Kanduka Stuti

Sarvamoola Granthas

GITA PRASTHANA

♣ Geeta Bhashyam

♣ Geeta Tatparyam

SUTRA PRASTHANA

Brahma Sutra Bhashya

♣ Samanvayadhyaya

♣ Avirodhadhyaya

♣ Sadhanadhyaya

♣ Phaladhyaya

 

 Nitya Parayana Stotra

♣ Bhagavad Dhyanam

♣ Ranga Stotram

♣ Venkatesha Storam

 Dvadasha Stotra

 Dashavatara Stuti

♣ Dadhi Vamana Stotra

 Narasimha Stuti (Trivikrama Panditacharya)

 Vayu Stuti (తెలుగు)

Other Stotras

 Kanduka Stuti

 Nadi Taratamya Stotra

Stotras from Bhagavata

♣ Bhagavad Dhyanam

 Bhishma Stavaraja

 Devakruta Bhagavad Stutihi

♣ Devakruta Narasimha Stutihi

 Uddhava Kruta Krishna Leela Varnanam

♣ Dhruva Kruta Bhagavad Stuti

♣ Venu Gita

♣ Bhramara Gita

  Sukta

 Purusha Sukta

 Manyu Sukta

 Sri Sukta

 Ambhruni Sukta

 Balittha Sukta 

 

Basic Sanskrit For Shastra Adhyayana

Shabda

Dhatu

Samasa Chakram

 

Kavya

  Manimanjari

 Sumadhva Vijaya  

  Rukminisha Vijaya

  Tirtha Prabandha

 

।।वसुदेवकृता कृष्णस्तुतिः।।

वसुदेव उवाच

विदितोऽसि भवान् साक्षात्पुरुषः प्रकृतेः परः ।

केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ १३॥

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।

तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४॥

यथेमेऽविकृता भावास्तथा ते विकृतैः सह ।

नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५॥

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।

प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १६॥

एवं भवान् बुद्ध्यनुमेयलक्षणै-र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।

अनावृतत्वाद्बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७॥

य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽबुधः ।

विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत्पुमान् ॥ १८॥

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात्, 

त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वदाश्रयत्वादुपचर्यते गुणैः ॥ १९॥

स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः । 

सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २०॥

त्वमस्य लोकस्य विभो रिरक्षिषु-र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।

राजन्यसंज्ञासुरकोटियूथपै-र्निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१॥

अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर । 

स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ॥ २२॥

।।वसुदेव कृता कृष्णस्तुतिः।।

भगवद्ध्यानम्

सञ्चिन्तयेद्भगवतश्चरणारविन्दम् 

वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

उत्तुङ्गरक्तविलसन्नखचक्रवाल-

ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ 1॥

यच्छौचनिःसृतसरित्प्रवरोदकेन 

तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । 

ध्यातुर्मनःशमलशैलनिसृष्टवज्रं

ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ 2॥

ऊरू सुपर्णभुजयोरधिशोभमाना-

वोजोनिधी अतसिकाकुसुमावभासौ ।

व्यालंबि पीतवरवाससि वर्तमान-

काञ्चीकलापपरिरंभिनितंबबिंबम् ॥ 3॥

नाभिह्रदं भुवनकोशगुहोदरस्थम् 

यत्रात्मयोनिधिषणाखिललोकपद्मम् । 

व्यूढं हरिण्मणिवृषस्तनयोरमुष्य 

ध्यायेद्द्वयं विशदहारमयूखगौरम् ॥ 4॥

वक्षोऽधिवासमृषभस्य महाविभूतेः 

पुंसां मनोनयननिर्वृतिमादधानम् । 

कण्ठं च कौस्तुभमणेरधिभूषणार्थम् 

कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ 5॥

बाहूंश्च मन्दरगिरेः परिवर्तनेन 

निर्णिक्तबाहुवलयानधिलोकपालान् । 

सञ्चिन्तयेद्दशशतारमसह्यतेजः 

शङ्खं च तत्करसरोरुहराजहंसम् ॥ 6॥

कौमोदकीं भगवतो दयितां स्मरेत 

दिग्धामरातिभटशोणितकर्दमेन । 

मालां मधुव्रतवरूथगिरोपघुष्टाम् 

चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ 7॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः 

सञ्चिन्तयेद्भगवतो वदनारविन्दम् । 

यद्विस्फुरन्मकरकुण्डलवल्गितेन 

विद्योतितामलकपोलमुदारनासम् ॥ 8॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानम् 

भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । 

मीनद्वयाश्रयमधिक्षिपदब्जनेत्रम् 

ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ 9॥

तस्यावलोकमधिकं कृपयातिघोर-

तापत्रयोपशमनाय निसृष्टमक्ष्णोः । 

स्निग्द्धस्मितानुगुणितं विपुलप्रसादम् 

ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ 10॥

हासं हरेरवनताखिललोकतीव्र-

शोकाश्रुसागरविशोषणमत्युदारम् । 

सम्मोहनाय रचितं निजमाययास्य ञ

भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ 11॥

ध्यानायनं प्रहसितं बहुलाधरोष्ठ-

भासारुणायिततनुद्विजकुन्दपंक्ति । 

ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः

भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ 12॥

इति भगवद्ध्यानम्

रङ्गस्तोत्रम्

पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे 

त्रैलोक्यराजेsखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ।।1।।

नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे ।

श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ।।2।।

लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे ।

क्षीराब्घिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ।।3।।

कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले ।

दैत्यान्तकालेखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ।।4।।

अमोघनिद्रे जगदेकनिद्रे विदेहनिद्रे च समुद्रनिद्रे ।

श्रीयोगनिग्रे सुखभोगनिग्रे श्रीरङ्गनिद्रे रमतां मनो मे ।।5।।

आन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे क्षितिमूर्तिरूपे ।

विचित्ररूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ।।6।।

भक्ताकृतार्थे सुररावणार्थे भक्तासमर्थे जगदेककीर्ते ।

अनेकमूर्ते रमणीयमूर्ते श्रीरङ्गमूर्ते रमतां मनो मे ।।7।।

कंसप्रमाथे नरकप्रमाथे दुष्टप्रमाथे जगतां निदाने ।

अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे रमतां मनो मे ।।8।।

सचित्रशायी जगदेकशायी नन्दाङ्कशायी कमलाङ्कशायी ।

अम्भोधिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ।।9।।

सकलदुरितहारी भूमिभारापहारी दशमुखकुलहारी दैत्यदर्पापहारी ।

सुललितकृतचारी पारिजातापहारी त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ।।10।।

रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः ।

 कोटिजन्मार्जितं पापं स्मरणेन विनश्यति ।।11।।

।। इति रङ्गस्तोत्रम् ।।

वेङ्कटेशस्तोत्रम्

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।

सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १॥

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।

सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।

वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।

श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।

चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।

श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६॥

भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।

अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।

समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८॥

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।

त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९॥

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।

भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १०॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।

रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।

ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२॥

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।

सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३॥

मायावी परमानन्दं त्यक्त्वा वैङ्कुण्ठमुत्तमम् ।

स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।

श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५॥

वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।

वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ १६॥

।। इति वेङ्कटेशस्तोत्रम् ।।

Subcategories