐ ।।16।।
"अन्तप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः । देवा वाव सर्वप्रकाशाः ऋषयोन्तःप्रकाशाः मानुषाः एव बहिःप्रकाशाः' इति चतुर्वेदशिखायाम् ।।16।।
।। इति कार्याधिकरणम् ।।6।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ।।
******************************
चतुर्थः पादः ।।
भोगमाहास्मिन् पादे
ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ।।1।।
"स य एवंविदेवं मन्वान एवं पश्यन्नात्मानमभिसम्पद्यैतेनात्मना यथाकामं सर्वान् कामाननुभवति' इति सौपर्णश्रुतिः । "परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति च । "एवं सेतुं तीर्त्वान्धस्सन्ननन्धो भवति' इति च । तत्र तरणं नाम तत्प्राप्तयेन्यतरणमेव । "इमां घोरामशिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमोदत आनन्दी भवति' इति मोद्गल्यश्रुतेः ।।1।।
।। इति सम्पद्यधिकरणम् ।।1।।

ॐ मुक्तः प्रतिज्ञानात् ॐ ।।2।।
मुक्त एव चात्रोच्यते । "अहरहरेनमनुप्रविशत्युपसङ्क्रमते च न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोनुप्रविशति मोदते च प्रमोदते च कामांश्चैवानुभवति । कामांश्चैवानुभवति' इति बृहच्छ्रुतौ प्रतिज्ञानात् ।।2।।
।। इति मुक्ताधिकरणम् ।।2।।

ॐ आत्मा प्रकरणात् ॐ ।।3।।
परञ्ज्योतिःशब्देन परमात्मैवोच्यते । तत्प्रकरणत्वात् ।
परञ्ज्योतिः परंब्रह्म परमात्मादिका गिरः । सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथञ्चन ।। इति च ब्रह्माण्डे ।।3।।
।। इति आत्माधिकरणम् ।।3।।

ॐ अविभागेन दृष्टत्वात् ॐ ।।4।।
ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते । "यानेवाहं शृणोमि यान् पश्यामि यान् जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति' इति दृष्टत्वाच्चतुर्वेदशिखायाम् । भविष्यत्पुराणे च-
मुक्ताः प्राप्य परं विष्णुं तद्भोगां? लेशतः क्वचित् । बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन ।। इति ।।4।।
।। इति अविभागाधिकरणम् ।।4।।

ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ।।5।।
सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगान् भुञ्जत इति जैमिनिर्मन्यते । "स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं सर्वमनुभवति' इति माध्यन्दिनायनश्रुतावुपन्यासात् ।
आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति । गच्छेच्च हरिपादेन मुक्तस्यैषा स्थितिर्भवेत् ।। इति स्मृतेः ।।
गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् । इत्यादि पूर्वस्मरणान्मुक्तस्यैतद्भविष्यति ।। इति बृहत्तन्त्रोक्तयुक्तेश्च ।।5।।

ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ।।6।।
चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते । सर्वं वा एतदचित् परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते ।' इत्युद्दालकश्रुतेश्चिदात्मकत्वात् इत्यौडुलोमिः मन्यते ।।6।।

ॐ एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॐ ।।7।।
"स वा एष एतस्मात् मर्त्यात् विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभिशृणोत्यभिमनुतेभिविजानाति तामाहुर्मुक्तिः' इति सौपर्णश्रुतौ चिन्मात्रेणाप्युपन्यासात् जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते । नारायणाध्यात्मे च
मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः । चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ।।
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् । कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ।।
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः ।। इति ।।7।।
।। इति चितिमात्राधिकरणम् ।।5।।

ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ।।8।।
न तेषां भोगादिषु प्रयत्नापेक्षा । "स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादिश्रुतेः ।।8।।
।। इति सङ्कल्पाधिकरणम् ।।6।।

ॐ अत एव चानन्याधिपतिः ॐ ।।9।।
सत्यसङ्कल्पत्वादेव ।
परमोधिपतिस्तेषां विष्णुरेव न संशयः । ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ।।
ततः प्राणादिनामान्ताः सर्वेपि पतयः क्रमात् । आचार्याश्चैव सर्वेपि र्यैर्ज्ञानं सुप्रतिष्ठितम् ।।
एतेभ्योन्यः पतिर्नैव मुक्तानां नात्र संशयः ।। इति वाराहे ।।9।।
।। इति अनन्याधिपतित्वाधिकरणम् ।।7।।

ॐ अभावं बादरिराह ह्येवम् ॐ ।।10।।
चिन्मात्रं विनान्यो देहस्तेषां न विद्यत इति बादरिः । "अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यत' इत्येवं कौण्ठरव्यश्रुतावाह हि ।।10।।

ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ।।11।।
"स वा एष एवंवित् परमभिपश्यत्यभिशृणोति ज्योतिषैव रूपेण चिता वाचिता वा नित्येन वानित्येन वाथानन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृशति' इत्यौद्दालकश्रुतौ विकल्पाम्नानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ।।11।।

ॐ द्वादशाहवदुभयविधं बादरायणोतः ॐ ।।12।।
यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति । एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवति इति बादरायणो मन्यते ।।12।।

उपपत्तिश्च -
ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ।।13।।
सन्ध्यं स्वप्नः । "सन्ध्यं तृतीयं स्वप्नस्थानम्' इति श्रुतेः ।।13।।

ॐ भावे जाग्रद्वत् ॐ ।।14।।
ब्रह्मवैवर्ते च -
स्वप्नस्थानां यथा भोगो विना देहेन युज्यते । एवं मुक्तावपि भवेद्विना देहेन भोजनम् ।।
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् । स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचन ।। इति ।।14।।

ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ।।15।।
शरीरमनुप्रविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगाननुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्क्ते न तु तत्कार्ष्ण्यादि । "तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति' इति हि दर्शयति ।।15।।

न च "स्वर्गे लोके न भयं किञ्चनास्ति' इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः-
ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ।।16।।
सुप्तौ मोक्षे वा तदुच्यते । "अत्र पितापिता भवत्यनन्वागतं पुण्येनानन्वागतं पापेन' इत्याद्याविष्कृतत्वात् । ब्रह्मवैवर्ते च-
ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन ।।
तीर्णा हि सर्वशोकास्ते पुण्यपापादिवर्जिताः । सर्वदोषनिवृत्तास्ते गुणमात्रस्वरूपिणः ।। इति ।।16।।
।। इति उभयविधभोगाधिकरणम् ।।8।।

ॐ जगद्य्वापारवर्जम् ॐ ।।17।।
"सर्वान् कामानाप्त्वा अमृतः समभवत्' इत्युच्यते । तत्र सृष्ट्यादिभ्योन्यान् व्यापारानाप्नोति ।।17।।

कुतः
ॐ प्रकरणादसन्निहितत्वाच्च ॐ ।।18।।
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । वाराहे च-
स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते ।।
तद्योग्यता नैव तेषां कदाचित् क्वापि विद्यते । न चायोग्यं विमुक्तोपि प्राप्नुयान्न च कामयेत् ।। इति ।।18।।

ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ।।19।।
"ता यो वेद स वेद ब्रह्म सर्वेस्मै देवा बलिमावहन्ति' इति प्रत्यक्षोपदेशात् जगदैश्वर्यमप्यस्तीति चेन्न । आधिकारिकमण्डलाधिपतिः ब्रह्मा हि तत्रोच्यते । गारुडे च -
आत्मेत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ।।
अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन । केचित् स्वर्गे महर्लोके जने तपसि चापरे ।।
केचित् सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः ।।
साƒलोक्यं च सरूपत्वं सामीप्यं योग एव च । इमामारभ्य सर्वत्र यावत्सु क्षीरसागरे ।।
पुरुषोनन्तशयनः श्रीमन्नारायणाभिधः । मानुषा वर्णभेदेन तथैवाश्रमभेदतः ।।
क्षितिपाः मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मजाश्च तात्त्विकाश्च प्रजापतिः ।।
रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तरोत्तराः । नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ।।
सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ।।
स्वजगद्य्वापृतिस्तेषां पूर्ववत् समुदीरिता । सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।।
चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन । भुञ्जते मुक्तिरेवं तं विस्पष्टं समुदाहृता ।। इति ।।19।।

ॐ विकारवर्ति च तथाहि दर्शयति ॐ ।।20।।
विकारवर्तिव्यापारो मुक्तानां न विद्यते । "इमं मानवमावर्तं नावर्तन्ते' इति हि श्रुतिः । वाराहे च-
स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बिलं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ।।
सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः । न विकाराधिकारस्तु मुक्तानामन्य एव तु ।।
विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना ।। इति ।।20।।
।। इति सर्वकामाधिकरणम् ।।9।।

ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ।।21।।
"एतत्साम गायन्नास्ते' इत्युच्यते । तत्रानन्दादीनां वृद्धिह्रासश्च न विद्यते । एकप्रकारेणैव सर्वदा स्थितिः । "स एष एतस्मिन् ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवात्मानं तस्यैव दर्शयतो नापत्तिर्न विपत्तिः' इत्याह जाबाƒश्रुतौ ।
यत्र गत्वा न म्रियते यत्र गत्वा न जायते । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते ।। इति मोक्षधर्मे ।
विद्वत्प्रत्यक्षात् कारणाभाविलिङ्गाच्च । ब्रह्मवैवर्ते च
न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् । विद्वत्प्रत्यक्षसिद्धत्वात् कारणाभावतोनुमा ।।
हरेरपासना चात्र सदैव सुखरूपिणी । न तु साधनभूता सा सिद्धिरेवात्र सा यतः ।। इति ।।21।।

ॐ भोगमात्रसाम्यलिङ्गाच्च  ॐ ।।22।।
न च भोगविशेषादिविरोधः ।
"एततमानन्दमयमात्मानमनुविश्य न जायते न म्रियते न ह्रसते न वर्धते यथाकामं चरति यथाकामं चरति यथाकामं पिबति यथाकामं रमते यथाकाममुपरमते' इति भोगमात्रसाम्यलिङ्गात् ।
अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् । कादाचित्कविशेषस्तु नैव तेषां निषिध्यते ।। इति कौर्मे ।
प्रवाहतस्तु वृद्धिर्वा ह्रासो वा नैव कुत्रचित् । नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ।।
कुत एव तु दुःखं स्यात् सुखमेव सदोदितम् । भोगानां तु विशेषे तु वैचित्र्यं लभ्यते क्वचित् ।। इति नारायणतन्त्रै ।।22।।

ॐ अनावृत्तिश्शब्दादनावृत्तिशब्दात् ॐ ।।23।।
"न च पुनरावर्तते न च पुनरावर्तते' "सर्वान् कामानाप्त्वा अमृतः समभवत्' इत्यादिश्रुतिभ्यः ।
।। इति अनावृत्त्यधिकरणम् ।।11।।
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोस्तु गुरवे नित्यं सर्वथातिप्रियाय मे ।।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं
बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ।।
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः ।।
******************************

(साधनाध्यायः) तृतीयाध्यायः॥ प्रथमः पादः साधनविचारोऽयमध्यायः । वैराग्यार्थे गत्यादिनिरूपणा प्रथमपादे। भूतबन्धो हि बन्धः। ‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति वाराहे । तच्च मरणे भवति। भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् । भूतानां सम्प्रयोगश्च जनिरित्येव पण्डितैः’ इति च भारते ॥ अतः किं साधनैरित्यत आह- तदन्तराधिकरणम् ॐ तदन्तरप्रतिपत्तौरंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ 01-295 ॥ शरीरान्तरप्रतिपत्तौ भूतसम्परिष्वक्त एव गच्छति । ‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रश्नपरिहाराभ्याम् ॥ 01 ॥ इति तदन्तराधिकरणम् ॥ 01 ॥ त्र्यात्मकत्वाधिकरणम् ॐ त्र्यात्मकत्वात् तु भूयस्त्वात् ॐ ॥ 02-296 ॥ अप्छब्दस्तुत्र्यात्मकत्वादुज्यते । भूयस्त्वाच्चापाम् । ‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’इति च भागवते॥02॥ ॥ इति त्र्यात्मकत्वाधिकरणम् ॥ 02 ॥ प्राणागत्यधिकरणम् ॐ प्राणगतेश्च ॐ ॥ 03-297 ॥ ‘यत्र वाव भूतानि तत्र करणानि नित्यानि ह वा एतानि भूतानि च करणानि च नैतानि कदाचिद्वियुज्यन्ते न च विलीयन्ते’ इति भाल्लवेयश्रुतेः प्राणगतेर्भूतान्यपि सन्ति इति सिद्धम् ॥ 03 ॥ ॥ इति प्राणागत्यधिकरणम् ॥ 03 ॥ अग्न्याद्यधिकरणम् ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ 04-298 ॥ ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’ इत्यादिश्रुतेर्न प्राणानां जीवेन सह गतिरिति चेन्न भागतोऽग्न्यादिप्राप्तेः । ‘पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु । अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् । पुनः शरीरसम्प्राप्तौतमेवानुविशन्ति च’ इति ब्राह्मे । ब्रह्माण्डे च- ‘मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च । भागतो भागतस्त्वेनमनुगच्छन्ति सर्वशः’ इति ॥ 04 ॥ ॥ इति अग्न्याद्यधिकरणम् ॥ 04 ॥ प्रथमश्रवणाधिकरणम्॥ ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ 05-299 ॥ ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इति प्रथमाग्नौ श्रूयते न भूतानि जुह्वतीति। अतो नेति चेन्न। ता एव प्रस्तुता आपः श्रद्धारूपेण हूयन्ते ।‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्युपसंहारोपपत्तेः ॥05॥ ॥ इति प्रथमश्रवणाधिकरणम्॥ 05 ॥ अश्रुतत्वाधिकरणम् ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणं प्रतीतेः ॐ ॥ 06-300 ॥ अग्न्यादिगतिः प्रत्यक्षतः श्रूयते। अतः प्रत्यक्षाश्रवणान्न युक्तमिति चेन्न। ‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति भूतैर्भुङ्ते भूतैरुत्पद्यते भूतैश्चरति भूतैर्विचरति’ इति कौण्ठरव्यश्रुतौ प्रतीतेः ॥ 06 ॥ ॥ इति अश्रुतत्वाधिकरणम् ॥ 06 ॥ भाक्ताधिकरणम् ‘अपाम सोमममृता अभूम’ इत्यादिश्रुतिविरोध इत्यतो वक्ति- ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ॥ 07-301 ॥ भागतस्तदमृतत्वम् ।’नान्यः पन्था अयनाय विद्यते’ इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दात् पारम्पर्येणात्मविदपेक्षया वा । तथा हि श्रुतिः – ‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वाकर्माकृतं यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्तततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्द्येवात्मनो यद्यत्कामयते तत्तत् सृजते’ ‘अमृतो वाव सोमपो भवति यावदिन्द्रो योवन्मनुर्यावदादित्यः’। ‘कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति अथामृतानि कर्माणि यत एनममृतत्वं नयन्ति’ इति च ॥ 07 ॥ ॥ इति भाक्ताधिकरणम् ॥ 07 ॥ कृतात्ययाधिकरणम् कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरित्यत आह- ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ 08-302 ॥ ‘ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्गच्छति पुनरागच्छति’ इति श्रुतेः – ‘भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः । कर्म कृत्वा पुनर्गच्छेत् पुनरायाति नित्यशः ॥ आचतुर्दशमाद्वर्षात् कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम् ॥ अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति’॥ इत्यादिस्मृतेश्च शेषवानेवायाति ॥ 08 ॥ ॥ इति कृतात्ययाधिकरणम् ॥ 08 ॥ यथेताधिकरणम् ‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते स कर्म कुरुते स परिवर्तते’ इति गतिप्रकारेणागतिः प्रतीयते । अतो ब्रूते- ॐ यथेतमनेवं च ॐ ॥ 09-303 ॥ ‘धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धोमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ इति काषायणश्रुतेर्यथागतमन्यथा च॥09॥ ॥इति यथेताधिकरणम् ॥ 09 ॥ चरणाधिकरणम् ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ॥ 10-304 ॥ ‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयाम्’ इति श्रुतेश्चरणफलमेव गमनागमनं न यज्ञादिकृतः । ‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः । अशुद्धिदस्त्वानाचारश्चरणं तूभयं मतम्’ ॥ इति स्मृतेरिति चेन्न, यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति कार्ष्णाजिनिर्मन्यते ॥ 10 ॥ ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ 11-305 ॥ तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यानर्थक्यमिति चेन्न। चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोपपत्तेः ॥ 11 ॥ ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ ॥ 12-306 ॥ ‘धर्मं चरत माऽधर्मम्’ इत्यादिप्रयोगात् सुकृतदुश्कृते एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् स्वसिद्धान्तोऽपि स एवेति सूचयति। ‘तुशब्दस्तुविशेषे स्यात् स्वसिद्धान्तेऽवधारणे’ इति च नाममहोदधौ ॥ 12 ॥ ॥ इति चरणाधिकरणम् ॥ 10 ॥ अनिष्टादिकार्यधिकरणम् पुण्याकृतामेव गमनागमने नेतरेषामित्यत आह- ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ 13-307 ॥ ‘‘तद्यइह शुभाकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयावर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’ इति भाल्लवेयश्रुतौ ॥ 13 ॥ ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥ 14-308 ॥ ‘संयमनमनुभूय केषाञ्चिदारोहः केषाञ्चिदवरोहः । तुशब्दोऽवधारणे ॥ ‘‘सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ह ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्यतमसि प्रपतन्ति नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद्वव्रं वा एतदित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुप्रजन्ति’ इति कौण्ठरव्यश्रुतेः ॥ 04 ॥ ॐ स्मरन्ति च ॐ ॥ 15-309 ॥ ‘‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः । ‘तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् । ‘महातमसि मग्नानां न तेषामुत्थितिः क्वचित् । ‘इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च । ‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । ‘इति सर्वत्र नियमः पञ्चकष्टे तु तत् सदा’ इत्यादि ॥ 15 ॥ ॥ इति अनिष्टादिकार्यधिकरणम् ॥ 11 ॥ सप्ताधिकरणम् ॐ अपि सप्त ॐ ॥ 16-310 ॥ ‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥ तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ । इति सप्तप्रधानानि बलीयस्तूत्तरोत्तरम् । एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’ इति च भारते ॥ 16 ॥ ॥ इति सप्ताधिकरणम् ॥ 12 ॥ तद्व्यापाराधिकरणम् ईश्वरस्य नरकायुक्तेः ‘सर्वं विसृजति सर्वं विलापयति सर्वं रमयति सर्वं न रमयति सर्वं प्रवर्तयत्यन्तरस्मिन् निविष्टः’ इति कौषारवश्रुतिविरोध इत्यतो वक्ति – ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ 17-311 ॥ चशब्दाददुःखानुभवेन । ‘स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृदेक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात् सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद’ इति पौत्रायणश्रुतेरविरोधः । ‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते । नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥ नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’ इति भागवततन्त्रे ॥ 17 ॥ ॥ इति तद्व्यापाराधिकरणम् ॥ 13 ॥ विद्याकर्माधिकरणम् ‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ इति गतिस्वातन्त्र्यं भूतानां प्रतीयत इत्यत आह- ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ 18-312 ॥ विद्याकर्मापेक्षयैतद्वचनम् । तयोरपि प्रकृतत्वात् । ‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ । तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः’ इति च भारते॥ 18 ॥ इति विद्याकर्माधिकरणम् ॥ 14 ॥ महातमोऽधिकरणम् ‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते । अपि नीचगतौ किञ्चित् किमु मानुषदेहिनः’ इति वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह- ॐ न तृतीये तथोपलब्धेः ॐ ॥ 19-313 ॥ ‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्गतिस्तिर्यग्यातना तम इति । द्वेवाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ 19 ॥ ॐ स्मर्यतेऽपि च लोके ॐ ॥ 20-314 ॥ ‘तिर्यक्षु नरके चैव सुखलेशो विधीयते । नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ इति भविष्यत्पर्वणि । लोकसिद्धं चैतत्। चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह । ‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् । अत्यप्रिये सुखमपि तथैव परमेश्वरः’ इति हि ब्राह्मे ॥ 20 ॥ ॐ दर्शनाच्च ॐ ॥ 21-315 ॥ ‘नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसल्लीनान् निश्येषसुखवर्जितान् ॥ नित्यमेव तथाभूतान् विमिश्रांश्च गणान् बहून् । निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥ अपश्यत् त्रिविधान् ब्रह्मा साक्षादेव चतुर्मुखः’ इति दर्शनवचनाच्च पाद्मे॥ 21 ॥ ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ 22-316 ॥ तृतीये तृतीयतमस श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्तिः ॥ 22 ॥ ॐ स्मरणाच्च ॐ ॥ 23-317 ॥ ‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् । श्रवणादेव मूर्च्छादिरधरस्य यतो भवेत् ॥ तस्मान्न विस्तरेण्यैतत् कथ्यते राजसत्तम’ इति कौर्मे ॥ 23 ॥ ॥ इति महातमोऽधिकरणम् (नतृतीयाधिकरणम्) ॥ 15 ॥ तत्स्वाभाव्याधिकरणम् ‘धूमो भूत्वाऽभ्रं भवति’ इत्याद्यन्यभावः श्रूयते । स कथमित्यतो ब्रवीति- ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ 24-318 ॥ धूमादिषु प्रविश्य तद्गतौ गतिः स्थितौ स्थितिरित्यादिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः । गारुडे च- धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु । स्थितौ स्थितिः प्रवशश्च लघुत्वादिस्तथैव च ॥ न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते । विद्यागम्यं पदं यस्मात् न तत्प्राप्यं हि कर्मणा॥ एकदेशस्वभावेन वागभेदाऽपि युज्यते । यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि’ इति ॥ 24 ॥ ॥ इति तत्स्वाभाव्याधिकरणम् ॥ 16 ॥ नातिचिरेणाधिकरणम् बहुस्थानगमनात् कल्पान्तमप्येवं स्यादित्यत आह- ॐ नातिचिरेण विशेषात् ॐ ॥ 25-319 ॥ ‘तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्यन्ते’ इति विशेषान्नातिचिरेण ॥ स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात्पूर्वमेव तु । मातुः शरीरमाप्नोति पर्यटन् यत्र तत्र च’ इति च नारदीये ॥ 25 ॥ ॥ इति नातिचिरेणाधिकरणम् (अचिरप्राप्त्यधिकरणम्) ॥ 17 ॥ अन्या(धिष्ठिता)धिकरणम् ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ इति श्रवणादनर्थफलत्वं यज्ञादेरित्यतो वक्ति- ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ 26-320 ॥ अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽस्य । ‘धूमोभूत्वाऽभ्रं भवति’ इत्यादिपूर्वोक्तिवत् ॥ ‘सोऽवाग्गतः स्थावरान् प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमेति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते’ इत्यभिलापात् कौषारवश्रुतौ । ‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः । अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः’ इति वाराहे ॥ 26 ॥ ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥ 27-321 ॥ हिंसारूपत्वात् पापस्यापि सम्भवाद्धुःखं च भवत्विति चेन्न। शब्दविहितत्वात्॥ ‘हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत्। वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन’ इति वाराहे॥ 27 ॥ ॥ इति अन्या(धिष्ठिता)धिकरणम् ॥ 18 ॥ रेतोऽधिकरणम् ‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इति वचनात् ‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’ इति श्रुतिः कथमित्यत आह- ॐ रेतःसिग्योगोऽथ ॐ ॥ 28-322 ॥ ‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतो विशति। मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ 28 ॥ ॥ इति रेतोऽधिकरणम् ॥ 19 ॥ योन्यधिकरणम् ‘देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गतः’ इति वचनात् पश्चादेव प्रविशतीत्यत आह- ॐ योनेः शरीरम् ॐ ॥ 29-323 ॥ पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति । ‘दिवः स्थास्नून् गच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति सम्मितम् । अथासम्मितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा’ इति पौष्यायणश्रुतेः ॥ ‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् । पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥ देहेन जायते जन्तुरिति सामान्यतो जनिः । विशेषजननं चापि प्रोच्यमानं निबोध मे ॥ स्थास्नुष्वथापि पुरुषे प्रमादायामथापि वा । गर्भे वा बहिरेवाथ क्वचित् स्थानान्तरेषु च’ इति ब्राह्मे ॥ 29 ॥ ॥ इति योन्यधिकरणम् ॥ 20 ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ 03-01 ॥ द्वितीयः पादः भक्तिरस्मिन् पाद उच्यते। भक्त्यर्थं भगवन्महिमोक्तिः। प्राणाधिकरणम् ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ 01-324 ॥ न स्वप्नोऽपि तं विना प्रतीयते । ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ । रथान् रथयोगान् पथः सृजते’ इत्यादि श्रुतेः ॥ 01 ॥ ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ 02-325 ॥ ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः’ इति च । ‘एतस्माद्ध्येव पुत्रो जायत एतस्माद् भ्रातैतस्माद्भार्या यदेनं पुरुषमेष स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ॥ 02 ॥ केन साधनेन ?- ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्त स्वरूपत्वात् ॐ ॥03-326॥ अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति नान्येन साधनेन, सम्यगनभिव्यक्तत्वात् । ब्रह्माण्डे च – ‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स्वप्न इति गीयते ॥ यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत्’ इति ॥ 03 ॥ ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥ 04-327 ॥ साधनान्तराभावेऽपि भावाभावसूचकत्वेन चेश्वरो दर्शयति । ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने’ इत्यादिश्रुतेः । हिशब्दाद्दर्शनाच्च । ‘यद्वाऽपि ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । स्वप्नस्थमथवा राजा तत् तथैव भविष्यति’ ॥ इत्याद्याचक्षते च स्वप्नविदो व्यासादयः ॥ 04 ॥ ॥ इति सन्ध्याधिकरणम् ॥ 01 ॥ प्राणाधिकरणम् ॐ पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥05-328॥ बन्धमोक्षप्रदत्वात् स एव स्वप्नतिरस्कर्ता । ‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च । तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ इति कौर्मे ॥ 05 ॥ ॥ इति पराभिध्यानाधिकरणम्॥ 02 ॥ प्राणाधिकरणम् ॐ देहयोगाद्वासोऽपि ॐ ॥ 06-329 ॥ देहयोगेन वासो जाग्रदपि तत एव । ‘स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट् स एको बहुधा भवति’ इति कौण्ठरव्यश्रुतेः ॥ 06 ॥ ॥ इति देहयोगाधिकरणम् ॥ 03 ॥ प्राणाधिकरणम् ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ ॥ 07-330 ॥ जाग्रत्स्वप्नाभावः सुप्तिः नाडीस्थे परमात्मनि । ‘आसु तदा नाडीषु सुप्तो भवति’ ‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेः ॥ 07 ॥ ॥ इति तदभावाधिकरणम् ॥ 04 ॥ प्राणाधिकरणम् ॐ अतः प्रभोधोऽस्मात् ॐ ॥ 08-331 ॥ यतस्तस्मिन् सुप्तिः ॥ ‘एष एव सुप्तं प्रभोधयत्येतस्माज्जीव उत्तिष्ठत्येष प्रमातै ष परमः’ इति कौण्डिन्यश्रुतिः ॥ 08 ॥ ॥ इति प्रभोधाधिकरणम्॥ 05 ॥ प्राणाधिकरणम् ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ 09-332 ॥ न च केषाञ्चित् स्वप्नादिकर्ता न तु सर्वेषामिति । ‘एष ह्येव साधु कर्म कारयति’ इति कर्मण्यवधारणात् ॥ ‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु । परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ॥ ‘एष स्वप्नान् दर्शयत्येष प्रबोधयथ्यैष एव परम आनन्दः’ इति च श्रुतिः ॥ आत्मानमेव लोकमुपासीत’ इति च विधिः ॥ 09 ॥ ॥ इति कर्मानुस्मृत्यधिकरणम् ॥ 06 ॥ प्राणाधिकरणम् ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ 10-333 ॥ मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य । ‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥ यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः । अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः’ इति वाराहे ॥ सोऽपि तत एवेति सिद्धम् । ‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते । स ईशः परमो ज्ञेयः परमानन्दलक्षणः’ इति हि कौर्मे ॥ 10 ॥ ॥ इति मुग्धप्राप्त्यधिकरणम् (सम्पत्त्यधिकरणम्) ॥ 07 ॥ स्थान(तोऽप्य)भेदाधिकरणम् स्वानापेक्षया, परमात्मनो भेदादनुग्राह्यानुग्राहकभाव इत्यत आह- ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ 11-334 ॥ स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् । ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति श्रुतिः । ‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते’ इति मात्स्ये ॥ ‘प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः’ इति च भागवते ॥ 11 ॥ ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ॥ 12-335 ॥ ‘कार्यकारणबद्धौ ताविष्येते विश्वतेजसौ । प्राज्ञः कारणबद्धस्तुद्वौ तु तुर्ये न सिद्ध्यतः’ ॥ इति भेदवचनान्नेति चेन्न । ‘एष त आत्माऽन्तर्याम्यमृतः’ । ‘अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ । ‘अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च । तदेतद्ब्रह्मापूपर्वमनपरमनन्तरमबाह्यमयामात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्’ इति प्रत्येकमभेदवचनात् ॥ 12 ॥ ॐ अपि चैवमेके ॐ ॥ 13-336 ॥ एवमभेदेनैव । चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति । ‘अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओङ्कारो विदितो येन स मुनिर्नेतरो जनः’ इति । अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च युज्यते । ब्रह्मतर्के च- ‘बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितेः । निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः’ इति ॥ 13 ॥ ॥ इति स्थान(तोऽप्य)भेदाधिकरणम् ॥ 08 ॥ अरूपाधिकरणम् रूपवत्त्वादनित्यत्वमित्यतो वक्ति- ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ 14-337 ॥ प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हि शब्दाद्’अस्थूलमनणु’ इत्यादिश्रुतेश्च । ‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः । अरूपवानतः प्रोक्तः क्व तदव्यक्ततः परे’ इति च मात्स्ये॥ 14 ॥ ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ 15-338 ॥ ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । ‘श्यामाच्चबलं प्रपद्ये’‘सुवर्णज्योतिः’ इत्यादिश्रुतीनां च न वैयर्थ्यम् । विलक्षणरूपवत्वात् । यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रकाशादिव्यवहारः ॥ 15 ॥ ॐ आह च तन्मात्रम् ॐ ॥ 16-339 ॥ वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं’ऐकात्म्यप्रत्ययसारम्’ इति । आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृष्यमानम् । तमात्मस्थं योऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्’ इति चतुर्वेदशिखायाम् ॥ 16 ॥ ॐ दर्शयति चाथो अपि स्मर्यते ॐ ॥ 17-340 ॥ दर्शयति चानन्दस्य रूपत्वं ‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’ इति ॥ ‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् । चिन्तयीति यतिर्नान्यं ज्ञानरूपादृते हरेः’ इति च मात्स्ये॥ 17 ॥ ॥ इति अरूपाधिकरणम् ॥ 09॥ प्राणाधिकरणम् ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ 18-341 ॥ यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्वेदः अतः सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा च शब्देन भेदं दर्शयति । ‘रूपं रूपं प्रतिरूपो बभूव’। ‘बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मताः’ इत्यादि ॥ अथ एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्यधीनत्वादिना ॥ 18 ॥ ॥ इति उपमाधिकरणम्॥ 10 ॥ प्राणाधिकरणम् नित्यसिद्धत्वात् सादृश्यस्य नित्यानन्दज्ञानादेर्न भक्तिज्ञानादिना प्रयोजनमित्यतो ब्रवीति- ॐ अम्बुवदग्रहणात् तु न तथात्वम् ॐ ॥ 19-342 ॥ अम्बुवद् स्नेहेन । ग्रहणं ज्ञानम्। भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यते । ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति हि श्रुतिः। ‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते । तथैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’ इति पाद्मे ॥ 19 ॥ ॥ इति अम्बुवदधिकरणम् ॥ 11 ॥ वृद्धिह्रासाधिकरणम् ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥20-343॥ तस्य च भक्तिज्ञानदेर्वृद्धिह्रासभाक्त्वं विद्यते । ब्रह्मादीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् । एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीनन्यान् प्रति च सामञ्जस्यं भवति। ‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः । ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः’ इति च ब्राह्मे ॥ 20 ॥ कुतः? – ॐ दर्शनाच्च ॐ ॥ 21-344 ॥ ‘अथात आनन्दस्य मीमांसा भवति’ इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । चशब्दात् स्मृतिः यथा भक्तिविशेषोऽत्र दृष्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने’ इति ॥ 21 ॥ ॥ इति वृद्धिह्रासाधिकरणम् ॥ 12 ॥ पालकत्वाधिकरणम् सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह- ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ 22-345 ॥ उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति । ‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति । च शब्दात् स्मृतिश्च । ‘सृष्टिं च पालनं चैव संहारं नियमं तथा । एक एव करोतीशः सर्वस्य जगतो हरिः’ इति ब्रह्माण्डे ॥ 22 ॥ ॥इति पालकत्वाधिकरणम् (प्रकृत्यधिकरणम्) ॥ 13 ॥ अव्यक्ताधिकरणम् परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते- ॐ तदव्यक्तमाह हि ॐ ॥ 23-346 ॥ अव्यक्तमेव तद्ब्रह्म स्वतः । ‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्फलम्। यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत्’ इति कौण्ठरव्यश्रुतिः ॥ 23 ॥ ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ 24-347 ॥ आराधनेऽप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन। ‘न तमाराधयित्वाऽपि कश्चिद्वक्तीकरिष्यति । नित्याव्यक्तो यतो देवः परमात्मा सनातनः’ इति ब्रह्मवैवर्ते ॥ 24 ॥ नित्याव्यक्तरूपेण तथैव तिष्ठति। व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यधाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्त एवमिति चेन्न। ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥ 25-348 ॥ अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात्। ‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परम इति’ इति माण्डव्यश्रुतेः । ‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित् परमेश्वरे । सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः’ इति च गारुडे ॥ ‘अव्यक्तव्यक्तभावौ च न क्वचित् परमेश्वरे । सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः’ इति च कौर्मे ॥ 25 ॥ तर्हि किं यत्नेनेत्यत आह- ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ 26-349 ॥ विषयभूते तस्मिन्नेव श्रवाणाध्यभ्यासात् प्रकाशश्च भवति । ‘आत्मा वा अरे द्रष्टव्यः श्रोदव्यो मन्तव्यो निदिध्यासितव्यः’ इति श्रुतेः ॥ 26 ॥ नित्याव्यक्तस्य कथं प्रकाशः इत्यत उच्यते- ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ 27-350 ॥ उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति । ‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’ इति लिङ्गात् । युज्यते च तस्यानन्तशक्तित्वात् । नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः। तमृते परमात्मानं कः पश्येतामितं प्रभुम्’ इति नारायणाध्यात्मे॥27॥ ॥ इति अव्यक्ताधिकरणम् ॥ 14 ॥ उभयव्यपदेशाधिकरणम् स्वरूपेणानन्दादिना कथमानन्दित्वादिरित्यत उच्यते- ॐ उभयव्यपदेशात् त्त्वहिकुण्डलवत् ॐ ॥ 28-351 ॥ ‘आनन्दं ब्रह्मणो विद्वान्’ ।’अथैष एव परम आनन्दः’ इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात् केवलश्रुतिगम्यत्वं दर्शयति ॥ 28 ॥ ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ 29-352 ॥ यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च, एवं वा दृष्टान्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ 29 ॥ ॐ पूर्ववद्वा ॐ ॥ 30-353 ॥ यथैक एव कालः पूर्व इत्यवच्छेदकोऽवच्छेद्यश्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलमतीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः । प्रकाशवत् कालवद्वा यथाऽङ्गे शयनादिकम् । ब्रह्मणश्चैव मुक्तानामानन्दोऽभिन्न एव तु’ इति नारायणाध्यात्मे। ‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत्। कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत्’ इति ब्राह्मे ॥ 30 ॥ ॐ प्रतिषेधाच्च ॐ ॥ 31-354 ॥ ‘एकमेवाद्वितीयम्’ ।‘नेह नानाऽस्ति किञ्चन’ इति भेदस्य ॥ 31 ॥ ॥ इति उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ॥ 15 ॥ परानन्दा(परमता)धिकरणम् ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥ 32-355 ॥ न चानन्दादित्वाल्लोकानन्दादिवत् । ‘एष सेतुर्विधृति’ ‘य एष आनन्दः परस्य’‘एष नित्यो महिमा ब्राह्मणस्य’ इति सेतुत्वं ह्युच्यते.‘यतो वाचो निवर्तन्ते’ इत्युन्मानत्वम् ।‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सम्बन्धः। ‘अन्यज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ इति भेदः ॥ अतोऽलौकिकत्वात् परमेव ब्रह्मानन्दादिकम् ॥ 32 ॥ ॐ दर्शनात् तु ॐ ॥ 33-356 ॥ दर्शनादेवचान्यानन्दादीनाम् । ‘अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते’ इति कौण्डिन्यश्रुतिः ॥ 33 ॥ अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति – ॐ बुद्ध्यर्थः पादवत् ॐ ॥ 34-357 ॥ जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा पादशब्देन व्यपदिश्यते’पादोऽस्य विश्वा भूतानि’ इति तथा । ‘अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते । ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्’ इति च पाद्मे ॥ 34 ॥ ॥ इति परानन्दा(परमता)धिकरणम् ॥16॥ स्थानविशेषाधिकरणम् परानन्दमात्रत्वे कथं ब्रह्माद्यानन्दादीनां विशेष इत्यत उच्यते – ॐ स्थानविशेषात् प्रकाशादिवत् ॐ ॥ 35-358 ॥ यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बविशेष एवमानन्दादेरपि । ‘ब्रह्मादिगुणवैशेष्यादानन्दः परमस्य च । प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः’ इति वाराहे ॥ 35 ॥ ॐ उपपत्तेश्च ॐ ॥ 36-359 ॥ ‘ऐश्वर्यात् परमाद्विष्णोर्भक्त्यादीनामनादितः । ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’ इति हि पाद्मे ॥ 36 ॥ ॥ इति स्थानविशेषाधिकरणम् ॥ 17 ॥ प्रतिषेधाधिकरणम् ध्यानकाले यच्चित्ते दृष्यते तदेव ब्रह्मरूपम् । अतः कथमव्यक्ततेत्यत आह- ॐ तथाऽन्यत् प्रतिषेधात् ॐ ॥ 37-360 ॥ यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि । ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इति प्रतिषेधात् । ‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥ तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् । उपासना त्वापरोक्ष्यं गमयेत् तत्प्रसादतः’ इति च ब्रह्मतर्के ॥ 37 ॥ ॥ इति प्रतिषेधाधिकरणम् (तथान्यत्वाधिकरणम्) ॥ 18 ॥ सर्वगतत्वाधिकरणम् देशकालान्तरेऽन्यतोऽपि सृष्ट्याधिर्युक्तेत्यतो ब्रूते- ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ 38-361 ॥ सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते । ‘एष सर्व एष सर्वगत एष ईश्वर एषोऽचिन्त्य एष परमः’इति भाल्लवेयश्रुतिः ‘सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुषु । स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥ इति चतुर्वेदशिखायाम् ॥ आदिशब्दादन्यत्र प्रमाणाभावाच्च ॥ 38 ॥ ॥ इति सर्वगतत्वाधिकरणम् ॥ 19 ॥ फलदानाधिकरणम् कर्मापेक्षत्वात् फलदानस्य तदेव ददातीति न वाच्यम् । कुतः ?- ॐ फलमत उपपत्तेः ॐ ॥ 39-362 ॥ अत एवेश्वरात् फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ॥ 39 ॥ ॐ श्रुतत्वाच्च ॐ ॥ 40-363 ॥ ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ इति ॥ 40 ॥ ॐ धर्मं जैमिनिरत एव ॐ ॥ 41-364 ॥ यतः फलं तदेव कर्मेश्वराद्भवति ।’ एष ह्येव साधु कर्म कारयति’ इति श्रुतेरिति जैमिनिः ॥ 41 ॥ ॐ पूर्वं तु बादरायणो हेतु व्यपदेशात् ॐ ॥ 42-365 ॥ परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म परप्रवर्तकम् । पर एव कर्मप्रवर्तकः ।’पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति हेतुव्यपदेशात् ।’द्रव्यं कर्म च कालश्च’ इति च ॥ 42 ॥ ॥ इति फलदानाधिकरणम् ॥ 20 ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ 03-02 तृतीयः पादः उपासनाऽस्मिन् पाद उच्यते। सर्वपरिज्ञानं प्रथमत उच्यते- प्राणाधिकरणम् ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ 01-366 ॥ अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ इति वचनात् । सर्ववेद निर्णयोत्पाद्यज्ञानं ब्रह्म ।’आत्मेत्येवोपासीत’ इत्यादिविधीनां तदुक्त युक्तीनां चाविशिष्टत्वात् ॥ 01 ॥ ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ 02-367 ॥ ‘विज्ञानमानन्दं ब्रह्म’’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि प्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न । एकस्यामपि शाखायां’आत्मेत्येवोपासीत’‘ॐ खं ब्रह्म’ इत्यादिभेददर्शनात् ॥ 02 ॥ ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ 03-368 ॥ ‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधेः । हिशब्दात् वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृतेः । ‘सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥ सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः । शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’ इति समाचारे सर्वेषामधिकाराच्च ॥ 03 ॥ ॐ सलिलवच्च तन्नियमः ॐ ॥ 04-369 ॥ यथा सर्वं सलिलं समुद्रं गच्छत्येवं सर्वाणि वचनानि ब्रह्मज्ञानार्थानीति नियमः । आग्नेये च – ‘यथा नदीनां सलिलं शक्ये सागरगं भवेत् । एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये’ इति ॥ 04 ॥ ॐ दर्शयति च ॐ ॥ 05-370 ॥ ‘सर्वैश्च वेदैः परमो हि देवो जीज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत् । तस्मादेनं सर्वेवेदानदीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’ इति चतुर्वेदशिखायाम् । ‘सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् । सपञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा’ इति ब्रह्मतर्के ॥ 05 ॥ ॥ इति सर्वेवेदा(न्तप्रत्यया)धिकरणम् ॥ 01 ॥ प्राणाधिकरणम् सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह- ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॐ ॥ 06-371 ॥ सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः । ‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतीहासैः । सपञ्चरात्र्यै सपुराणैश्च देवः सर्वगुणैस्तत्र तत्र प्रतीतैः’ इति भाल्लवेयश्रुतिः । आग्नेये च- विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि । यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥ एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः । योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥ समानविषये चोपसंहारः । न तु’सोऽरोदीत्’ इत्यादिनाम् । गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन। गुणैरपि न तूपास्यो यो पूर्णत्वविरोधिनः’ इति बृहत्तन्त्रे ॥ 06 ॥ ॐ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॐ ॥ 07-372 ॥ ‘आत्मेत्येवैपासीत’ इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्य इति विशेषवचनाभावात् । ‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’ इति विशेषवचनाच्च । आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥ ॐ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॐ ॥ 08-373 ॥ प्रकरणभेदान्नवोपसंहारः कार्यः । परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥ ॐ सङ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ॐ ॥ 09-374 ॥ सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नात्मवित्’ इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः । ‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृति । कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा’ इति च ब्रह्मतर्के ॥ इति चेत् सत्यम् । उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव । ‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’ इति कौण्डिन्यश्रुतौ ॥ 09 ॥ ॥ इति उपसंहाराधिकरणम्॥ 2 ॥ प्राणाधिकरणम् ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ 10-375 ॥ युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् । ‘गुणैःसर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः । अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’ इति भविष्यत्पर्वणि ॥ 10 ॥ ॥ इति प्राप्तैधिकरणम् ॥ 03 ॥ प्राणाधिकरणम् ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ 11-376 ॥ सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति । ‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् । इतरे तु यथायोगं सम्यङ् मुक्तौभवन्ति हि’ इति पाद्मे ॥ 11 ॥ ॥ इति सर्वाभेदाधिकरणम् ॥ 04 ॥ प्राणाधिकरणम् सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति आह- ॐ आनन्दादयः प्रधानस्य ॐ ॥ 12-377 ॥ प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव । ‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता । सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता’ इति ब्रह्मतर्के ॥ 12 ॥ ॥ इति आनन्दाद्यधिकरणम् ॥ 05 ॥ प्राणाधिकरणम् ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ 13-378 ॥ फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिः । ‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः । विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता’ इति हि वाराहे ॥ 13 ॥ ॥ इति प्रियशिरस्त्वाधिकरणम् ॥ 06 ॥ प्राणाधिकरणम् ॐ इतरे त्वर्थसामान्यात् ॐ ॥ 14-379 ॥ इतरे गुणाः फलसाम्यापेक्षयोपसंहर्थव्याः ॥ 14 ॥ ॥ इति इतराधिकरणम् (फलसाम्याधिकरणम्) ॥ 07 ॥ अध्यानाधिकरणम् उपसंहारानुपसंहारप्रमाणमाह – ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ 15-380 ॥ आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥ ‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुधीरणा । ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥ नान्यत् प्रयोजनं ज्ञानाध्यानात् कर्मकृतेरपि । श्रवणाच्चाथ पाठाद्वा विद्याभिः कञ्चिदिष्यते’ इति परमसंहितायाम् ॥ ‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः । नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥ ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् । मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’ इति ब्रह्मतन्त्रे ॥ 15 ॥ ॐ आत्मशब्दाच्च ॐ ॥ 16-381 ॥ ‘आत्मेत्येवोपासीत’ इत्यनुपसंहारप्रमाणम् ॥ 16 ॥ ॥ इति अध्यानाधिकरणम् ॥ 08 ॥ आत्मगृहीत्यधिकरणम्॥ ॐ आत्मगृहीतिरितवदुत्तरात् ॐ ॥ 17-382 ॥ न च’आनन्दादयः प्रधानस्य’ इत्युक्तिविरोधः । यतः’सत्यं ज्ञानमनन्तम् ब्रह्म।’विज्ञानमानन्दम् ब्रह्म’ इतिवदेवात्मशब्दगृहीतिः । ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्युत्तरात् । ‘आनन्दानुभवत्त्वाच्च निर्दोषत्वाच्च भण्यते । नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः’ इति बृहत्तन्त्रे ॥ 17 ॥ ॥ इति आत्मगृहीत्यधिकरणम्॥ 09 ॥ अन्वयाधिकरणम् ॐ अन्वयादिति चेत् स्यादवधारणात् ॐ ॥ 18-383 ॥ सर्वगुणानामान्वय आत्म शब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’ इति वचनादिति चेत् सत्यम् । स्याच्च्यैवं । आत्मेत्येवेत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥ ॥ इति अन्वयाधिकरणम् ॥ 10 ॥ कार्या(ख्यान)धिकरणम् ॐ कार्याख्यानादपूर्वम् ॐ ॥ 19-384 ॥ ‘अलौकिकास्तस्य गुणा ह्युपास्य अलौकिकं मुक्तिकार्यं यतोऽस्य’ इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥ ॥ इति कार्या(ख्यान)धिकरणम् ॥ 11 ॥ समानाधिकरणम् ॐ समान एवं चाभेदात् ॐ ॥ 20-385 ॥ अपूर्वत्वेऽपि समानानामेवोपसंहारः। न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ॥ 20 ॥ समानाधिकरणम् ॐ सम्बन्धादेवमन्यत्रापि ॐ ॥ 21-386 ॥ परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते। ‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः । विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः’ इति ब्रह्मतन्त्रे ॥ 21 ॥ यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेन्न। प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम्। दृष्यते चान्यत्रोत्तमत्वम् ॥ 36 ॥ प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चेन्न । श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात् परमात्मनो ह्युपदिष्टम् ॥ 37 ॥ ॥ इति समानाधिकरणम् ॥ 12 ॥ ॐ न वा विशेषात् ॐ ॥ 22-387 ॥ न वा ऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥ ॐ दर्शयति च ॐ ॥ 23-388 ॥ ‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’ इति भाल्लवेयश्रुतिः ॥ 23 ॥ ॥ इति विशेषणाधिकरणम्(नानाधिकरणम्) ॥ 13 ॥ सम्भृत्यधिकरणम् ॐ सम्भृतिद्युव्याप्तपि चातः ॐ ॥ 24-389 ॥ सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् । ‘देवादीनामुपास्यास्तुभृतिव्याप्त्यादयो गुणाः । आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत्’ इति च ब्रह्मतर्के ॥ 24 ॥ ॥ इति सम्भृत्यधिकरणम् ॥ 14 ॥ पुरुषविद्याधिकरणम् यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितराऽन्येषामिति चेन्न – ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ 25-390 ॥ पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् । ‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः । तत्रापि नैव सर्वेऽपि तस्मात् कार्योपसंहृतिः’ इति ब्रह्मतर्के ॥ 25 ॥ ॥ इति पुरुषविद्याधिकरणम् ॥ 15 ॥ वेधाद्यधिकरणम् ॐ वेधाद्यर्थभेदात् ॐ ॥ 26-391 ॥ ‘भिन्धि विद्धि श्रुणीहीति फलभेदेन सर्वशः । यत्यादीनां तेष्वयोगान्नाधिकार्येकता भवेत् । अयोग्योपासनादीयुरनर्थं चार्थनाशनम्’ इति बृहत्तन्त्रे ॥ ॥ इति वेधाद्यधिकरणम् ॥ 16 ॥ मुक्तोपासनाधिकरणम् मुक्तस्योपासना कर्तव्या न वेत्यतो ब्रवीति – ॐ हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत् तदुक्तम् ॐ ॥27-392॥ नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः ।’ब्रह्मविदाप्नोति परम्’ इति मोक्षवाक्यशेषत्वादितरेषाम् ॥ तच्चोक्तम्’’एतत् सामगायन्नास्ते’ इत्यादि । ब्रह्मतर्के च- ‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः । नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥ ‘कृष्णो मुक्यैरिज्यते वीतमोहैः’ इति च भारते ॥ 27 ॥ ॐ साम्परायेतर्तव्याभावात् तथा ह्यन्ये ॐ ॥ 28-393 ॥ स्वेच्छयैवेत्यङ्गीकर्तव्यम् । मुक्तस्य तीर्णत्वात् ।‘तीर्णो हि तदा सर्वां भवति’ इति ह्यन्ये पठन्ति । वायुप्रोक्ते च ‘स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः । ब्रह्मलोकं गताः सर्वे ब्रह्मणा च परं गताः । तीर्णतर्तव्यभागश्च स्वेच्छयोपासते परम्’ इति ॥ 28 ॥ ॥ इति मुक्तोपासनाधिकरणम् (हान्यधिकरणम्) ॥ 17 ॥ छन्दादिकरणम् कर्मापि कुर्वन्ति न वेत्याह – ॐ छन्दत उभयाविरोधात् ॐ ॥ 29-394 ॥ स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥ ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा ह विरोधः ॐ ॥ 30-395 ॥ बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥ ‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते । नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥ तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः । प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’ इति हि ब्रह्माण्डे ॥ 30 ॥ ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ॥ 31-396 ॥ उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥ इति छन्दादिकरणम् प्राणाधिकरणम् ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥ 32-397 ॥ प्राप्तज्ञानानामपि केषाञ्चिन्मुक्तिप्राप्तिः केषाञ्चिन्न, यथोपसंहारनियम इति न मन्तव्यम् । ‘सर्वेगुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्युपसंहारविरोधादन्यत्राविरोधात् । ‘न कश्चिद्ब्रह्मवित् स्मृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः स्मृतिहेति’ इति कौण्डन्यश्रुतेश्च । यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्च॥ 32 ॥ ॥ इति अनियमाधिकरणम् ॥ 19 ॥ यावदधिकाराधिकरणम् ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ 33-398 ॥ यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते ।‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यः ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्दः’ इति चतुर्वेदशिखायाम् । अध्यात्मे च – ‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च । यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥ ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् ॐ ॥34-99 ॥ न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । औपसदवच्छिष्यवत् । उक्तं च तुरश्रुतौ – ‘नानाविधा जीवसङ्घा विमुक्तौन चैव तेषां ब्रह्मधियां विरोधः। दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥ ॥ इति यावदधिकाराधिकरणम् ॥ 20 ॥ इयदामननाधिकरणम् ॐ इयदामननात् ॐ ॥ 35-400 ॥ नामाध्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम्। न प्राणात् किञ्चिद्बूय उक्तम् । तथाऽपि पूर्ववत् स्यात् इति न वाच्यम् । प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान् प्राणो ह्येव भूयांस्तस्माद्भूयान् नाम’ इति कौण्ठरव्यश्रुतेः ॥ 35 ॥ ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ 36-401 ॥ ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ॥ 37-402 ॥ ॥ इति इयदामननाधिकरणम् ॥ 21 ॥ व्यतिहाराधिकरणम् नेति चेन्न- ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥ 38-403 ॥ उक्तं प्राणात् परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण’एष तु वा अतिवदति’ इति विशिंषन्ति हि । यथेतरेषु विशेषणम् । ‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् । तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति च ब्रह्मतन्त्रे ॥ 38 ॥ ॥ इति व्यतिहाराधिकरणम् ॥ 22 ॥ सत्याद्यधिकरणम् कृतिर्निष्ठा ज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेन्न – ॐ सैव हि सत्यादयः ॐ ॥ 29-404 ॥ सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः । ब्रह्मतर्के च – ‘नामादिप्राणपर्यन्ताद्योहि सत्यादिरूपवान् । तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥ ‘सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते’ इति चाध्यात्मे ॥ 39 ॥ ॥ इति सत्याद्यधिकरणम् ॥ 23 ॥ कामाधिकरणम् प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इत्यत्रोच्यते- ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ ॥ 40-405 ॥ स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोतीश्वरेच्छानुसारेण । ‘सर्वायतना सर्वकाला सर्वेच्छा न बद्धाबन्धिका सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः । ‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च । उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥ श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् । नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’ इति ब्रह्मतर्के ॥ 40 ॥ ॐ आदरादलोपः ॐ ॥ 41-406 ॥ अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति । ‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकर्माऽपि सर्वदा । उपास्ते नित्यशो विष्णमेवं भक्तो हरेर्भवेत्’ इति बृहत्तन्त्रे ॥ 41 ॥ ॐ उपस्थितेस्तद्वचनात् ॐ ॥ 42-407 ॥ अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥ ॥ इति कामाधिकरणम् ॥ 24 ॥ निर्धारणाधिकरणम् दर्शनार्थं ह्युपासनम् । तच्च श्रवणादेरेव भवति । अतः किमर्थमित्यत्रोच्यते– ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः पलम् ॐ॥43-408 ॥ तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । हिशब्देन’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतिं सूचयति । श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः । ब्रह्मतर्के च – ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ॥ 43 ॥ ॥ इति निर्धारणाधिकरणम् ॥ 25 ॥ प्रदानाधिकरणम् ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ 44-409 ॥ न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति।’आचार्यवान् पुरुषो वेद’ इति ह्युक्तम् ॥ 44 ॥ ॥ इति प्रदानाधिकरणम् ॥ 26 ॥ गुरुप्रसादाधिकरणम् गुरुप्रसादः स्वप्रयत्नो वा बलवानिति निगद्यते- ॐ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॐ ॥ 45-410 ॥ ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन’भगवांस्त्वेव मे कामं ब्रूयात्’ श्रुतं ह्येव भगवद्दृशेभ्य आचार्याद्यैव विद्या विदिता साधिष्ठं प्रापयति’ इति वचनात् ।‘अत्र ह न किञ्चन वीयाय’ इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रदानमेव बलवत् । तर्हि तावताऽलमिति न मन्तव्यम् ।’श्रोतव्यो मन्तव्यः’ इत्यादेस्तदपि कर्तव्यम् । वाराहे च – ‘गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् । तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’ इति ॥ 45 ॥ ॥ इति गुरुप्रसादाधिकरणम् (लिङ्गभूयस्त्वाधिकरणम्) ॥ 27 ॥ पूर्वविकल्पाधिकरणम् ॐ पूर्वविकल्पःप्रकरणात् स्यात् क्रियामानसवत् ॐ ॥ 46-411 ॥ न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः । ‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥ समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् । ऋषभाद्यनुज्ञया चैष प्राप तस्माद्धि युज्यते’ इति बृहत्तन्त्रे ॥ ‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि । कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥ ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् । एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’ इति महासंहितायाम् ॥ 46 ॥ ॐ अतिदेशाच्च ॐ ॥ 47-412 ॥ ‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतीदेशाच्च॥ 47 ॥ ॥ इति पूर्वविकल्पाधिकरणम् ॥ 28 ॥ विद्याधिकरणम् न च’कर्मण्यैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिनाऽन्यन्मोक्षसाधनम् । ‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ इति निर्धारणाद्विद्ययैव मोक्षः ॥ 48 ॥ ॐ विद्यैव तु निर्धारणात् ॐ ॥ 48-413 ॥ ॐ दर्शनाच्च ॐ ॥ 49-414 ॥ न केवलं विद्यया किन्त्वपरोक्षज्ञानेनैव च। सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’ इति कौशिकश्रुतेः ॥ 49 ॥ ॥ इति विद्याधिकरणम् ॥ 29 ॥ अबाधाधिकरणम् ॐ श्रुत्यादिबलीयास्त्वाच्च न बाधः ॐ ॥ 50-415 ॥ सावधारणा बलवति श्रुतिः । ‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपपन्नः॥ न कर्मभिर्न धनैर्नैव चान्यैः पश्ये सुखं तेन तत्त्वं ब्रवीहि’ इति बलवल्लिङ्गम् ॥ ‘नास्त्यकृतः कृतेन’ इत्युपपत्तिश्च । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’ इति युक्तिमद्बगवद्वचनम् ॥ अतो न प्रमाणान्तरबाधः ।’कर्मण्यैव’ इत्ययोगव्यवच्छेदः ॥ 50 ॥ ॥ इति अबाधाधिकरणम् (श्रुत्यधिकरणम्) ॥ 30 ॥ अनुबन्धाद्यधिकरणम् ॐ अनुबन्धादिभ्यः ॐ ॥ 51-416 ॥ न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् । किन्तु भक्त्यादिभिश्च । ‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः । यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥ तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः । लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥ ‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् । दद्याच्छमदमादिश्च तेन चैते गुणाः पुनः ॥ तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’ इति नारायणतन्त्रे ॥ 51 ॥ ॥ इति अनुबन्धाद्यधिकरणम् ॥ 31॥ दर्शनबेधादिकरणम् ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ 52-417 ॥ उपासनाभेदवद्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ – ‘अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवावाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते’ इति । आध्यात्मे च – ‘दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा । दर्शनेनान्तरेणान्ये देवाः सर्वत्र दर्शनात् ॥ तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः’ इति ॥ 52 ॥ ॥ इति दर्शनबेधादिकरणम् (प्रज्ञान्तराधिकरणम्) ॥ 52 ॥ सामान्याधिकरणम् ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ ॥ 53-418 ॥ न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः । ‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’ इति हि नारायणतन्त्रे॥ ‘मुच्यते नात्र सन्देहो दृष्ट्वा तु स्वात्मयोग्यया’ इति च ॥ ‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥ 53 ॥ ॥ इति न सामान्याधिकरणम् ॥ 33 ॥ ताद्विध्याधिकरणम् ‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’ इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेन्न । ‘तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुतेः । कथं तर्ह्येषा श्रुतिः – ॐ परेण शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः ॐ ॥ 54-419 ॥ परमात्मैवं भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यते। मायावैभवे च ‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् । तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥ स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः । भक्तिरित्युच्यते सैव करणं परमीशितुः’॥ इति सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ 54 ॥ ॥ इति ताद्विध्याधिकरणम् (परेणाधिकरणम्) ॥ 34 ॥ एकाधिकरणम् जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न मन्तव्यम् । कुतः ? ॐ एकः आत्मनः शरीरे भावात् ॐ ॥ 55-420 ॥ अंशांशिनोरेकत्वमेव । अंशिकर्मनिर्मितशरीर एवांशस्य भावात् ॥ 55 ॥ ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ 56-421 ॥ ज्ञानादिभेधे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादंशस्य । परमसंहितायां च – ‘अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा । पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥ ॥ इति एकाधिकरणम् ॥ 35 ॥ प्राणाधिकरणम् ॐ अङ्गावबद्धास्तुन शाखासु हि प्रतिवेदनम् ॐ ॥ 57-422 ॥ ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते। हिशब्दात् ‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् । उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः’ इति ब्रह्मतर्कवचनात् ॥ 57 ॥ ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ 58-423 ॥ सर्वदेवतामन्त्रा यथाऽधीयन्त एवमविरोधो वा । ‘उपासनाङ्गदेवानां परमाङ्गतया भवेत् । उपसंहृतिर्विशेषे तु फलनामन्यथा न तु ॥ पुरुषाणां विशेषाद्वा यथायोगं भविष्यति’ इति बृहत्तन्त्रे ॥ 58 ॥ ॥ इति अङ्गावबद्धाधिकरणम् ॥ 36 ॥ भूमाधिकरणम् ॐ भूम्नःक्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ 59-424 ॥ सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् । सर्वत्र सहभावात् दीक्षाप्रायणीयोदयनीयसवनत्र यावभृथात्मकः क्रतुः । ‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ॥ इति च गौपवनश्रुतिः ॥ 59 ॥ ॥ इति भूमाधिकरणम् ॥ 37 ॥ नाना(शब्दा)धिकरणम् ॐ नाना शब्दादिभेदात् ॐ ॥ 60-425 ॥ ‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा । ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥ अतः पूर्णत्वमीशस्य वानैवैषां प्रदृश्यते । अतः फलस्य नानात्वं नानैवोपासनं यतः’ इति ब्रह्मतर्के । अतो भूमत्वमपि नानैवोपास्यते ॥ 60 ॥ ॥ इति नाना(शब्दा)धिकरणम् ॥ 38 ॥ विकल्पाधिकरणम् ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ 61-426 ॥ स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया । ‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् । नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥ उपास्यते यथायोगं न वा फलविभेदतः’ इति च ब्रह्मतर्के ॥ 61 ॥ ॥ इति विकल्पाधिकरणम् ॥ 39 ॥ काम्याधिकरणम् ॐ काम्यास्तुयथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ 62-427 ॥ ‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् । तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् । तुष्ट्यर्थमीश्वरस्यैव न चोपास विदुष्यति’ इति बृहत्तन्त्रे ॥ 62 ॥ ॥ इति काम्याधिकरणम् ॥ 40 ॥ यथाश्रयभावाधिकरणम् ॐ अङ्गेषु यथाऽऽश्रयाभावः ॐ ॥ 63-428 ॥ अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं’चक्षोः सूर्यो अजायत’ इत्यादि तथा भावना कर्तव्या॥63॥ ॐ शिष्टेश्च ॐ ॥ 64-429 ॥ ‘यस्मिन् यस्मिन् यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’ इति पौत्रायणश्रुतेः ॥ 64 ॥ ॐ समाहारात् ॐ ॥ 65-430 ॥ ‘अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत। तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’ इति काषायणश्रुतौ समाहारवचनाच्च ॥ 65 ॥ ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ 66-431 ॥ ‘साधारण्यात् सर्वगुणाः परस्य समाहार्यास्तत्त्वदृशो मुमुक्षोः’ इति माण्डव्यश्रुतेश्च ॥ 66 ॥ ॥ इति यथाश्रयभावाधिकरणम् (अङ्गाधिकरणम्) ॥ 41 ॥ नवाधिकरणम् ॐ न वाऽतत्सहभावश्रुतेः ॐ ॥ 67-432 ॥ न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ॥ 67 ॥ ॐ दर्शनाच्च ॐ ॥ 68-433 ॥ ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते’ इति कमठश्रुतौ ॥ 68 ॥ ॥ इति नवाधिकरणम् ॥ 42 ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥ 03-03 ॥ चतुर्थः पादः ज्ञानसामर्थ्यमस्मिन् पाद उच्यते – पुरुषार्थाधिकरणम् ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ 01-434 ॥ यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते । ‘यं यं लोकं मनसा संविभाति विशुद्धस्तत्त्वः कामयते यांश्च कामान् । तं तं लोकं जायते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’ इति शब्दात् ॥ 01 ॥ ॐ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ 02-435 ॥ अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन । ‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इतिवदति जैमिनिः ॥ 02 ॥ ॐ आचारदर्शनात् ॐ ॥ 03-436 ॥ ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ 03 ॥ ॐ तच्छ्रुतेः ॐ ॥ 04-437 ॥ ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति शेषत्वश्रुतेः ॥ 04 ॥ ॐ समन्वारम्भणात् ॐ ॥ 05-438 ॥ ‘कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेन्नापरस्तत्र हेतुः । भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत्’ इति माठरश्रुतेश्च । संशब्द प्राधान्यं दर्शयति ॥ 05 ॥ ॐ तद्वतो विधानात् ॐ ॥ 06-439 ॥ ‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत्’ इति कमठश्रुतौ ज्ञानतोऽपि विधानात् ॥ 06 ॥ ॐ नियमाच्च ॐ ॥ 07-440 ॥ ‘कुर्वन्नेवेह कर्माणि जीजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति ॥ 07 ॥ ॐ अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ 08-441॥ ‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते । तथापि यथा यथा कर्म कुरुते तथा तथाऽधिको भवति’ इति कौण्ठरव्यश्रुतेः ॥ युधिष्ठिरादीनां राजसूयादिना फलाधिक्य दर्शनाच्चेति बादरायण मतम् ॥ 08 ॥ ॐ तुल्यम् तु दर्शनम् ॐ ॥ 09-442 ॥ राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् । ‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् । स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥ स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥ अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥ यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् । यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावदिस्तथा । प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥ स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् । अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥ ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् । इति प्राह महायोगी पुमर्थानां विनिर्णयम्’ इति भविष्यत्पर्वणि । ‘ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् । चीर्णीऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि’ इति ब्रह्मतर्के ॥ 09 ॥ ॥ इति पुरुषार्थाधिकरणम् ॥ 01 ॥ अधिकाराधिकरणम् सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारतेत्यत आह – ॐ असार्वत्रिकी ॐ ॥ 10-443 ॥ न सर्वेषामधिकारः ॥ 10 ॥ ॐ विभागः शतवत् ॐ ॥ 11-444 ॥ ‘नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु । सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥ यथा तथैवा सङ्ख्येयाः प्रजास्तासु कियान् जनः । ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’ इति वचनात् सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥ 11 ॥ ॐ अध्ययनमात्रवतः ॐ ॥ 12-445 ॥ कस्याधिकारः? ‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते । गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥ न च वर्णावरस्यापि तस्मादध्ययनान्वितः । ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ इति ब्रह्मतर्के ॥ ‘पठेद्वेदानथार्थानधीयीताथ विचार्यः ब्रह्म विन्देत्’ इति च कौषारवश्रुतिः ॥ 12 ॥ ॥ इति अधिकाराधिकरणम् (असार्वत्रिकाधिकरणम्) ॥ 02 ॥ अधिकारविशेषाधिकरणम् ॐ नाविशेषात् ॐ ॥ 13-446 ॥ न सामान्येनाधिकारो देवादीनाम् । ‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् । तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्’ इति कौण्डिन्यश्रुतिः॥ 13 ॥ ॥ इति अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्) ॥ 03 ॥ कामचाराधिकरणम् ‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एव’ इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह- न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ॥ 14 ॥ ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ 14-447 ॥ ॐ कामकारेण चैके ॐ ॥ 15-448 ॥ ‘कामाचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्ति ॥ 15 ॥ ॐ उपमर्दं च ॐ ॥ 16-449 ॥ ‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ॥ 16 ॥ ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ 17-450 ॥ न तावता कामचाराणां ज्ञानेऽधिकारः । ‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् । न तथा विद्यते भूयान् यं प्राप्यन्येऽपि भूयसः’ इति माठरश्रुतेः ॥ 17 ॥ ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ 18-451 ॥ ‘प्रातरुत्थायाथ सन्ध्यामुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेऽथ देवान् नमेज्जुहुयाद् वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न सुरां पिबेन्न पलाण्डुं भक्षयीत न भृषं वेदेन्न विस्मरेतात्मानं सोमं पिबेद्दुतशेषेण वर्तयेत्’ इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिर्मन्यते । न च निषिद्धं कर्म कर्तव्येमेवेति चोदना । ‘ब्राह्मणो न हन्तव्यः’ इत्याद्यपवादश्च ॥ 18 ॥ ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ 19-452 ॥ अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरेति बादरायणो मन्यते । ‘केन स्याद्येन स्यात् तेनेदृश एव’ इति साम्यश्रुतेः । ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ इति भगवद्वचनाच्च ॥ 19 ॥ ॐ विधिर्वा धारणवत् ॐ ॥ 20-453 ॥ ‘केन स्याद्येन स्यात्’ इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राधर्मशङ्का कार्या । नान्येषामिति वा । ‘स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता । नाशङ्क्यं तन्मतं क्वापि विष्णोः प्रत्यक्षचोदना । इतरेषां न विहिता स्वेच्छावृत्तिः कथञ्चन’ इति हि ब्राह्मे ॥ 20 ॥ ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ 21-454 ॥ स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामान्यविधिस्वीकारादिति चेन्न । अपूर्वत्वात् परवशत्वात् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि । ‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ । परस्य ब्रह्मणो ह्येव सर्वविधृतिदूरता’ इति च ब्रह्मतर्के ॥ 21 ॥ ॐ भावशब्दाच्च ॐ ॥ 22-455 ॥ ‘यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविद्यतिदूरता’ इति च तुरश्रुतौ ॥ 22 ॥ ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ 23-456 ॥ ‘केन स्याद्येन स्यात्’ इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेन्न । ‘त्रेधा ह ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति । विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’ इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥ ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ 24-457 ॥ एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च सम्बन्धो भवति ॥ 24 ॥ ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ 25-458 ॥ अत एव ज्ञानस्य मोक्षादेन नाग्निहोत्राद्यपेक्षा । ब्रह्मतर्के च – ‘येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः । शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥ स्वेच्छानुवृत्यैव भवेद् ब्रह्मणः प्रायशस्तथा । देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’ इति ॥ 25 ॥ ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥ 26-459 ॥ सर्वधर्मापेक्षा च ज्ञानस्येत्पत्तौ । ‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेः । यथा गतिनिष्पत्यर्थमश्वादयोऽपेक्ष्यन्ते न विनिष्पन्नगतेर्ग्रामादिप्राप्तौ ॥ 26 ॥ ॐ शमदमाद्युपेतः स्यात् तथाऽपितु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ 27-460 ॥ यद्यपि ज्ञानेनैव मोक्षो नियतस्तथाऽपि ज्ञानी शमदमाद्युपेतः स्यात्।’आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेद्दान्तो भवेदनुकोलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः । ‘ब्राह्मीं वाव त उपनिषदब्रूम’ इति । तस्यैतपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामुपनिषदमेवं वेद’ इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् । ‘यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा । तस्य शान्त्यादयोऽङ्गानि तस्मात् तेषामनिष्ठितिः ॥ अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत्’ इति च आग्नेये । तुशब्दः पूर्णफलार्थत्वं सूचयति ॥ 27 ॥ ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ 28-461 ॥ ‘यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति’ इति सर्वान्नानुमतिः प्राणात्ययविषया । ‘न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानम्’इति दर्शनात् ॥ 28 ॥ ॐ अबाधाच्च ॐ ॥ 29-462 ॥ ‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् । अतो विद्वानपि न्यायं वर्तेतोत्कर्षसिद्धये’ इति च ब्रह्मतर्के ॥ 29 ॥ ॐ अपि स्मर्यते ॐ ॥ 30-463 ॥ ‘अतीतानागतज्ञानी त्रैलोक्योद्दरणक्षमः । एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्’ इति हरिवंशेषु ॥ 30 ॥ ॐ शब्दश्चातोऽकामचारे ॐ॥ 31-464 ॥ ‘स य एतदेवंविदेवं मन्वान एवं पश्यन् न कामचरितं चरेन्न कामं भक्षयीत न कामामनुवर्तेत’ इति कौण्डन्यश्रुतौ । अत इत्यल्पफलत्वं सूचयति । ‘न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ॥ 31 ॥ ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ 32-465 ॥ न केवलं निषिद्दाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ॥ ‘पश्यन्नपीममात्मानं कुर्यात् कर्मविचारयन्। यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’ इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ 32 ॥ ॐ सहकारित्वेन च ॐ ॥ 33-466 ॥ ‘यथा राज्ञः सहकार्येव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् । एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’ इति कमठश्रुतौ सहकारित्वोक्तेश्च । ‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु । आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा तु वर्दते’ इति ब्रह्माण्डे ॥ सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि । उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इति बृहत्तन्त्रे ॥ ‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः । स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’ इति च पाद्मे ॥ 33 ॥ ॥ इति कामचाराधिकरणम् (स्तुत्यधिकरणम्) ॥ 04 ॥ उभयलिङ्गाधिकरणम् ॐ सर्वथाऽपितु त एवोभयलिङ्गात् ॐ ॥ 34-467 ॥ सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये । ‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यज्ज्ञानमित्युभयविधलिङ्गात् ॥ 34 ॥ ॐ अनभिभवं च दर्शयति ॐ ॥ 35-468 ॥ ‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥ ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ 36-469 ॥ सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥ ॐ अपि स्मर्यते ॐ ॥ 37-470 ॥ ‘असुरा असुरेणैव स्वभावेन च कर्मणा । ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ॥ देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् । सम्यज्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ॥ नानयोरन्यथाभावः कदाचित् क्वापि विद्यते । मानुषा मिश्रमतयो विमिश्रगतयोऽपि च’ इति स्कान्दे ॥ 37 ॥ ॐ विशेषानुग्रहं च ॐ ॥ 38-471 ॥ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’ इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य। ‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् । पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ’ इति भविष्यत्पर्वणि ॥ 38 ॥ ॐ अतस्त्वितरज्ज्यायोलिङ्गाच्च ॐ ॥ 39-472 ॥ देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् । चशब्दात् ‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च । ‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥ ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥ 40-473 ॥ असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव। ‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’ इति नियमश्रुतेः । ‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः । ‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह परूभभूवुः’ इति देवासुराणां भावाभावश्रुतेश्च । देवानां भूतिरित्येव मनो विष्णौ स्वभावतः । असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥ देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे । अतः सुगतिरेतेषां नान्यथा व्यत्ययो भवेत्’ इति चाध्यात्मे ॥ 40 ॥ ॥ इति उभयलिङ्गाधिकरणम् ॥ 05 ॥ अधिकारिकाधिकरणम् ॐ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॐ ॥ 41-474 ॥ न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम्, ब्रह्मादीनामपु नाकाङ्क्षयं, किमुपरस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थीनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोगस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते । ‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् । इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’ इति ब्रह्माण्डे । ‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’ इत्याद्यनुमानरूपवाक्याच्च ।। ‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत । अवदस्यूँरधूनुथाः’ इति च श्रुतिः॥ ॐ उपपूर्वमपीत्येके भावशमनवत् तदुक्तम् ॐ ॥ 42-475 ॥ उपदेवपदं च नाकाङ्क्ष्यमित्येके । भावशमनवदृष्टिपदवदेव ।। तच्चोक्तमिन्द्रद्युम्नश्रुतौ – ‘अथ यथर्षीन् प्रजापतीन् नाकाङ्क्षेदेवं न गन्धर्वान् न विद्याधरान् न सिद्धान्’ इति। बृहत्संहितायां च – ‘न दैवानभिकाङ्क्षेत कुत एव हरेर्गुणान् । प्राजापत्यान् न चार्षां गान्धर्वादीनपि क्वचित् ॥ ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः’ इति विशेषदर्शनार्थमेक इत्युक्तम् ॥ 42 ॥ ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ ॥ 43-476 ॥ देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् । ‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् । अन्यत्र शुभमाकाङ्क्षन् न पतेदविरोधतः’ इति स्मृतेः ॥ ‘नानात्वमेव कामानां नाकामः क्व च दृश्यते । अतोऽविरुद्धकामः स्यादकामस्तेन भण्यते’ इत्याचाराच्च ॥ 43 ॥ ॥ इति अधिकारिकाधिकरणम् ॥ 06 ॥ फलश्रुत्यधिकरणम् ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ 44-477 ॥ ‘ब्रह्मविदाप्नोति परम्’ इत्यादि फलं स्वामिनां देवानामेव भवति । ‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’ इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ 44 ॥ ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ 45-478 ॥ सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तधर्थं देवैः क्रियमाणत्वात् ॥ 45 ॥ ॐ सहकार्यन्तरविधिःपक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥ 49-479 ॥ तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यान्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथावाऽऽचार्यस्य शिष्याः । वाराहे च – ‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् । वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥ विहितः सहकारित्वे सहकार्यान्तरं प्रजाः । पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥ तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् । ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ इति ॥ 46 ॥ ॥ इति फलश्रुत्यधिकरणम् ॥ 07 ॥ कृत्स्नभावाधिकरणम् ॐ कृत्स्नभावात् तु गृहिणोपसंहारः ॐ ॥ 47-480 ॥ ‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’ इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’ इति गृहिणोपसंहारः क्रियते । तस्माद्गृहस्तस्यैवोत्तवत्वमिति न वाच्यम् । यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते । ‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना एते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति स चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ॥ 47 ॥ ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ 48-481 ॥ न चाश्रमद्वयमेव देवानाम् । ‘देवाएव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ॥ 48 ॥ ॥ इति कृत्स्नभावाधिकरणम् ॥ 08 ॥ अनाविष्काराधिकरणम् ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ 49-482 ॥ ‘एतां विद्यामदीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवति’ इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्ते । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च विषिद्धम् – ‘मा नः स्तेनेभ्यो यो अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः। येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित् ॥ अथोशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः । आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति । विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवदिस्टेऽहमस्मि । अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥ 49 ॥ ॥ इति अनाविष्काराधिकरणम् (अन्वयाधिकरणम्) ॥ 09 ॥ ऐहिकाधिकरणम् ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ 50-483 ॥ ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’ इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्दप्रतिबन्धाभावे । ‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्येहैव दृष्टिं परमस्य विन्देत् । यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’ इति सौपर्णश्रुतौ दर्शनात् । ‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् । यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥ यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि । इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥ श्रवणं मननं चैव निधिध्यासनमेव च । परे गुरौ च या भक्तिः परिचर्याधिकं हरेः ॥ एषा सेवेति सम्प्रोक्ता यथा तद्दर्शनं भवेत्’ इति बृहत्संहितायाम् ॥ 50 ॥ ॥ इति ऐहिकाधिकरणम् ॥ 10 ॥ मुक्तिफलाधिकरणम् ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ 51-484 ॥ एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः । ‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थोऽमृतम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् । ‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥ न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति च नारायणाध्यात्मे ॥ 51 ॥ ॥ इति मुक्तिफलाधिकरणम् ॥ 11 ॥ ॥ इति श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य चतुर्थः पादः ॥ 03-04॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायः (साधनाध्यायः) ॥ 03 ॥