अद्य अहं महात्मनां यादवार्याणां विषये किञ्चित् वक्तुं इच्छामि । आत्माश्रमेण ०४-०९-२०२० तेषां आराधनं आचरितम् ।
यादवार्याः श्रीवेदेश तीर्थानां अनुजाः । श्रीवेदेशतीर्थाः एव श्रीयादवार्याणां गुरवश्च । गृहस्थ टिप्पणीकाराणां पङ्क्तौ श्रीयादवार्याः अग्रपीठं अलङ्कुर्वन्ति | श्रीमद्भागवतं यादवार्याणां प्राणः इव । ते श्रीमन्मध्वाचार्याणां भागवततात्पर्यस्य व्याख्यानं चक्रुः ।
स्वजीविकायै यदावार्याः सुवर्णकारवृत्तिं आश्रितवन्तः । पद्भ्यामेव विपणिं गत्वा स्वर्णाभरणानि विक्रीणन्ति स्म ।
केचन चोराः आभरणानि चोरयितुं इच्छन्तः प्रत्यहं यादवार्यान् अनुसरन्ति स्म । किन्तु भीत्या पराद्रवन्ति स्म । यतो हि ते चतुरान् बलिष्ठान् पुरुषान् पश्यन्ति स्म । ते सदा यादवार्यस्य अग्रे पृष्ठतः पार्श्वयोः च स्थित्वा रक्षन्ति स्म । एतत् स्वयं यादवार्याः अपि न जानन्ति स्म ।
कदाचित् यादवार्यान् अनुसृत्य ते गृहपर्यन्तं आगतवन्तः । तत्र चतुरान् पुरषान् अदृश्यं गतान् दृष्ट्वा चकिताः कुतूहलेन यादवार्यान् अपृच्छन् – के ते पुरुषाः इति । यादवार्याः - नाहं जाने इत्यब्रुवन् ।
ततः यादवार्याः स्वगुरोः समीपं गत्वा अपृच्छन् - के ते पुरुषाः इति । गुरवः एषः अग्रतो नारसिंहश्च इति श्लोकपठनस्य महिमा इत्यूचुः ।
ते च चतुरः पुरुषाः अग्रतः नारसिंहः, पृष्ठतः श्रीकृष्णः, उभयोः पार्श्वयोः रामलक्ष्मणौ एव । ते परितः यादवार्यान् सदा रक्षन्ति स्म ।
अहो पश्यत, गुरुपरम्परायाः गरिमानं भक्त्या श्लोकपठनस्य प्रभावं च ।