Uddhava Kruta Baala Leela Varnanam

।।उध्दवकृता बाललीलामहिमस्तुतिः।।

उद्धव उवाच

कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७॥

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ ८॥

इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।सात्वतामृषभं सर्वे भूतावासममंसत ॥ ९॥

देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः।भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ॥१०॥

प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।आदायान्तरधाद्यस्तु स्वबिंबं लोकलोचनम् ॥ ११॥

यन्मर्त्यलीलौपयिकं स्वयोगमायाबलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ १२॥

यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कार्त्स्न्येन चाद्येह गतं विधातु-रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३॥

यस्यानुरागप्लुतहासरासलीलावलोकप्रतिलब्धमानाः ।

व्रजस्त्रियो दृग्भिरनुप्रवृत्तधियोऽवतस्थुः किल कृत्यशेषाः ॥ १४॥

स्वशान्तरूपेष्वितरैः स्वरूपैरभ्यर्द्यमानेष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५॥

मां खेदयत्येतदजस्य जन्म विडंबनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः ॥ १६॥

दुनोति चेतः स्मरतो ममैतद्यदाह पादावभिवन्द्य पित्रोः ।

तातांब कंसादुरुशङ्कितानां प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७॥

को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान्विजिघ्रन् ।

यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार ॥ १८॥

दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्यग्योगेन कस्तद्विरहं सहेत ॥ १९॥

तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य ॥ २०॥

स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याऽऽप्तसमस्तकामः ।

बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः ॥ २१॥

तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् ।

तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति ॥ २२॥

अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ २३॥

मन्येऽसुरान्भागवतांस्त्र्यधीशे संरंभमार्गाभिनिविष्टचित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्रमंसे सुनाभायुधमापतन्तम् ॥ २४॥

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५॥

ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता।एकादशसमास्तत्र गूढार्चिः सबलोऽवसत् ॥२६॥

परीतो वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः ।यमुनोपवने कूजद्द्विजसङ्कुलिताङ्घ्रिपे ॥ २७॥

कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।रुदन्निव हसन्मुग्द्धबालसिंहावलोकनः ॥ २८॥

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।चारयन्ननुगान्गोपान् रणद्वेणुररीरमत् ॥ २९॥

प्रयुक्तान् भोजराजेन मायिनःकामरूपिणः।

लीलया व्यनुदत्तांस्तान् बालःक्रीडनकानिव॥३०॥

।।इति उध्दवकृता बाललीलामहिमस्तुतिः।।