Mahabharata Tatparya Nirnaya 1.34

।।श्रीनरसिंहस्तुतिः।।

उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम् ।

सुरपतिरिपुवक्षश्छेदरक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥१।।

प्रलयरविकरालाकाररुक्चक्रवालं विरलयदुरुरोचीरोचिताशान्तराल ।

प्रतिभयतम कोपात्त्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ २॥

सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्त्वम् ।

रिपुरुधिरनिषेकेणेव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥३॥

तव घनघनघोषो घोरमाघ्राय जङ्घापरिघमलघुमूरुव्याजतेजोगिरिञ्च ।

घनविघटितमागाद्दैत्यजङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितं मे ॥ ४॥

कटकिकटकराजद्धाटकाग्र्यस्थलाभा प्रकटपटतटित्ते सत्कटिस्थापट्वि ।

कटुककटुकदुष्टाटोपदृष्टिप्रमृष्टौ दह दह नरसिंहासह्यवीर्याहितं मे ।।५।।

प्रखऱनखरवज्रोत्खातरूक्षारिवक्षः शिखरिशिखररक्तैराक्तसन्दोहदेह ।

शुभलिभ शुभकुक्षे भद्रगम्भीरनाभे दह दह नरसिंहासह्यवीर्याहितं मे ।।६।।

स्खुरयति तव सक्षात्सैव नक्षत्रमाला क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम्।

अरिदरधरजान्वासक्तहस्तद्वयाहो दह दह नरसिंहासह्यवीर्याहितं मे ।।७।।

कटुविकटसटौघोद्धट्टनाद्भ्रष्टभूयो घनपटलविशालाकाशलब्धावकाशम् ।

करपरिघविमर्दप्रोद्यमं ध्यायतस्ते दह दह नरसिंहासह्यवीर्याहितं मे ।।८।।

हठलुठदलघिष्टोत्कण्ठदश्टोष्टविद्युत्सटशठकठिनोरः पीठभित्सुष्ठुनिष्ठाम् ।

पठति नु तव कष्ठादिष्ठघोरान्त्रमाला दह दह नरसिंहासह्यवीर्याहितं मे।।९।।

हृतबहुमिहिराभासह्यसंहाररंहोहुतवहबहुहेतिह्रेषिकानन्तहेति।

अहितविहितमोहं संवहन् सैंहमास्यं दह दह नरसिंहासह्यवीर्याहितं मे ।।१०।।

गुरुगुरुगिरिराजकन्दरान्तर्गते वा दिनिमणिमणिशऋङ्गे वान्तमन्ह्प्रदीप्ते ।

दधदतिकटुदंष्ट्रे भीषणोज्जिह्ववक्त्रे दह दह नरसिंहासह्यवीर्याहितं मे ।।११।।

अधरितविबुधाब्धिध्यानधघैर्यं विधीध्य द्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम् ।

विदधदतिकटाहोद्धट्टनेद्धाट्टहासं दह दह नरसिंहासह्यवीर्याहितं मे।।१२।।

त्रिभुवनतृणमात्रत्राणतृश्नं तु नेत्र त्रयमतिलघितार्चिर्विश्टपाविष्टपादम् ।

नवतररविताम्रं धारयन् रूक्षवीषं दह दह नरसिंहासह्यवीर्याहितं मे ।।१३।।

भ्रमदभिभवभूभृद्भूरिभूभारसद्भिद्भिदनविभवभ्रूविभ्रमादभ्रशुभ्र । 

ऋभुभवभयभेत्तऱ्भासिभोभोविभाभिर्दह दह नरसिंहासह्यवीर्याहितं मे ।।१४।।

श्रवणखचितचञ्चत्कुण्डलोल्लासिगण्डभ्रुकुटिकटुललाटश्रेष्ठनासारुणोश्ठ ।

वरदसुरदराजद्केसरोत्सारितारे दह दह नरसिंहासह्यवीर्याहितं मे।।१५।।

प्रविकचकचराजद्रत्नकोटीरशालिन् दलगतगलदुस्रोदाररत्नाङ्गदाढ्य ।

कलककटककाञ्चीसिञ्चिनीमुद्रिकावन् दह दह नरसिंहासह्यवीर्याहितं मे ।।१६।।

अरिदरमसिखेटौ चापबाणौ गदां सन् मुसलमपि कराभ्यामङ्कुशं पाशवर्यम् ।

करयुगलधृतान्त्रस्रग्विभिन्नारिवक्षो दह दह नरसिंहासह्यवीर्याहितं मे।।१७।।

चटचटचट दूरं मोहय भ्रामयारीन् कडिकडि कडि कायं ज्वारय स्फोटयस्व ।

जहिजहिजहि वेगं शात्रवं सानुहन्धं दह दह नरसिंहासह्यवीर्याहितं मे।।१८।।

विधिभवविबुधेशभ्रामकाग्निस्फुलिङ्गप्रसिविविकटदंष्ट्रोज्जिह्ववक्त्र त्रिनेत्र ।

कलकलकल कामं पाह मं ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितं मे ।।१९।।

कुरुकुरु करुणां तां साङ्कुरां दैत्यपोते दिशदिश विषदां मे शाश्वतीं देव दृष्टिम् ।

जय जय जय मूर्ते नार्तजेतव्यपक्षं दह दह नरसिंहासह्यवीर्याहितं मे।।२०।।

स्तुतिरियमहितघ्नी सेविता नारसिंही तनुरिव परिशान्ता मालिनी साभिोलं ।

तदखिलगुरुमाग्यश्रीदरूपालसद्भिः सुनियमनयकृत्यैस्सद्गुणैर्नित्ययुक्ता ।।२१।।

लिकुचतिलकसूनुः सद्धितार्थानुसारी नरहरिनुतिमेतां शत्रुंहारहेतुम् ।

 अकृत सकलपापध्वंसिनीं यः पठेत्तां व्रजति नृहरिलोकं कामलोभाद्यसक्तः ।।२२।। 

।। इति नरसिंहस्तुतिः ।।


Events

Sorry, we currently have no events.
View All Events

Newsletter