वेणुगीता
श्रीशुक उवाच
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।
कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १॥
गोप्य ऊचुः
वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् ।
कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ २॥
व्योमयानवनिताः सहसिद्धैर्विस्मितास्तदुपधार्य सलज्जाः ।
काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३॥
हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् ।
नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ॥ ४॥
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् ।
दन्तदष्टवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५॥
बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः ।
कर्हिचित्सबल आलि सगोपैर्गाः समाह्वयति यत्र मुकुन्दः ॥ ६॥
तर्हि भुग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् ।
आमृशन् पयसि वा बहुपुण्याः प्रेमवेपितभुजाः हतवेगाः ॥ ७॥
अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः ।
वनचरो गिरितटेषु चरन्ती-र्वेणुनाऽऽह्वयति गाः स यदा हि ॥ ८॥
वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।
प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ॥ ९॥
दर्शनीयविकचोत्पलमाला-दिव्यगन्धतुलसीमधुमत्तैः ।
अलिकुलैरलघुगीतमभीष्ट-माद्रियन् यर्हि सन्धितवेणुः ॥ १०॥
सरसि सारसहंसविहङ्गा-श्चारुगीतहृतचेतस एत्य ।
हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ ११॥
सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः ।
आह्वयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२॥
महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः ।
सुहृदमभ्यवर्षत्सुमनोभि-श्छायया च विदधे वितपत्रम् ॥ १३॥
विविधगोपचरणेषु विदग्धो वेणुवाद्यमधुरां निजशिक्षाः ।
तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत्स्वरजातीः ॥ १४॥
सुमनसस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः विस्मयं ययुरनिश्चिततत्त्वाः ॥ १५॥
निजपदाब्जदलैर्ध्वजवज्रनीरजाङ्कुशविचित्रललामैः ।
व्रजभुवः प्रशमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६॥
व्रजमितेन वयं सविलासवीक्षणार्पितमनोभववेगाः ।
व्रजगतिं गमिता न विदामः कश्मलेन कबरं वसनं वा ॥ १७॥
मणिधरः क्वचिदागणयन् गा मालया दयित गन्धतुलस्या ।
प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥ १८॥
क्वणितवेणुमुप वञ्चितचित्ताः कृष्णमीयुरनु कृष्णगृहिण्यः ।
गुणगणार्णमनुगम्य हरिण्यो गोपिका इव विमुक्तगृहेशाः ॥ १९॥
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् ।
नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार ॥ २०॥
मन्दवायुरुपवात्यनकूलं मानयन् मलयजस्पर्शेन ।
वन्दितस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ २१॥
वत्सलो व्रजगवां यदगधो वन्द्यमानचरणः पथि वृद्धैः ।
कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगोद्धृतकीर्तिः ॥ २२॥
उत्सवं श्रममपोह्य दृशीनामुन्नयन् खुररजश्छुरितस्रक् ।
दित्सयैति सुहृदाशिष एष देवकीजठरभूरुडुराजः ॥ २३॥
मदविघूर्णितलोचन ईषन्मानदः स्वसुहृदां वनमाली ।
बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४॥
यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते ।
मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ २५॥
श्रीशुक उवाच
एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः ।
रेमिरेऽहस्सु तच्चित्तास्तन्मनस्का महोदयाः ॥ २६॥
।। इति श्रीमद्भागवते दशमस्कन्धे त्रयस्त्रिंशोध्याये वेणुगीता ।।