Nyaya Vivaranam

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् श्रीमद्भगवद्गीताभाष्यम्

अथ प्रथमोऽध्यायः देवं नारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ॥ नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार । ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनाम् अवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहिताम् अचीक्ऌपत् ।। तच्चोक्तम् - 'लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम् । वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम् ॥ अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम् । ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ॥ अन्यावताररूपैश्च वेदानुक्तार्थभूषितम् । केवलेनात्मबोधेन दृष्टं वेदार्थसंयुतम् ॥ वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम् । भारतं पञ्चरात्रं च मूलरामायणं तथा ॥ पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः ॥'' इति नारायणाष्टाक्षरकल्पे । 'ब्रह्मापि तन्न जानाति ईषत् सर्वोपि जानते ।बह्वर्थमृषयस्तत्तु भारतं प्रवदन्ति हि ॥ ''इत्युपनारदीये 'ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह ।यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः ॥'' इति नारदीये । 'भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम् ।दशावरार्थं सर्वत्र केवलं विष्णुबोधकम् ॥ परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत् ॥'' इति स्कान्दे । यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः ॥'(म.भा..१.१.२६८)' 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति ।''( म.भा.आदि..२९३) मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथापरे ।तथोपरिचराद्यन्ये भारतं परिचक्षते ।(म.भा.आदि.१.६६) भारतं सर्ववेदाश्च तुलामारोपिताः पुरा । देवैर्ब्रह्मादिभिः सर्वैः ऋषिभिश्च समन्वितैः । व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ॥(ब्रह्माण्डपुराणे) महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । (म.भा.१.३००)' यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥( म.भा.आदि ५.५०) 'विराटोद्योगसारवान्''(म भा.१.८९) 'इत्यादितद्वाक्यपर्यालोचनया, ऋषिसम्प्रदायात्, 'को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्'' ( वायुप्रोक्तवचनम्) इत्यादिपुराणग्रन्थान्तरगतवाक्यान्यथानुपपत्त्या, नारदाध्ययनादि-लिङ्गैश्चावसीयते । कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः ? प्रसिद्धश्च सोर्थः । कथं चान्यस्य न कर्तुं शक्यते? ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः । न च कर्तुरेव । इतरत्रापि साम्यात् । तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध । तच्चोक्तम्– भारतं सर्वशास्त्रेषु भारते गीतिका वरा । विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद् द्वयम् ॥ इति महाकौर्मे । 'स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने''(म.भा.१३.१६.१२.)  । इत्यादि च । तत्र सेनयोर्मध्ये बान्धवादिमोहजालसंवृतं विषीदन्तम् अर्जुनं भगवानुवाच । ॥ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः अथ द्वितीयोऽध्यायः प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथमशोच्याः? गतासून् ॥११ ॥ किमिति? न त्वेवाहम् ।। ईश्वरनित्यत्वस्याप्रस्तुतत्वाद्दृष्टान्तत्वेनाह– नत्वेति ।। यथा अहं नित्यः सर्ववेदान्तेषु प्रसिद्धः, एवं त्वमेते जनाधिपाश्च नित्याः ॥ १२ ॥ देहिनो भाव एतद्भवति । तदेवासिद्धमिति चेन्न । देहिनोऽस्मिन् । यथा कौमारादिशरीरभेदेपि देही तदीक्षिता सिद्धः, एवं देहान्तरप्राप्तावपि, ईक्षितृत्वात् । न हि जडस्य शरीरस्य कौमाराद्यनुभवः सम्भवति । मृतस्यादर्शनात् । ।मृतस्य वाय्वाद्यपगमादनुभवाभावः । अहं मनुष्य इत्याद्यनुभवाच्चैतत् सिद्धमिति चेत्, न । सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात् । नसमश्चाभिमानो मनसि । काष्ठादिवच्च । श्रुतेश्च । प्रामाण्यं च प्रत्यक्षादिवत् । न च बौद्धादिवत् । अपौरुषेयत्वात्। न ह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितुं शक्याः । विना च कस्यचिद् वाक्यस्यापौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिदि्धः । यश्च तौ नाङ्गीकुरुते नासौ समयी । अप्रयोजकत्वात् । मास्तु धर्मोनिरूप्यत्वादिति चेत्, न । सर्वाभिमतस्य प्रमाणं विना निषेद्धुमशक्यत्वात् । नच सिद्धिरप्रामाणिकस्येति चेत् - न । सर्वाभिमतेरेव प्रमाणत्वात् । अन्यथा सर्ववाचिकव्यवहारासिद्धेश्च । न च मया श्रुतमिति तव ज्ञातुं शक्यम् । अन्यथा वा प्रत्युत्तरं स्यात् । भ्रान्तिर्वा तव स्यात् । सर्वदुःखकारणत्वं वा स्यात् । एको वान्यथा स्यात् । रचितत्वे च धर्मप्रमाणस्य कर्तुरज्ञानादिदोषशङ्का स्यात् । न चादोषत्वं स्ववाक्येन एव सिद्ध्यति । न च येन केनचिदपौरुषेयमित्युक्तमुक्तवाक्यसमम् । आनादिकालपरिग्रहसिद्धत्वात् । अतः प्रामाण्यं श्रुतेः । अतः कुतर्कैः धीरस्तत्र न मुह्यति ॥ अथवा, जीवनाशं देहनाशं वापेक्ष्य शोकः? न तावत् जीवनाशम् । नित्यत्वादित्याह– न त्वेवेति । नापि देहनाशमित्याह– देहिन इति । यथा कौमारादिदेहहानेन जरादिप्राप्तावशोकः, एवं जीर्णादिदेहहानेन देहान्तरप्राप्तावपि ॥ १३ ॥ तथाऽपि तद्दर्शनाभावादिना शोक इति चेत्- नेत्याह– मात्रास्पर्शा इति ।। मीयन्त इति मात्रा विषयाः । तेषां स्पर्शाः सम्बन्धाः । त एव शीतोष्णसुखदुःखदाः । देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः। ततश्च सुखदुःखे ।। नह्यात्मनः स्वतो दुःखादिः सम्भवति ।कुतः? आगमापायित्वात् । यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः ।। अतो यतो मात्रास्पर्शा जाग्रदादावेव ते सन्ति नान्यदेति तदन्वयव्यतिरेकित्वात् तन्निमित्ता एव नात्मनः स्वतः ।। आत्मनश्च तैर्विषयविषयिभावसम्बन्धादन्यः सम्बन्धो नास्ति ।। न चागमापायित्वेऽपि प्रवाहरूपेणापि नित्यत्वमस्ति । सुप्तिप्रलयादावभावादित्याह– अनित्या इति ।। अतश्चात्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम् । अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न सम्भवति । अतोऽभिमानं परित्यज्य तान् शीतोष्णादीन् तितिक्षस्व ॥ १४ ॥ यम् एते मात्रास्पर्शा न व्यथयन्ति। पुरि शयमेव सन्तम् । शरीरसम्बन्धाभावे सर्वेषामपि व्यथाभावात् पुरुषम् इति विशेषणम् । कथं न व्यथयन्ति? समदुःखसुखत्वात् । तत्कथम्? धैर्येण ॥ १५ ॥ ‘नित्य आत्मा’ इत्युक्तम् । किमात्मैव नित्य आहोस्विदन्यदपि? अन्यदपि । तत्किमिति? आह–नासत इति ।। असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते ।। ‘प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम’ इति वचनात् श्रीविष्णुपुराणे । पृथक् ‘विद्यते’ इत्यादरार्थः ।। ‘ असतः कारणत्वं च– ‘सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः’ (भाग.१.२.३१) इति भागवते ।‘असतः सदजायत’ (ऋ.१०.७२.२) इति च । ‘अव्यक्तेश्च । सम्प्रदायतश्चैतत्सिद्धमित्याह– उभयोरपीति ।। अन्तः निर्णयः।॥१६ ॥ किं बहुना । यद् देशतोनन्तं तन्नित्यमेव वेदाद्यन्यदपीत्याह - अविनाशीति । नापि शापादिना विनाश इत्याह – विनाशमिति । अव्ययं च तत् ॥ १७ ॥ भवतु देहस्यापि कस्यचिन्नित्यत्वमिति । नेत्याह– अन्तवन्त इति।। अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह– नित्यस्येति ।। ‘शरीरिणः’ इति ईश्वरव्यावृत्तये ।। न च नैमित्तिकनाश इत्याह– अनाशिन इति ।। कुतः? अप्रमेयेश्वरसरूपत्वात् ।। नह्युपाधिबिम्बसन्निध्यनाशे प्रतिबिम्बनाशः, सति च प्रदर्शके । स्वयमेवात्र प्रदर्शकः । चित्त्वात् । नित्यश्चोपाधिः कश्चिदस्ति ।।‘प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया । चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः ।।’ इति भगवद्वचनात् ॥१८ ॥ व्यवहारस्तु भ्रान्त इत्याह– य एनमिति ।। कुतः? उक्तहेतुभ्यो नायं हन्ति न हन्यते ।। नहि प्रतिबिम्बस्य क्रिया । स हि बिम्बक्रिययैव क्रियावान् ।
‘ध्यायतीव’ (बृ.उ.६.३.७) इति श्रुतेश्च ॥ १९ ॥ अत्र मन्त्रवर्णोऽप्यस्तीत्याह– न जायत इति ।। नचेश्वरज्ञानवद् भूत्वा भविता । तद्धि - ‘तदैक्षत’ (छां.उ.६.२.३) । ‘देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा’ (भाग.३.७.५) इत्यादि श्रुतिस्मृतिसिद्धम् । कुतः? अजादिलक्षणेश्वरसरूपत्वात् । शाश्वतः सदैकरूपः । पुरं देहम् अणतीति पुराणः। तथाऽपि न हन्यते हन्यमानेऽपि देहे ॥२० ॥ अतो यः एवं वेद सः कथं कं घातयति हन्ति वा । अविनाशिनं नैमित्तिकनाशरहितम् । नित्यं स्वाभाविकनाशरहितम् ।। अथवा अविनाशिनं दोषयोगरहितम् नित्यं सदा भाविनम् इति सर्वत्र विवेकः । दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात्॥ २१ ॥ देहात्मविवेकानुभवार्थं दृष्टान्तमाह– वासांसीति ॥ २२ ॥ स्वतः प्रायोनिमित्तैश्चाविनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात्, ककच्छेदवत् इत्यतो विशेषनिमित्तानि निषेधति– नैनमिति ॥ २३ ॥ वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह– अच्छेद्य इति ।।वर्तमानादर्शनाद् युक्तमयोग्यत्वमिति सूचयति वर्तमानापदेशेन । कुतोऽयोग्यता? नित्यसर्वगतादिविशेषणेश्वरसरूपत्वात् ।। ‘शाश्वतः’ इत्येकरूपत्वमात्रमुक्तम् । स्थाणुशब्देन नैमित्तिकमन्यथात्वं निवारयति । नित्यत्वं सर्वगतत्वविशेषणम् । अन्यथा पुनरुक्तेः ।। ऐक्योक्तावप्यनुक्तविशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिः । युक्ताश्च बिम्बधर्माः प्रतिबिम्बेऽविरोधे ।। तत्ता च - ‘रूपं रूपं प्रतिरूपो बभूव’(ऋ.६.४७.१८)। ‘आभास एव च’ ( ब्र.सू.२.३.५०) इत्यादि श्रुतिस्मृतिसिद्धा । नचांशत्वविरोधः । तस्यैवांशत्वात् ।। नचैकरूपैवांशता । प्रमाणं चोभयविधवचनमेव ।। न चांशस्य प्रतिबिम्बत्वं कल्प्यम् । गाध्यादिष्वप्यंशबाहुरूप्यदृष्टेः। इतरत्रादृष्टेः ।। स्थाणुत्वेऽपि ‘ऐक्षत’(छां.उ.६.२.३)इत्याद्यविरुद्धमीश्वरस्य । उभयविधवाक्यात् । अचिन्त्यशक्तेश्च।। न च माययैकम् ।‘त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते’ (भाग.१०.४.१९) ‘न योगित्वादीश्वरत्वात्’ (बृ.उ.भा.५.८.१२.उ. वाराहवचनम् ।)‘चित्रं न चैतत् त्वयि कार्यकारणे’ (भाग. ५.१८.५.)
इत्याद्यैश्वर्येणैव विरुद्धधर्माविरोधोक्तेः । महातात्पर्याच्च ।। मोक्षो हि महापुरुषार्थः। ‘तत्रापि मोक्ष एवार्थः’ । ‘अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ।।’(म.भा.१२.३१७.३४)‘पुण्यचितो लोकः क्षीयते’(छां.उ.)इत्यादि श्रुतिस्मृतिभ्यः । स च विष्णुप्रसादादेव सिद्ध्यति । ‘वासुदेवमनाराध्य को मोक्षं समवाप्नुयात्’ ‘तुष्टे तु तत्र किमलभ्यमनन्त ईशे’ (भाग.७.६.२५) ‘तत्प्रसादादवाप्नोति परां सिद्धिं न संशयः’ ‘येषां स एव भगवान् दययेदनन्तः सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम् ।ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ (भाग.२. ७ .४२) ‘तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते’ ‘ऋते यदस्मिन् भव ईश जीवाः तापत्रयेणोपहता न शर्म । आत्मन् लभन्ते भगवन् तवाङ्घ्रिच्छायांशविद्यामत आश्रयेम’ (भाग.३.६.१८) ‘ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह ।’
‘तमेवं विद्वान्’(नृ.पू.उ.१.६) इत्यादि श्रुतिस्मृतिभ्यः । स चोत्कर्षज्ञानादेव भवति । लोकप्रसिद्धेः । लोकसिद्धमविरुद्धम् अत्राप्यङ्गीकार्यम् ।। ‘अहल्याजारत्वाद्यपि दोषकृतोऽपि ते बहुतरो लेप नासीदित्युत्कर्षमेव वक्ति । बहुनरकफलो ह्यसौ । ‘‘तस्य न लोम च न क्षीयते(मीयते)’(कौ.उ.३.२) इति श्रुत्यन्तराच्च ।। ‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्’ (१५.१९)इति तदुक्तेश्च । ‘सत्यं सत्यं पुनस्सत्यं शपथैश्चापि कोटिभिः ।विष्णुमाहात्म्यलेशस्य विभक्तस्य च कोटिधा ।। पुनश्चानन्तधा तस्य पुनश्चापि ह्यनन्तधा । नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः ।।’ इति नारदीये ।। अन्योत्कर्ष ऐक्यं च - तथैव सर्वशास्त्रेषु महाभारतमुत्तमम् ।को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ।।’(वि.पु.३.४.५) इत्यादि ग्रन्थान्तरसिद्धोत्कर्षमहाभारतविरुद्धम् ।। तत्र हि - ‘नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ।।’(म.भा.१.१.१८) ‘यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः ।’ (म.भा.१२.३४१.१२)‘न त्वत्समोऽस्त्यभ्यधिकः’ (११.४३)
इत्यादिषु साधारणप्रश्नावसर एव महान्तमुत्कर्षं विष्णोर्वक्ति ।। अन्यत्र यत्किञ्चिदुक्तावप्यसाधारण एवावसरे । तद्ध्याग्न्यादेरपि वेदादावस्ति ‘त्वमग्न इन्द्रो वृषभःसतामसि त्वं विष्णुरुरुगायो नमस्यः’ (ऋ.२.१.३)
‘विश्वस्माद् इन्द्र उत्तरः’(ऋ.१०.८६.१) इत्यादिषु । तद्ग्रन्थविरोधाच्च । तथा हि स्कान्दे शैवे । ‘यदन्तरं व्याघ्रहरीन्द्रयोर्वने यदन्तरं मेरुगिरीन्द्रविन्ध्ययोः । यदन्तरं सूर्यसुरेड्यबिम्बयोस्तदन्तरं रुद्रमहेन्द्रयोरपि ।। यदन्तरं सिंहगजेन्द्रयोर्वने यदन्तरं सूर्यशशाङ्कयोर्दिवि । यदन्तरं जाह्नविसूर्यकन्ययोस्तदन्तरं ब्रह्मगिरीशयोरपि ।। यदन्तरं प्रलयजवारिविप्लुषोर्यदन्तरं स्तम्बहिरण्यगर्भयोः । स्फुलिङ्गसंवर्तकयोर्यदन्तरं तदन्तरं विष्णुहिरण्यगर्भयोः ।। अनन्तत्वान्महाविष्णोस्तदन्तरमनन्तकम् ।
माहात्म्यसूचनार्थाय ह्युदारणमीरितम् ।।’ ‘तत्समो ह्यधिको वापि नास्ति कश्चित् कदाचन ।
एतेन सत्यवाक्येन तमेव प्रविशाम्यहम् ।।’ इत्याद्याह ।। तत्रैव शिवं प्रति मार्कण्डेयवचनम् - ‘संसारार्णवनिर्मग्न इदानीं मुक्तिमेष्यसि’ इत्यादि । पाद्मे शैवे मार्कण्डेयकथाप्रबन्धे शिवान्निषिद्ध्य विष्णोरेव मुक्तिमाह - ‘अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः’ इत्यादि । समब्राह्मविरोधाच्च । वेदश्चेतिहासाद्यविरोधेन योज्यः । ‘यदि विद्यात्’ इति वचनात् ।
अनिर्णयाच्चेन्द्रादिशङ्कयाऽन्यथा । तत्रापीष्टसिद्धिः । नामवैशेष्यात् । अतो भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यम् । तथाऽपि स्वतः प्रामाण्यात् सन्नेवोच्यते । अविरोधात् ।नच प्रमाणसिद्ध(दृष्ट)स्यान्यत्रादृष्ट्याऽपह्नवो युक्तः । धर्मवैचित्र्यादर्थानाम् । स्वतः प्रामाण्यानङ्गीकारे मानोक्तावप्यदोषत्वं च साधयेदित्यतिप्रसङ्गः ।। अनन्यापेक्षया च तत्परत्वं सिद्धमागमानाम् ।
‘नारायणपरा वेदाः’ (भाग.२.५.१५)। ‘सर्वे वेदा यत्पदमामनन्ति’ (कठ.२.१५) ‘वासुदेवपरा वेदाः’ (भाग.१.२.२९)इति ।। न चैतद्विरुद्धम् । ईश्वरनियमात् । अनादौ च तत्सिद्धं ‘द्रव्यं कर्म च कालश्च’ ( भाग.२.१०.१२) इत्यादौ ।प्रयोजकत्वं तु पूर्वोक्तन्यायेन । अतः सिद्धमेतत् ।। तच्चानन्यापेक्षा अचिन्त्यशक्तित्व एव युक्तम् । अतो न मायामयमेकम् ।।अचलत्वं तु ‘अप्रहर्षमनानन्दम्’ ‘अदुःखमसुखम्’ ‘(न)अप्रज्ञम्’ (माण्डूक-२.१) ‘असद्वा’ (तै.उ.२.७) इत्यादिवत् । क्रियादृष्टेः ।
‘तपो मे हृदयं ब्रह्म तनुर्विद्या क्रिया कृतिः’ (भाग.६.४.४६) इत्याद्युक्तेः । अतश्च न मायामयं सर्वम् । ऐश्वर्यादिवाचिभगशब्देनैव सम्बोधनाच्च ‘तं त्वा भग’( तै. उ.१.११) इत्यादौ । स्वरूपत्वान्न मायामयत्वं युक्तम् । विज्ञानशक्तिरहमासमनन्तशक्तेः’ ( भाग.३.१०.२४) ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ (भाग.६.४.४८) ।‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ ( श्वे.उ.६.८) इत्यादि वचनात् ॥२४ ॥ अत एवाव्यक्तादिरूपः ॥ २५ ॥ अस्त्वेवमात्मनो नित्यत्वम्; तथापि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह– अथेति ॥ २६ ॥ कुतोशोकः ? नियतत्वादित्याह – जातस्येति ॥ २७ ॥ तदेव स्पष्टयति – अव्यक्तादीनीति ॥ २८ ॥ देहयोगवियोगस्य नियतत्वादात्मनश्चेश्वरसरूपत्वात् सर्वथानाशान्न शोकः कार्य इत्युपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति – आश्चर्यवदिति । दुर्लभत्वेनेत्यर्थः । तद्ध्याश्चर्यं लोके । दुर्लभोपीश्वरसरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद्द्रष्टा ॥ २९-३८ ॥ साङ्ख्यं ज्ञानम् । 'शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते'' इति भगवद्वचनाद् व्यासस्मृऽतौ । योग उपायः । 'दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये'' । इति प्रयोगाद् भागवते । नेतरौ साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन । कर्मयोग इत्यादिप्रयोगाच्च । निन्दितत्वाच्चेतरयोः मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या । वेदानां त्वेकार्थत्वान्न विरोधः । पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम् । तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च । एवमेव सर्वत्र साङ्ख्ययोगशब्दार्थ उपादेयो वर्णनीयः । युक्तेश्च । ज्ञानं हि जैवमुक्तम् । उपायश्च वक्ष्यते । बुद्ध्यतेनयेति बुदि्धः । साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वागभिहितेत्यर्थः ॥ ३९-४० ॥ योग इमां बुदि्धं शृृण्वित्युक्तम्; बह्व्यो हि बुद्धयो मतभेदात्; तत् कथमेकत्र निष्ठां करोमीत्यत आह– व्यवसायात्मिकेति । सम्यग् युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः ॥ ४१ ॥ स्युरवैदिकानि मतान्यव्यवसायात्मकानि; न तु वैदिकानि । तेपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह– यामिमामिति । यामाहुस्तयेत्यन्वयः । मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति । वेदवादरताः कर्मादिवाचकवेदवादरताः; वेदैर्यन्मुखत उच्यते तत्रैव रताः । नान्यदस्तीति वादिनः ।
'परोक्षविषया वेदाः'', 'परोक्षप्रिया इव हि देवाः'', 'मां विधत्ते- भिधत्ते'' इत्यादिभिः पारोक्ष्येण हि प्रायो भगवन्तं वदन्ति । भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति । तत्प्राप्तिफला एव वेदा इति वदन्तीत्यर्थः । तेषां सम्यग् युक्तिनिर्णयात्मिका बुदि्धः समाधौ समाध्यर्थे न विधीयते । सम्यङ्ग्निर्णीतार्थानां हीश्वरे मनः समाधानं सम्यग् भवति । तदि्ध मोक्षसाधनम् । उक्तं चैतदन्यत्र– 'न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् ।स्वन्पे निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्'' ॥ इति ॥ ४२-४४ ॥ तां योगबुदि्धमाह- त्रैगुण्यविषया इत्यादिनेतरदपोद्य । वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोर्थ इव भवति(भाति) । 'परोक्षवादी वेदोयम्'' इति ह्युक्तम् ।अतः प्रातीतिकेर्थे भ्रान्तिं मा कुर्वित्यर्थः । 'वादो विषय(कत्वं)कृत्त्वं च मुखतो वचनं स्मृऽतम्'' । इत्यभिधानम् । न तु वेदपक्षो निषिध्यते ।'वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते'' । 'सर्वे वेदाः यत्पदमामनन्ति'' 'वेदोखिलो धर्ममूलं स्मृऽतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।'' 'वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।'' इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः । तद्विहितस्य तद्विरुद्धस्य च धर्माधर्मत्वोक्तेः ॥ ४५ ॥ तथापि काम्यकर्मणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह– यावानर्थ इति । यथा यावानर्थः प्रयोजनमुदपाने कूपे भवति तावान् सर्वतः सम्प्लुतोदकेन्तर्भवत्येव, एवं सर्वेषु वेदेषु यत् फलं तद् विजानतोपि ज्ञानिनो ब्राह्मणस्य फलेन्तर्भवति । ब्रह्म अणतीति ब्राह्मणः अपरोक्षज्ञानी । स हि ब्रह्म गच्छति । विजानत इति ज्ञानफलत्वं तस्य दर्शयति ॥ ४६ ॥ कामात्मनां निन्दा कृता कथमेषाम् ? 'स्वर्गकामो यजेत'' । इत्यादौ कामस्यापि विहितत्वादित्यत आह- कर्मण्येवेति । त इत्युप- लक्षणार्थम् । तव ज्ञानिनोपि न फलकामकर्तव्यता । किम्वन्येषाम् । न त्वस्ति केषाञ्चिन्न तेस्तीति । स हि ज्ञानी नरांश इन्द्रश्च । मोहादिस्त्वभिभवादेः । यदि तेषां शुद्धसत्त्वानां न स्याज्ज्ञानम्, क्वान्येषाम् ? उपदेशादेश्च सिद्धं ज्ञानं तेषाम् । 'पार्थार्ष्टिषेण-'' इत्यादिज्ञानिगणनाच्च । कामनिषेध एवात्र । फलानि ह्यस्वातन्त्र्येण भवन्ति । न हि कर्मफलानि कर्माभावे यत्नतोपि भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्नेपि अविरोधे अतः कर्माकरणे एव प्रत्यवायः । न तु ज्ञानादिनाकामनया वा फलाप्राप्तौ । अतः कर्मण्येवाधिकारः । अतस्तदेव कार्यम् । न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः । कामवचनानां तु तात्पर्यं भगवतैवोक्तम्- 'रोचनार्थं फलश्रुतिः'' 'यथा भैषज्यरोचनम्'' इत्यादौ भागवते ।
अत एव कामी यजेतेत्यर्थः । न तु कामी भूत्वेत्यर्थः । 'निष्कामं ज्ञानपूर्वं च'' इति वचनात् । वक्ष्यमाणेभ्यश्च । 'वसन्ते वसन्ते ज्योतिषा यजेत'' इत्यादिभ्यश्च । अतो मा कर्मफलहेतुर्भूः । कर्मफलं तत्कृतौ हेतुर्यस्य स कर्मफलहेतुः । स मा भूः । तर्हि न करोमीत्यत आह– मा त इति । कर्माकरणे च स्नेहो मास्त्वित्यर्थः । अन्यफलाभावेपि मत्प्रसादाख्यफलभावात् । इच्छा च तस्य युक्ता 'वृणीमहे ते परितोषणाय'' इत्यादिमहदाचारात् । अनिन्दनात्, विशेषत इतरनिन्दनाच्च । सामान्यं विशेषो बाधत इति च प्रसिद्धम्– 'सर्वानानय नैकं मैत्रम्'' इत्यादौ । अतः - 'नैकात्मतां मे स्पृहयन्ति केचित्'', 'भक्तिमन्विच्छन्तः'', 'ब्रह्मजिज्ञासा'', 'विज्ञाय प्रज्ञां कुर्वीत'' 'द्रष्टव्यः'' इत्यादिवचनेभ्यः, स्वार्थसेवकं प्रति न तथा स्नेहः किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरः स्नेह इति लौकिकन्यायाच्च भक्तिज्ञानादिप्रार्थना कार्येति सिद्धम् ॥४७ ॥ पूर्वश्लोकोक्तं स्पष्टयति – योगस्थ इति । योगस्थः उपायस्थः । सङ्गं फलस्नेहं त्यक्त्वा । तत एव सिद्ध्यसिद्ध्योः समो भूत्वा । स एव च मयोक्तो योगः ॥ ४८ ॥ इतश्च योगाय युज्यस्वेत्याह– दूरेणेति । बुदि्धयोगात् ज्ञानलक्षणादुपायात् दूरेण अतीव । अतो बुद्धौ शरणं ज्ञाने स्थितिम् । फलं कर्मकृतौ हेतुर्येषां ते फलहेतवः ॥ ४९ ॥ ज्ञानफलमाह – बुदि्धयुक्त इति । सुकृतमप्यप्रियं मानुष्यादिफलं जहाति, न बृहत्फलमप्युपासनादिनिमित्तम्- 'न हास्य कर्म क्षीयते'', 'अविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद् भवति'' इत्यादिश्रुतिस्मृऽतिभ्यः । अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र । उभयक्षयश्रुतिरप्यनिष्टविषया । नहीष्टपुण्यक्षये किञ्चित् प्रयोजनम् । न चेष्टनाशो ज्ञानिनो युक्तः । इष्टाश्च केचिद्विषयाः - 'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति'', 'प्रजापतेः सभां वेश्म प्रपद्ये । यशोहं भवामि ब्राह्मणानाम्'', 'स्त्रीभिर्वा यानैर्वा'', 'अस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते'', 'कामान्नी कामरूप्यनुसञ्जरन्'', 'स एकधा भवति'' इत्यादि- श्रुतिभ्यः । बहुत्वेप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः । अनुभवशक्तिश्चेश्वरप्रसादात् । श्रुतेश्च । न च शरीरपातात् पूर्वमेतत्- 'स तत्र पर्येति'', 'एतमानन्दमयमात्मानमुपसङ्क्रम्य'' इत्याद्युत्तरत्र श्रवणात् । न चैकीभूत एव ब्रह्मणा सः- 'मग्नस्य हि परेज्ञाने किं न दुःखतरं भवेत्'' इत्यादिनिन्दनान्मोक्षधर्मे । परिहारे पृथग् भोगाभिधानाच्च । शुकादीनां पृथग्दृष्टेश्च । 'जगद्व्यापार- वर्जम्'' इत्यैश्वर्यमर्यादोक्तेश्च । 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः'' इति च । उपाधिनाशे नाशाच्च प्रतिबिम्बस्य । नचैकीभूतस्य पृथग्ज्ञाने मानं पश्यामः । 'आसं दुःखी, नासम्'' इति ज्ञानविरोधाच्चेश्वरस्य । अनेन रूपेणेति च । भेदाभावात् । न च प्रतिबिम्बस्य बिम्बैक्यं लोके पश्यामः । उपाधिनाशे मानं वा । 'मग्नस्य हि परेज्ञाने'' इति दुःखात्मकत्वोक्तेश्च । 'यावदात्मभावित्वात्'' इत्युपाधि- नित्यताभिधानाच्च । अतोन्यवचनं प्रतीयमानमप्यौपचारिकम् । दृष्टाश्च ते भगवतो भिन्ना नारदेन । प्रतिशाखं च 'स एकधा'' इत्यादिषु भेदेन प्रतीयन्ते । विरोधे तु युक्तिमतामेव बलवत्त्वम् । युक्तयश्चात्रोक्ताः - 'मग्नस्य हि'' इत्यादयः । अतो जले जलैकीभाववदेकीभावः । उक्तं च - 'यथोदकं शुद्धे शुद्धम्'', 'यथा नद्यः'' इत्यादौ । तत्राप्यन्योन्यात्म- कत्वे वृद्ध्यसम्भवः । अस्ति चेषत् समुद्रेपि द्वारि । महत्त्वादन्यत्रा- दृष्टिः । 'ता एवापो ददौ तस्य स ऋषिः शंशितव्रतः'' इति महाकौर्मे समर्थानां भेदज्ञानाच्च । 'नैव तत् प्राप्नुवन्त्येते ब्रह्मेशानादयः सुराः । यत् ते पदं हि कैवल्यम्'' इति निषेधाच्च नारदीये । सविचारश्च निर्णयः कृतो मोक्षधर्मेषु । बलवांश्च सविचारो निर्णयो वाक्यमात्रात् । अतो– 'यत्र नान्यत् पश्यति'' इत्याद्यपि तदधीन- सत्तादिवाचि । अन्यथा कथमैश्वर्यादि स्यात्? न च तन्मायामय- मित्युक्तम् । अन्यथा कथं तत्रैव – 'स एकधा'' इत्यादि ब्रूयात्? न च –'न ह वै सशरीरस्य'' इत्यादिविरोधः । वैलक्षण्यात् तच्छरीराणाम् । अभौतिकानि हि तानि नित्योपाधिविनिर्मितानीश्वरशक्त्या । तथाचोक्तम्– 'शरीरं जायते तेषां षोडश्या कलयैव तु'' । इत्यादि नारायणाष्टाक्षरकल्पे ।
वदन्ति च लौकिकवैलक्षण्येभावशब्दम्- 'अप्रहर्षमनानन्दम्'', 'सुखदुःखबाह्यः'' इत्यादिषु । निरुक्त्यभावाच्च न तानि शरीराणि । तथाहि श्रुतिः - 'अशारीती.. तच्छरीरमभवत्'' इति । न हि तानि शीर्णानि भवन्ति । 'सर्गेपि नोपजायन्ते'' इत्यादिवचनात् । साम्यात् प्रयोगः । प्रयोगाच्च- 'अनिंद्रिया अनाहारा अनिष्पन्दाः सुगन्धिनः'' 'देहेंद्रियासुहीनानां वैकुण्ठपुरवासिनाम्'' इत्यादि दृष्टदेहेष्वेव । नचैषान्या गौणी मुक्तिः । 'बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः'' ॥ इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात् ।ये त्वत्रैव भगवन्तं प्रविशन्ति तेपि पश्चात् तत्रैव यान्ति । योग्यत्वं चात्र विवक्षितम् । युधिष्ठिरप्रश्न इतरनिन्दनाच्च । सायुज्यं च ग्रहवत् । तदुक्तेश्च - 'भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते'' ॥ इति नारायणाष्टाक्षरकल्पे । अतोनिष्टस्यैव मोक्षः । सोस्त्येव सर्वात्मना– 'अदुःखम्'', 'सर्वदुःखविवर्जिताः'', 'अशोकमहिमम्'', 'यत्र गत्वा न शोचति'' इत्यादिभ्यः । विशेषवचनाभावाच्च । येषां त्वीषद् दृश्यते ते न सायुज्यं प्राप्ता । सामीप्याद्येव तेषाम् । अतः प्रारब्धकर्मशेषभावात् तद्भुक्त्वा सायुज्यं गच्छन्ति । तच्चोक्तम् - 'सङ्कर्षणादयः सर्वे स्वाधिकारादनन्तरम् । प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः'' ॥ इति व्यासयोगे । अतोनिष्टस्य सर्वात्मना वियोगः ।
'परब्रह्मत्वमिच्छामि परमात्मन् जनार्दन'' । इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात् । 'न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित् । ऋते वैष्णवमानन्दं वाङ्मनोगोचरं महत्'' ॥ इत्यादेश्च ब्रह्मादिपदादप्यधिकतमं सुखं च मोक्ष इति सिद्धम् । अतो योगाय युज्यस्व । ज्ञानोपायाय । तदि्ध कर्मकौशलम् ॥ ५० ॥ तदुपायमाह - कर्मजमिति । कर्मजं फलं त्यक्त्वा, अकामनयेश्वराय समर्प्य । बुदि्धयुक्ताः सम्यग्ज्ञानिनो भूत्वा पदं गच्छन्ति । सयोगकर्म ज्ञानसाधनम् ; तन्मोक्षसाधनमिति भावः ॥ ५१ ॥ कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीति ? आह- यदेति । निर्वेदं नितरां लाभम् । प्रयोगात्- 'तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य'' ॥ इत्यादि । न हि तत्र वैराग्यमुपपद्यते । तथासति पाण्डित्यादिति स्यात् । न च ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति । 'आत्मारामा हि मुनयो निर्ग्राह्या अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः'' ॥ इति वचनात् ।
अनुष्ठानाच्च शुकादीनाम् । न च तेषां फलं नास्ति । तस्यैव महत्सुखत्वात् तेषाम्- 'या निर्वृतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुलितात् पततां विमानात्'' ॥ इत्यादिवचनात् । तेषामप्युपासनादिफलस्य साधितत्वात् । तारतम्याधिगतेश्च । तथाहि- यदि तारतम्यं न स्यात्, 'नात्यन्तिकं विगणयन्त्यपि ते प्रसादम्'', 'नैकात्मतां मे स्पृहयन्ति केचित्'' 'एकत्वमप्युत दीयमानं न गृह्णन्ति'' इति मुक्तिमप्यनिच्छतामपि मोक्ष एव फलं तमिच्छतामपि स एव भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात् ? वचनाच्च - 'यथा भक्तिविशेषोत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोपि ज्ञानिनां लिङ्गभेदने ।
योगिनां भिन्नलिङ्गानामाविर्भूतस्वरूपिणाम् । प्राप्तानां परमानन्दं तारतम्यं सदैव हि'' ॥ इति । 'न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन । मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि'' ॥ इति च । साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च । तच्चोक्तम्-'दुःखाभावः परानन्दो लिङ्गभेदः समा मताः । तथापि परमानन्दो ज्ञानभेदात्तु भिद्यते'' ॥ इति नारायणाष्टाक्षरकल्पे । अतो न वैराग्यं श्रुतादावत्र विवक्षितम् । न च सङ्कोचे मानं किञ्चिद् विद्यमान इतरत्र प्रयोगे । महद्भिः श्रवणीयस्य श्रुतस्य च वेदादेः फलं प्राप्स्यसीत्यर्थः ॥५२ ॥ तदेव स्पष्टयति - श्रुतिविप्रतिपन्नेति । पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति; ततश्च समाधावचला, ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात्; तदा योगमवाप्स्यसि उपायसिद्धो भवसीत्यर्थः ॥ ५३ ॥ स्थिता प्रज्ञा ज्ञानं यस्य स स्थितप्रज्ञः । भाष्यतेनयेति भाषा । लक्षणमित्यर्थः । उक्तं लक्षणमनुवदति लक्षणान्तरं पृच्छामीति ज्ञापयितुम् - समाधिस्थस्येति । कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः । तथाहि निरुक्तिः कृता हरिवंशेषु रुद्रेण कैलासयात्रायाम् । 'हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान्'' ॥ इति वचनान्तराच्च । किमासीत ? किं प्रत्यासीत ? न चार्जुनो न जानाति तल्लक्षणादिकम् -'जानन्ति पूर्वराजानो देवर्षयस्तथैव हि । तथापि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये । न ते गुह्याः प्रतीयन्ते पुराणेष्वल्पबुदि्धनाम्'' ॥ इति वचनात् ॥५४ ॥ गमनादिप्रवृत्तिर्नात्यभिसन्धिपूर्विका मत्तादिप्रवृत्तिवदिति 'या निशा'' इत्यादिना दर्शयिष्यन् तल्लक्षणं प्रथमत आह - प्रजहातीति । एवं परमानन्दतृप्तः किमर्थं प्रवृत्तिं करोतीति प्रश्नाभिप्रायः । प्रारब्ध- कर्मणेषत्तिरोहितब्रह्मणो वासनया प्रायोल्पाभिसन्धिप्रवृत्तयः सम्भवन्तीत्याशयवान् परिहरति । प्रायः सर्वान् प्रजहाति । शुकादीनामपीषद्दर्शनात् । 'त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्त्वदर्शिनः'' इत्युक्तेस्तामिच्छन्ति । यदा त्विन्द्रादीनामाग्रहो दृश्यते तदाभिभूतं तेषां ज्ञानम् । तच्चोक्तम्- 'आधिकारिकपुंसां तु बृहत्कर्मत्वकारणात् ।उद्भवाभिभवौ ज्ञाने ततोन्येभ्ये विलक्षणाः'' ॥ इति। अत एव वैलक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम् । न चात्र समाधिं कुर्वतो लक्षणमुच्यते । 'यः सर्वत्रानभिस्नेहः'' इति स्नेहनिषेधात् । नहि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति । असम्प्रज्ञातसमाधेः । सम्प्रज्ञाते त्वविरोधः । तथापि न तत्रैवेति नियमः । 'कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् ।ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्'' ॥ इति स्मृतेः ।मनोगता हि कामाः । अतस्तत्रैव तद्विरुद्धज्ञानोत्पत्तौ युक्तं हानं तेषामिति दर्शयति - मनोगतानिति । विरोधश्चोच्यते - 'रसोप्यस्य परं दृष्ट्वा निवर्तते'' (गी) इति । न चैतददृष्ट्यापलपनीयम् । पुरुषवैशेष्यात् । आत्मना परमात्मना । परमात्मन्येव स्थितः सन् । आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिर्भवति । 'विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः।
देवाद् भवति वै तुष्टिर्नान्यथा तु कदाचन'' ॥इत्युक्तं हि नारायणाष्टाक्षरकल्पे । अतो नात्मा जीवः ॥५५ ॥ तदेव स्पष्टयत्युत्तरैस्त्रिभिः श्लोकैः । एतान्येव ज्ञानोपायानि च । तच्चोक्तम् - 'तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत्तु लक्षणम्'' ॥ इति । शोभनाध्यासो रागः । 'रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते'' । इत्यभिधाने ॥५६ ॥ सर्वत्रानभिस्नेहत्वाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि ॥५७, ५८॥ न चैतल्लक्षणं ज्ञानमयत्नतोपि भवतीत्याहोत्तरश्लोकैः । निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति । इतरविषयाकाङ्क्षाभावो वा । रसाकाङ्क्षादिर्न निवर्तते । स त्वपरोक्षज्ञानादेव निवर्तत इत्याह - विषया इति । 'इंद्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा तु रसनामसौ रस्ये च वर्धते'' ॥ इति वचनाद् भागवते ।
रसशब्दस्य रागवाचकत्वाच्च ॥५९ ॥ अपरोक्षज्ञानरहितज्ञानिनोपि साधारणयत्नवतोपि मनो हरन्तींद्रियाणि । पुरुषस्य शरीराभिमानिनः । को दोषस्ततः ? प्रमाथीनि प्रमथनशीलानि पुरुषस्य ॥ ६० ॥ तर्ह्यशक्यान्येवेत्यत आह- तानीति । बहुयत्नवतः शक्यानि । अतो यत्नं कुर्यादित्याशयः । युक्तो मयि मनोयुक्तः । अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः । फलमाह - वशे हीति ॥६१॥ रागादिदोषकारणमाह परिहाराय श्लोकद्वयेन । सम्मोहः अकार्येच्छा । तथाहि मोहशब्दार्थ उक्त उपगीतासु - 'मोहसंिज्ञतम् । अधर्मलक्षणं चैव नियतं पापकर्मसु'' इति । तथा चान्यत्र - 'सम्मोहो- धर्मकामिता'' इति । स्मृऽतिविभ्रमः प्रतिषेधादिस्मृऽतिनाशः । बुदि्धनाशः सर्वात्मना दोषबुदि्धनाशः । विनश्यति नरकाद्यनर्थं प्राप्नोति । तथाह्युक्तम् - 'अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा । दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते'' ॥ इति ॥ ६२, ६३ ॥ इंद्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् । विषयाननुभवन्नपि विधेय आत्मा मनो यस्य सः । जितात्मेत्यर्थः । प्रसादं मनःप्रसादम् ॥ ६४ ॥ कथं प्रसादमात्रेण सर्वदुःखहानिः ? प्रसन्नचेतसो हि बुदि्धः पर्यवतिष्ठति । ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति । प्रसादो नाम स्वतोपि प्रायो विषयागतिः ॥ ६५ ॥ प्रसादाभावे दोषमाहोत्तरश्लोकाभ्याम् । न हि प्रसादाभावे युक्तिश्चित्तनिरोधः । अयुक्तस्य च बुदि्धः सम्यग्ज्ञानं नास्ति । तदेवोपपादयति न चायुक्तस्येति । शान्तिर्मुक्तिः । 'शान्तिर्मोक्षोथ निर्वाणम्'' इत्यभिधानात् ॥ ६६ ॥ कथमयुक्तस्य भावना न भवति ? आह - इंद्रियाणामिति । अनु विधीयते क्रियते । नन्वीश्वरेणेंद्रियाणामनु 'बुदि्धर्ज्ञानम्'' इत्यादि वक्ष्यमाणत्वात् । प्रज्ञां प्रज्ञानम् । उत्पत्स्यदपि निवारयतीत्यर्थः । उत्पन्नस्याप्यभिभवो भवति ॥ ६७ ॥ तस्मात् सर्वात्मना निगृहीतेंद्रिय एव ज्ञानीति निगमयति तस्मादिति ॥ ६८ ॥ उक्तलक्षणं पिण्डीकृत्याह - या निशेति । या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा, यस्यां सुप्तानीव न किञ्चिज्जानन्ति, तस्यामिंद्रियसंयमयुक्तो ज्ञानी जागर्ति । सम्यगापरोक्ष्येण पश्यति परमात्मानमित्यर्थः । यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति । मत्तादिवद् गमनादिप्रवृत्तिः । तदुक्तम् - 'देहं तु तं न चरमम्'' 'देहोपि दैववशगः'' इति श्लोकाभ्याम् । मननयुक्तो मुनिः । पश्यत इत्यस्य साधनमाह ॥ ३९ ॥ तेन विषयानुभवप्रकारमाह - आपूर्यमाणमिति । यो विषयैरापूर्य- माणोप्यचलप्रतिष्ठो भवति । नोत्सेकं प्राप्नोति । न च प्रयत्नं करोति । न चाभावे शुष्यति । न हि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृदि्धशोषौ बहुतरौ प्राप्नोति । प्रयत्नं वा करोति । स मुक्तिमाप्नोतीत्यर्थः ॥ ७० ॥ एतदेव प्रपञ्चयति - विहायेति । कामान् विषयान् निःस्पृहतया विहाय यश्चरति भक्षयति । भक्षयामीत्याद्यहङ्कारममकारवर्जितश्च । स हि पुमान् । स एव च मुक्तिमधिगच्छतीत्यर्थः ॥ ७१ ॥ ॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोध्यायः ॥ उपसंहरति - एषेति । ब्राह्मी स्थितिः ब्रह्मविषया स्थितिर्लक्षणम् । अन्तकालेप्यस्यां स्थित्वैव ब्रह्म गच्छति । अन्यथा जन्मान्तरं प्राप्नोति । 'यं यं वापि'' इति वक्ष्यमाणत्वात् । ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम् । 'भोगेन त्वितरे'' इति ह्युक्तम् । सन्ति हि बहुशरीरफलानि कर्माणि कानिचित् । 'सप्तजन्मनि विप्रः स्यात्'' इत्यादेः । दृष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः । तथा ह्युक्तम् - 'स्थितप्रज्ञोपि यस्तूर्ध्वः प्राप्य रुद्रपदं ततः ।साङ्कर्षणं ततो मुक्तिमगाद् विष्णुप्रसादतः'' ॥ इति गारुडे । 'महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते'' । इति नारदीये ।निश्चितफलं च ज्ञानम् - 'तस्य तावदेव चिरम्'', 'यदु च नार्चिषमेवाभिसम्भवति'' इत्यादिश्रुतिभ्यः । न च कायव्यूहापेक्षा । 'तद्यथैषीकातूलम्'', 'तद्यथा पुष्करपलाशे'', 'ज्ञानाग्निः सर्वकर्माणि'' इत्यादिवचनेभ्यः । प्रारब्धे त्वविरोधः । प्रमाणाभावाच्च । न च तच्छास्त्रं प्रमाणम्- 'अक्षपादकणादानां साङ्ख्ययोगजटाभृताम् ।मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः'' ॥ इति निन्दनात् । यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम् । न हि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम् । तथाह्युक्तम्- 'एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।अतथ्यानि वितथ्यानि दर्शयस्व महाभुज प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु'' ॥ इति वाराहे । 'कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः । चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः ।
दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु ।चक्रुर्वेदैस्तु ब्राह्माणि वैष्णवान् विष्णुवेदतः । पञ्चरात्रं भारतं च मूलरामायणं तथा । तथा पुराणं भागवतं विष्णुवेद इतीरितः । अतः शैवपुराणानि योग्यान्यन्याविरोधतः'' ॥ इति च नारदीये । अतो ज्ञानिनां भवत्येव मुक्तिः । भीष्मादीनां तु तस्मिन् क्षणे मुक्त्यभावः । 'स्मरंस्त्यजति'' इति वर्तमानापदेशो हि कृतः । तच्चोक्तम्- 'ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा । विष्णुमाया तदा तेषां मनो बाह्यं करोति हि'' ॥ इति गारुडे । नचान्येषां तदा स्मृऽतिर्भवति - 'बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् । भजन्ति तत्स्मृऽतिं त्वन्ते देवो याति नचान्यथा'' ॥ इत्युक्तेर्ब्रह्मवैवर्ते ।
निर्बाणमशरीरम् । 'कायो बाणं शरीरं च'' इत्यभिधानात् । 'एतद्-बाणमवष्टभ्य'' इति प्रयोगाच्च । निर्बाणशब्दप्रतिपादनम्- 'अनिंद्रियाः'' इत्यादिवत् । कथमन्यथा सर्वपुराणादिप्रसिद्धाकृतिर्भगवत उपपद्येत ? न चान्यद्भगवत उत्तमं ब्रह्म - 'ब्रह्मेति परमात्मेति भगवानिति शब्द्यते'' इति भागवते । 'भगवन्तं परं ब्रह्म'' 'परं ब्रह्म जनार्दनः'', 'परमं यो महद् ब्रह्म'', 'यस्मात् क्षरमतीतोहम्'', 'योसावतींद्रिय- ग्राह्यः'', 'नास्ति नारायणसमं न भूतं न भविष्यति'', 'न त्वत्समोस्त्यभ्यधिकः कुतोन्यः'' इत्यादिभ्यः । न च तद्ब्रह्मणो- शरीरत्वादेतत् कल्प्यम् । तस्यापि शरीरश्रवणात्- 'आनन्दरूपममृतम्'', 'सुवर्णज्योतीः'', 'दहरोस्मिन्नन्तर आकाशः'' इत्यादिषु । यदि रूपं न स्यात्, आनन्दमित्येव स्यात्, नत्वानन्दरूपमिति । कथं च सुवर्णरूपत्वं स्यादरूपस्य ? कथं च दहरत्वम्? दहरस्थश्च- 'केचित् स्वदेहे'' इत्यादौ रूपवानुच्यते । 'सहस्रशीर्षा पुरुषः'', 'रुग्मवर्णं कर्तारम्'', 'आदित्यवर्णं तमसः'' 'सर्वतः पाणिपादं तत्'', 'विश्वतश्चक्षुरुत'' इत्यादिवचनात्, विश्वरूपाध्यायादेश्च रूपवानवसीयते । अतिपरिपूर्णतमज्ञानैश्वर्यवीर्यानन्दश्रीशक्त्यादिमांश्च भगवान् । 'परास्य शक्तिः'', 'यः सर्वज्ञः'', 'आनन्दं ब्रह्मणः'', 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति'', 'अनादिमध्यान्तमनन्तवीर्यम्'', 'सहस्रलक्षा- मितकान्तिकान्तम्'', 'मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे'', 'विज्ञान- शक्तिरहमासमनन्तशक्तेः'', 'तुर्यं तत् सर्वदृक् सदा'', 'आत्मानमन्यं च स वेद विद्वान्'', 'अन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः'', 'ऐश्वर्यस्य समग्रस्य'' । 'अतीव परिपूर्णं ते सुखं ज्ञानं च सौभगम् ।
यच्चात्ययुक्तं स्मर्तुं वा शक्तः कर्तुमतः परः'' ॥ इत्यादिभ्यः । तानि च सर्वाण्यन्योन्यस्वरूपाणि - 'विज्ञानमानन्दं ब्रह्म'', 'आनन्दो ब्रह्मेति व्यजानात्'', 'सत्यं ज्ञानमनन्तं ब्रह्म'', 'यस्य ज्ञानमयं तपः'', 'स मा भग'' । 'न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा ।
न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः'' ॥ 'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः'' ॥ इति पैङ्गिखिलेषु । 'देहोयं मे सदानन्दो नायं प्रकृतिनिर्मितः । परिपूर्णश्च सर्वत्र तेन नारायणोस्म्यहम्'' ॥ इत्यादि ब्रह्मवैवर्ते । तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया- 'न च गर्भेवसद्देव्या न चापि वसुदेवतः । न चापि राघवाज्जातो न चापि जमदग्नितः । नित्यानन्दोद्वयोप्येवं क्रीडते मोघदर्शनः'' ॥ इति पाद्मे । 'न वै स आत्मात्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः'' । 'सर्गादेरीशिताजः परमसुखनिधिर्बोधरूपोप्यबोधं लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम'' । 'स ब्रह्मवन्द्यचरणो नरवत् प्रलापी स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार'' ।
'पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम् । रुद्रवाक्यमृतं कर्तुमजितो जितवत् स्थितः ।
योजितो विजितो भक्त्या गाङ्गेयं न जघान ह । न चाम्बा ग्राहयामास करुणः कोपरस्ततः'' ॥ इत्यादिभ्यश्च स्कान्दे ।
न तत्र संसारसमानधर्मा निरूप्याः । यत्र च परावरभेदोवगम्यते तत्राज्ञबुदि्धमपेक्ष्यावरत्वम् । विश्वरूपम- पेक्ष्यान्यत्र ।
तच्चोक्तम् - 'परिपूर्णानि रूपाणि समान्यखिलरूपतः ।तथाप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोपि हि ।
परावरं वदन्त्येव ह्यभक्तानां विमोहने'' ॥ इति गारुडे । न चात्र किञ्चिदुपचरितादि वाच्यम् । अचिन्त्यशक्तेः पदार्थ- वैचित्र्याच्चेत्युक्तम् । 'कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा । नचाणुमात्रं भिन्नानि तथाप्यस्मान् विमोहसि'' ॥ इत्यादेश्च नारदीये । तस्मात् सर्वदा सर्वरूपेष्वपरिगणितानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञानी ऋच्छतीति सिद्धम् ॥७२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये द्वितीयोध्यायः अथ तृतीयोऽध्यायः आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये - कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता "दूरेण ह्यवरम्" इत्यादौ । एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तिधर्मान् विनेत्याह - ज्यायसीति । कर्मणः सकाशात् बुदि्धर्ज्यायसी चेत् ते तव मता तत् तर्हि ॥ १, २ ॥ ज्यायस्त्वेपि बुद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत. इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह - लोक इति । द्विविधा अपि जनाः सन्ति । गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानिनां सनकादीनाम् । योगिनामुपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेपि योगिनः । निष्ठा स्थितिः । त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः । न तु सनकादिवत् तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोपि ज्ञानिन एव । तथाह्युक्तम् - 'ईश्वरेच्छया विनिवेशितकर्माधिकारः'' इति ॥ ३ ॥ इतश्च नियोक्ष्यामीत्याह - न कर्मणामिति । न कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः । कुतः ? पुरुषत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणां च । न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्मकृतानामनन्तकर्मणां भावात् । न च सर्वाणि भुक्तानि । एकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकैकानि बहुजन्मफलानि कानिचित् । तत्र चैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम् । ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः । तच्चोक्तम्- 'जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु । स्त्री वाप्यनूनदशकं देहं मानुषमार्जते । चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः । अतोवित्त्वा परं देवं मोक्षाशा का महामुने'' ॥ इति ब्राह्मे । यदि च सादिः स्यात् संसारः पूर्वकर्माभावादतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते - 'अनिष्टमिष्टम्'' इति । ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः - 'निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्'' ॥ इति मानवे । अतस्तत्साम्यादकरणेपि भवतीत्यत आह - न चेति । संन्यासः काम्यकर्मपरित्यागः । 'काम्यानां कर्मणां न्यासम्'' इति वक्ष्यमाणत्वात् । अकामकर्मणामन्तःकरणशुद्ध्या ज्ञानान्मोक्षो भवति । तच्चोक्तम् - 'कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदि'' इति भागवते । विरक्तानामेव च ज्ञानमुक्तम् -'न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् । स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्'' ॥ इति । न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग एव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम् । इतरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथाहि श्रुतिः - 'नाशान्तो नासमाहितः'' इति । महांश्च यत्याश्रमे तोषो भगवतः । तथाह्याह - 'यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषणीम्'' इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । स एव च महान् भगवत्तोषः । तच्चोक्तम्- देवादीनामादिराज्ञां महोद्योगेपि नो मनः ।विष्णोश्चलति तद्भोगोप्यतीव हरितोष(णम्)णः'' ॥ इति पाद्मे ॥४ ॥ न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह - नहीति ॥ ५ ॥ तथापि शक्तितस्त्यागः कार्य इत्यत आह - कर्मेंद्रियाणीति । मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह- मनसा स्मरन् मनसा नियम्येति । कर्मयोगं स्ववर्णाश्रमोचितम् । न तु गृहस्थकर्मैवेति नियमः । संन्यासादिविधानात् । सामान्यवचनाच्च ॥ ६, ७ ॥ अतो नियतं वर्णाश्रमोचितं कर्म कुरु ॥ ८ ॥ 'कर्मणा बध्यते जन्तुः'' इति कर्म बन्धकं स्मृऽतमित्यत आह - यज्ञार्थादिति । कर्म बन्धनं यस्य लोकस्य स कर्मबन्धनः । यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः । मुक्तसङ्ग इति विशेषणात् । 'कामान् यः कामयते'' इति श्रुतेश्च । 'अनिष्टमिष्टम्'' इति वक्ष्यमाणत्वाच्च । 'एतान्यपि तु'' इति च । 'तस्मान्नेष्टियाजुकः स्यात्'' इति च । विशेषवचनत्वे समेपि विशेषणं परिशिष्यते ॥९॥ तत्रार्थवादमाह - सहयज्ञा इति ॥ १०-१३ ॥ हेत्वन्तरमाह - अन्नादिति । यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां चक्रप्रवेशो न भवति । तद्ध्यापाद्यं कर्मविधये । न तु सामान्य(साम्य)मात्रेणेदानीं कार्यम् । मेघचक्राभिमानी च पर्जन्यः तच्च यज्ञाद् भवति । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः'' ॥ इति स्मृतेश्च ।
उभयवचनादादित्यात् समुद्राच्चाविरोधः । अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति । यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः । कर्म इतरक्रिया । ॥१४ ॥ कर्म ब्रह्मणो जायते । 'एष ह्येव साधु कर्म कारयति'', 'बुदि्धर्ज्ञानम्'' इत्यादिभ्यः । न च मुख्ये सम्भाव्यमाने पारम्पर्येण औपचारिकं कल्प्यम् । न च जडानां स्वतः प्रवृत्तिः सम्भवति । 'एतस्य वा अक्षरस्य'' इत्यादिसर्वनियमनश्रुतेश्च । 'द्रव्यं कर्म च'' इत्यादेश्च अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा । 'न कर्तृत्वम्'' इत्यादिनिषेधाच्च । अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यज्यते परं ब्रह्म । अन्यथानादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति? न च रूढिं विना योगाङ्गीकारो युक्तः । परामर्शाच्च- 'तस्मात् सर्वगतं ब्रह्म'' इति । नह्येकशब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते । तानि चाक्षराणि नित्यानि- 'वाचा विरूप नित्यया'', 'अनादिनिधना नित्या वागुत्सृष्टा'', 'अत एव च नित्यत्वम्'' इत्यादिश्रुतिस्मृऽतिभगवद्वचनेभ्यः । दोषश्चोक्तः सकर्तृकत्वे । नचाबुदि्धपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निःश्वसितशब्दस्त्वक्लेशाभिप्रायः । नाबुदि्धपूर्वाभिप्रायः । 'सोकामयत'' इत्यादेश्च । 'इष्टं हुतम्'' इत्यादिरूपप्रपञ्चसहाभिधानाच्च । महातात्पर्यविरोधाच्च । तच्चोक्तं पुरस्तात् । नह्यस्वातन्त्र्येण कर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेपि उत्पत्तिवचनानि अभिव्यक्त्यर्थानि अभिमानिदेवता- विषयाणि च । 'नित्या'' इत्युक्त्वा 'उत्सृष्टा'' इति वचनात् । अभिव्यञ्जके कर्तृवचनं चास्ति । 'कृत्स्नं शतपथं चक्रे'' इति कथमादित्यस्था वेदास्तेनैव क्रियन्ते । वचनमात्राच्च निर्णयात्मक- शारीरकोक्तं बलवत् । शास्त्रं योनिः प्रमाणं अस्येति तु शास्त्रयोनित्वम् । 'जन्माद्यस्य यतः'' इत्युक्ते प्रमाणं हि तत्रापेक्षितम् । न तु तस्य जातत्वं वेदकारणत्वं वा । नहि वेदकारणत्वं जगत्कारणत्वे हेतुः । नहि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यत्वे । न च सर्वज्ञत्वे । यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा? तस्माद् वेदप्रमाण- कत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि । यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मात् तन्नित्यं यज्ञे प्रतिष्ठितम् । तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् ॥१५ ॥ तदेतत् जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वादघायुः । पापनिमित्तमेव यस्यायुः सोघायुः ॥ १६ ॥ तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह - यस्त्विति । रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रालम्बुदि्धः । सन्तोषस्तज्जनकं सुखम् । 'सन्तोषस्तृप्तिकारणम्'' इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनालम्बुदि्धं च । महच्च तत् सुखम् । तेनैवान्यत्रालम्बुदि्धरिति दर्शयति - आत्मन्येव च सन्तुष्ट इति । तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत् किमपि सन्तोषकारणमित्यवधारणम् । आत्मना तृप्तः । नह्यात्मन्यलम्बुदि्धर्युक्ता । तद्वाचित्वं च 'वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः'' इति प्रयोगसिद्धम् । अध्याहारस्त्वगतिकागतिः । आत्मरतिरेवेत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते । 'स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा ।
स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता'' इति वचनाच्च पञ्चरात्रे । अन्यदान्यरतिरपीषत् सर्वस्य भवति । नच तत्रालम्बुदि्धमात्रमुक्तम् । आत्मतृप्त इति पृथगभिधानात् । कर्तृशब्दश्च कालावच्छेदेपि चायं प्रसिद्धः- 'यो भुङ्क्ते स तु न ब्रूयात्'' इत्यादौ । अतोसम्प्रज्ञातसमाधावेवैतत् । मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति । 'मनु अवबोधने'' इति धातोः । परमात्मरतिश्चात्र विवक्षिता । 'विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि'' इति वचनात् ॥१७ ॥ तस्य 'कर्मकाले वक्तव्योहम्'' इति कञ्चित् प्रत्युक्त्वा तत्कृता- वात्मरत्यधिकः समो वार्थो नास्ति । न च सन्ध्याद्यकृतौ कश्चिद् दोषः अस्ति । नचैतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोर्थव्यपाश्रयः । ज्ञानमात्रेण प्रत्यवायो यद्यपि न भवति । तदर्जुनस्यापि सममिति न तस्य कर्मोपदेशोपयोग्येतद् भवति । ईषत् प्रारब्धानर्थसूचकं च तद्भवति । महच्चेद् वृत्रहत्यादिवत् ॥ १८ ॥ यतोसम्प्रज्ञातसमाधेरेव कार्याभावस्तस्मात् कर्म समाचर ॥ १९ ॥ आचारोप्यस्तीत्याह - कर्मणैवेति । कर्मणा सह, कर्म कुर्वन्त एवेत्यर्थः । कर्म कृत्वैव ततो ज्ञानं प्राप्य वा । न तु ज्ञानं विना । प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु । 'तमेवं विद्वान्'' इत्यादिश्रुतिभ्यश्च । अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च 'बुदि्धयुक्तः'' इति । गत्यन्तरं च 'नान्यः पन्थाः'' इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराप्यविरोधः । यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते- 'ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ॥'' इत्यादौ तत्र पापादिमुक्तिः । स्तुतिपरता च । तत्रापि हि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेन्यथा मुक्तिं निषिद्ध्य- 'ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते । प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि ॥'' इत्यादौ । न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेप्युक्तज्ञाननियमं घ्नन्ति । यथा कञ्चिद् दक्षं भृत्यं प्रत्युक्तानि 'अयमेव हि राजा किं राज्ञा'' इत्यादीनि । यथाह भगवान्- 'यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च । स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा । भवेन्मोक्षस्तु मद्दृष्टेर्नान्यतस्तु कथञ्चन'' ॥ इति नारदीये ।
अतोपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ॥२० ॥ स यत् वाक्यादिकं प्रमाणीकुरुते, यदुक्तप्रकारेण तिष्ठतीत्यर्थः ॥ २१ ॥ विद्वदविदुषोः कर्मभेदमाह - प्रकृतेरिति । प्रकृतेर्गुणैः इंद्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि । तत्सम्बन्धीनि च । नहि प्रतिबिम्बस्य क्रिया ॥ २७ ॥ कर्मभेदस्य गुणभेदस्य च तत्त्ववित् । गुणाः इंद्रियादीनि । गुणेषु विषयेषु ॥ २८ ॥ प्रकृतेर्गुणेषु इंद्रियादिषु सम्मूढाः । इंद्रियाद्यभिमानादि्ध विषयादिसङ्गः । गुणकर्मसु विषयेषु कर्मसु च- 'शब्दाद्या इंद्रियाद्याश्च सत्त्वाद्याश्च शुभानि च । अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः ॥'' इत्यभिधानात् । सत्त्वाद्यङ्गीकारे- ''गुणा गुणेषु" इत्ययुक्तं स्यात् ॥२९ ॥ अतः सर्वाणि कर्माणि मय्येव संन्यस्य, भ्रान्तितो जीवेध्यारोपितानि मय्येव विसृत्य भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति च । आत्मानं मामधिकृत्य यच्चेतस्तदध्यात्मचेतः । संन्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ॥ ३० ॥ फलमाह - ये म इति । ये त्वेवं निवृत्तकर्मिणस्तेपि मुच्यन्ते ज्ञानद्वारा । किमु अपरोक्षज्ञानिनः ? न तु साधनान्तरमुच्यते- 'निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये ।अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते । सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक्'' ॥ इति ह्युक्तं नारायणाष्टाक्षरकल्पे । अत एव समुच्चयनियमोपि निराकृतः ॥ ३१, ३२ ॥ एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोकाः इत्यत आह - सदृशमिति । प्रकृतिः पूर्वसंस्कारः ॥ ३३ ॥ तथापि शक्तितो निग्रहः कार्यः । निग्रहात् सद्यः प्रयोजनाभावेपि भवत्येवातिप्रयत्नत इत्याशयवानाह - इंद्रियस्येति । तथाह्युक्तम् - 'संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः । तथापि सोन्यथाकर्तुं शक्यतेतिप्रयत्नतः'' ॥ इति ॥३४ ॥ तथाप्युग्रं युद्धकर्मेत्यत आह- श्रेयानिति ॥ ३५ ॥ बहवः कर्मकारणाः सन्ति क्रोधादयः कामश्च । तत्र को बलवानिति पृच्छति - अथेति । अथेत्यर्थान्तरम् । 'तयोर्न वशमागच्छेत्'' इति प्रश्नप्रापकम् ॥ ३६ ॥ यस्तु बलवान् प्रवर्तकः स एष कामः । क्रोधोप्येष एव । तज्जन्यत्वात् । 'कामात् क्रोधोभिजायते'' इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्तानिन्दाकामनिमित्त एव । ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति । उक्तं च- 'ऋते कामं न कोपाद्या जायन्ते हि कथञ्चन'' इति । महाशनः । महदि्ध कामभोग्यम् । महाब्रह्महत्यादिकारणत्वान्महापाप्मा । सर्वपुरुषार्थविरोधित्वाद् वैरी ॥३७ ॥ कथं विरोधी सः? इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाशरूपोप्यन्येषां सम्यगदर्शनाय तथा परमात्मा । यथादर्शो मलेनावृतोन्याभिव्यक्तिहेतुर्न भवति तथान्तःकरणं परमात्मादेर्व्यक्ति- हेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ॥ ३८ ॥ शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेनावृतं ज्ञानिनोपि । किमु अल्पज्ञानिनः ? कामरूपेण कामाख्येन नित्यवैरिणा । दुष्पूरेण । दुःखेन हि कामः पूर्यते । नहीन्द्रादिपदं सुखेन लभ्यते । यद्यपीन्द्रादिपदं प्राप्तं पुनर्ब्रह्मादिपदमिच्छतीत्यलम्बुदि्धर्नास्तीत्यनलः । उक्तं च- 'ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा । आदर्शस्याथ जीवस्य गर्भोल्बोपि हि कामकः'' ॥ इति ॥३९ ॥ वधार्थं शत्रोरधिष्ठानमाह - इंद्रियाणीति । एतैर्ज्ञानमावृत्य । बुद्ध्यादिभिर्हि विषयगैर्ज्ञानमावृतं भवति ॥ ४० ॥ हृताधिष्ठानो हि शत्रुर्नश्यति ॥ ४१ ॥ ॥ शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह - इंद्रियाणीति । 'असङ्गज्ञानासिमादाय तरातिपारम्'' इति ह्युक्तम् । शरीरादिंद्रियाणि पराणि उत्कृष्टानि । न केवलं बुद्धेः परः । श्रुत्युक्तप्रकारेणाव्यक्तादपि । 'अव्यक्तात् पुरुषः परः'' इति हि श्रुतिः । न च तत्र तत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेभिहितः - 'आनन्दादयः प्रधानस्य'' इत्यादिना । तथा चान्यत्र - 'अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये ।
सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम् ।तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन'' ॥ इति गारुडे ।
तस्मादव्यक्तादपि परत्वेन ज्ञेयः । न चात्र जीव उच्यते । 'रसोप्यस्य परं दृष्ट्वा निवर्तते'' इत्युक्तत्वात् । 'अविज्ञाय परं मत्तो जयः कामस्य वै कुतः'' इति च । अतः परमात्मज्ञानमेवात्र विवक्षितम् । आत्मानं मनः । आत्मना बुद्ध्या ॥ ४२, ४३ ॥॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये तृतीयोध्यायः ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोध्यायः ॥ अथ चतुर्थोऽध्यायः - बुद्धेः परस्य माहात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेस्मिन्नध्याये । पूर्वानुष्ठितश्चायं धर्म इत्याह - इममिति ॥ १-३ ॥ 'मयि सर्वाणि'' इत्युक्तं तन्माहात्म्यमादितो ज्ञातुं पृच्छति - अपरमिति ॥ ४-५ ॥ न तर्ह्यनादिर्भवानित्यत आह - अजोपीति । अव्यय आत्मा देहोपीत्यव्ययात्मा । 'अनन्तं विश्वतोमुखम्'' इति हि रूपविशेषणमुत्तरत्र । 'एतन्नानावताराणां निधानं बीजमव्ययम्'' इति च । 'जगृहे'' इति तु व्यक्तिः । युक्तयस्तूक्ताः । आत्मानादित्वं तु सर्वसमम् । कथमनादिनित्यस्य जनिः? प्रकृतिं स्वामधिष्ठाय । प्रकृत्या जातेषु वसुदेवादिषु । तथैव (तयैव) तेषां जात इव प्रतीयत इत्यर्थः । न तु स्वतन्त्रामधिष्ठायेत्याह - स्वामिति । 'द्रव्यं कर्म च'' इति ह्युक्तम् । सा हि तत्रोक्ता । ततः सर्वसृष्टेः । आत्ममायया आत्मज्ञानेन । प्रकृतेः पृथगभिधानात् । 'केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया'' इति ह्यभिधानम् । सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाजात एव जात इव प्रतीयते वा । उक्तं च– 'महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता । विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोपि हि । जातवत् प्रथते ह्यात्मचिद्बलान्मूढचेतसाम्'' ॥ इति ।
ईश्वरः ईशेभ्योपि वरः । तच्चोक्तम्- 'ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् । वरोत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्'' ॥ इति ब्रह्मवैवर्ते ।'समर्थ ईश इत्युक्तस्तद्वरत्वात्त्वमीश्वरः'' इति च ॥ ६,७ ॥ न जन्मनैव परित्राणादिकं कार्यमिति नियमः । तथापि लीलया स्वभावेन च यथेष्टचारी । तथाह्युक्तम् – 'देवस्यैष स्वभावोयम्'' । 'लोकवत् तु लीलाकैवल्यम्'' ।
'क्रीडतो बालकस्येव चेष्टां तस्य निशामय'' । 'अरिभयादिव स्वयं पुराद् व्यवात्सीद् यदनन्तवीर्यः'' ।
'पूर्णोयमस्यात्र न किञ्चिदाप्यं तथापि सर्वाः कुरुते प्रवृत्तीः । अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः'' ॥ इत्याद्यृग्वेदखिलेषु॥ ८ ॥ पृथङ्ग् मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थम् । न तु तावन्मात्रेण मुक्तिरित्युक्तम् ।
'वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम् । तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित्'' ॥ इत्युक्तेश्च महाकौर्मे ।
अत्रोक्तस्यैतज्ज्ञात्वैव जन्म नैतीति गतिः । इतरवाक्यानां नान्या गतिः । 'नान्यस्य कस्यचित्'' इति विशेषणात् । 'तत्त्वतः'' इति विशेषणाच्च सर्वज्ञानमापतति । यत्रैवं भवति यत्र तत्त्वत इति विशेषणेन न विरोधः । उक्तं च– 'एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः । न समर्थो महेन्द्रोपि तस्मात् सर्वत्र जिज्ञसेत्'' ॥ इति स्कान्दे ॥९ ॥ सन्ति च तथा मुक्ता इत्याह– वीतरागेति । मन्मयाः मत्प्रचुराः । सर्वत्र मां विना न किञ्चित् पश्यन्तीत्यर्थः ॥ १० ॥ न च मद्भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण । तथापि सर्वेषामानुरूप्येण फलं ददामीत्याह - ये यथेति । भजामि सेवयामि फलदानेन । न तु गुणभावेन । कथमयं विशेष इत्यत आह - मम वर्त्मेति । अन्यदेवता यजन्तोपि मम वर्त्मैवानुवर्तन्ते । सर्वकर्मकर्तृत्वाद् भोक्तृत्वाच्च मम । 'योप्यन्यदेवताभक्ताः'' इति हि वक्ष्यति । 'यो देवानां नामधा एक एव'' इति हि श्रुतिः । स भगवानेव च तत्राभिधीयते । 'अजस्य नाभावध्येकमर्पितम्'' इत्यादितल्लिङ्गात् ॥ ११ ॥ कुतो मम वर्त्मानुवर्तन्ते ? क्षिप्रं हि । अत एव हि फलप्राप्तिः । 'तस्मात्ते धनसनयः'' इति हि श्रुतिः ॥ १२ ॥ अहमेव हि कर्तेत्याह - चातुर्वर्ण्यमिति । चतुर्वर्णसमुदायः । सात्त्विको हि ब्राह्मणः । सात्त्विकराजसः क्षत्रियः । राजसतामसो वैश्यः । तामसः शूद्रः इति गुणविभागः । कर्मविभागस्तु 'शमो दमः'' इत्यादिना वक्ष्यते । क्रियाया वैलक्षण्यात् कर्ताप्यकर्ता । तथाहि श्रुतिः– 'विश्वकर्मा विमनाः'' इत्यादि । 'तनुर्विद्या क्रियाकृतिः'' इत्यादि च । साधितं चैतत् पुरस्तात् ॥ १३ ॥ अत एव न मां कर्माणि लिम्पन्ति । इतश्च न लिम्पन्तीत्याह - न मे कर्मफले स्पृहा । इच्छामात्रं त्वस्ति । न तु तत्राभिनिवेशः । तच्चोक्तम्–'आकाङ्क्षन्नपि देवोसौ नेच्छते लोकवत् परः । नह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु'' ॥ इति ।
न च केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः । तथाहि श्रुतिः- 'ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वानिति कथं वा इत्यनन्ता इत्यनन्तवदिति होवाच'' इति ॥ १४ ॥ एवं ज्ञात्वा कर्मकरण आचारोप्यस्तीत्याह - एवमिति । पूर्वतरं कर्म पूर्वभावीत्यर्थः ॥ १५ ॥ कर्म कुर्वित्युक्तम् । तस्य कर्मणो दुर्ज्ञेयत्वमाह सम्यग् वक्तुम् - किं कर्मेति ॥ १६ ॥ न केवलं तज्ज्ञात्वा मोक्ष्यसे, ज्ञात्वैवेत्याशयवानाह - कर्मण इति । तच्चोक्तम्– 'अज्ञात्वा भगवान् कस्य कर्माकर्मविकर्मकम् ।
दर्शनं याति हि मुने कुतो मुक्तिश्च तद् विना'' ॥ इति । अकर्म कर्माकरणम् । कर्माकर्मान्यद् विकर्म निषिद्धम् । बन्धकत्वात् । ततो विविच्य कर्मादि बोद्धव्यमित्यादि । न च शापादिना । कवयोप्यत्र मोहिताः । अशक्यं चैतज्ज्ञातुमित्याह - गहनेति ॥१७ ॥ कर्मादिस्वरूपमाह - कर्मणीति । कर्मणि क्रियमाणे सति अकर्म यः पश्येत् विष्णोरेव कर्म नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति । अकर्मणि सुप्त्यादावकरणावस्थायां परमेश्वरस्य यः कर्म पश्यति अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोतीति । स बुदि्धमान् ज्ञानी । स एव च युक्तो योगयुक्तः । सर्वाकरणात् स एव च कृत्स्नकर्मकृत् कृत्स्नफलत्वात् ॥ १८ ॥वएतदेव प्रपञ्चयति - यस्येत्यादिश्लोकपञ्चकेन । उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम् ॥ १९ ॥ न च कामसङ्कल्पाभावेनालम् । आसङ्गं स्नेहं च त्यक्त्वा । ज्ञानस्वरूपमाह पुनः - नित्यतृप्त इति नित्यतृप्तनिराश्रयेश्वरस- रूपोस्मीति तथाविधः ॥ २० ॥ कामादित्यागोपायमाह - निराशीरिति । यतचित्तात्मा भूत्वा निराशीरित्यर्थः । आत्मा मनः । परिग्रहत्यागोनभिमानम् । नैव किञ्चित् करोतीत्यस्याभिप्रायमाह - नाप्नोति किल्बिषमिति ॥२१॥ यतचित्तात्मनो लक्षणमाह - यदृच्छालाभेति । कथं द्वन्द्वातीतत्वमित्यत आह - समः सिद्धाविति ॥ २२ ॥ उपसंहरति - गतसङ्गस्येति । गतसङ्गस्य फलस्नेहरहितस्य । मुक्तस्य शरीराद्यनभिमानिनः । ज्ञानावस्थितचेतसः परमेश्वरज्ञानिनः ॥ २३ ॥ ज्ञानावस्थितचेतस्त्वं स्पष्टयति - ब्रह्मार्पणमिति । सर्वमेतद् ब्रह्मेत्युच्यते । तदधीनसत्ताप्रतीतित्वात् । न तु तत्स्वरूपत्वात् । उक्तं हि- 'त्वदधीनं यतः सर्वमतः सर्वो भवानिति ।
वदन्ति मुनयः सर्वे न तु सर्वस्वरूपतः'' ॥ इति पाद्मे । 'सर्वं तत्प्रज्ञानेत्रम्'' इति च । 'एतं ह्येव बह्वृचाः'' इत्यादि च । समाधिना सह ब्रह्मैव कर्म ॥२४ ॥ यज्ञभेदानाह - दैवमित्यादिना । दैवं भगवन्तम् । स एव तेषां यज्ञः । भगवदुपासनम् । यज्ञमिति क्रियाविशेषणम् । नान्यत् तेषामस्ति यतीनां केषाञ्चित् । यज्ञं भगवन्तम् । 'यज्ञेन यज्ञम्'', 'यज्ञो विष्णुर्देवता'' इत्यादिश्रुतिभ्यः । यज्ञेन प्रसिद्धेनैव । यज्ञं प्रति यज्ञेन जुह्वतीति सर्वत्र समम्- 'तं यज्ञम्'' इत्यादौ । उक्तं च- 'विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना ।अयजन्मानसे यज्ञे पितरं प्रपितामहः'' ॥ इति ॥ २५,२६ ॥ आत्मसंयमाख्योपायाग्नौ ॥ २७ ॥ द्रव्यं जुह्वतीति द्रव्ययज्ञाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञा इत्यादि । इदं तपो हविः । एतद् ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः । तदर्पण एव च होमबुदि्धः ॥ २८ ॥ अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति, अपानं च प्राणे । कुम्भकस्था एव भवन्तीत्यर्थः ॥ २९ ॥ नियताहारत्वेनैव प्राणशोषात् प्राणान् प्राणेषु जुह्वति । 'यच्छेद् वाङ्मनसी'' इत्यादिश्रुत्युक्तप्रकारेण वा । अन्यदपि ग्रन्थान्तरे सिद्धम्- 'यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः'' इति ॥ ३०, ३१ ॥ ब्रह्मणः परमात्मनो मुखे । 'अहं हि सर्वयज्ञानाम्'' इति हि वक्ष्यति । मानसवाचिककायिककर्मजा एव हि ते सर्वे । एवं ज्ञात्वा, तानि कर्माणि कृत्वा, विमोक्ष्यसे । युद्धं परित्यज्य यन्मोक्षार्थं करिष्यसि तदपि कर्म । अतो विहितं न त्याज्यमिति भावः ॥ ३२ ॥ अखिलमुपासनाद्यङ्गयुक्तम् । ज्ञानफलमेवेत्यर्थः ॥ ३३ ॥ इदानीमपि ज्ञान्येव । तथाप्यभिभवान्मोहः । मा तूक्ता । येन ज्ञानेन मय्यात्मभूते सर्वभूतानि अथो तस्मादेव मोहनाशात् पश्यसि॥ ३४, ३५ ॥ तत्साधनं विरोधिफलं च तदुत्तरैरुक्त्वोपसंहरति । ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये चतुर्थोध्यायः ॥॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगो नाम चतुर्थोध्यायः ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये ॥ अथ पञ्चमोऽध्यायः - तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन -'यदृच्छालाभ- सन्तुष्टः'' इत्यादि सन्न्यासम् ; 'कुरु कर्म'' इत्यादि कर्मयोगं च - नियमनादिना सकललोककर्षणात् कृष्णः ।
'यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः'' ॥ इति महाकौर्मे ।
संन्यासशब्दार्थं भगवानेव वक्ष्यति । अयं प्रश्नाशयः - यदि संन्यासः श्रेयोधिकः स्यात् तर्हि संन्यास(स्येषद्)स्यैतद् विरोधि युद्धमिति ॥१ ॥ नायं संन्यासो यत्याश्रमः - 'द्वन्द्वत्यागात् तु संन्यासात् मत्पूजैव गरीयसी'' ॥ इति वचनात् ।
'तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्'' । इति च । 'संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः । न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते । तद्भक्तोपि हि यद् गच्छेत् तद्गृहस्थो न धार्मिकः । मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते । यदाधिकारो भवति ब्रह्मचार्यपि प्रव्रजेत्'' ॥ इति नारदीये । ''ब्रह्मचर्यादेव प्रव्रजेत् । यदहरेव विरजेत्" इति च । 'संन्यासे तु तुरीये वै प्रीतिर्मम गरीयसी (महीयसी) । येषामत्राधिकारो न तेषां कर्मेति निश्चयः'' ॥ इत्यादेश्च ब्राह्मे ।
अतो नात्राश्रमसंन्यास उक्तः ॥२ ॥ संन्यासशब्दार्थमाह - ज्ञेय इति । संन्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति - ज्ञेय इति ॥ ३ ॥ संन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः- 'न तस्य तत्त्वग्रहणाय'' इत्यादौ । अतः कथं सोवम इत्यत आह - साङ्ख्ययोगाविति । उभयोरप्यन्तरङ्गत्वेनाविरोधः । 'अग्निमुग्धो हवै धूमतान्तः स्वं लोकं न प्रतिजानाति'' 'मा वः पदव्यः पितरस्मदाश्रिता या यज्ञशालासनधूमवर्त्मनाम्'' इत्यादि तु काम्यकर्मविषयमिति भावः । ये त्वन्यथा वदन्ति ते बालाः ॥ ४ ॥ 'एकमपि'' इत्यस्याभिप्रायमाह - यत् साङ्ख्यैरिति । योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इत्यर्थः ॥ ५ ॥ इतश्च संन्यासाद् योगो वर इत्याह - संन्यासस्त्विति । योगाभावे मोक्षादिफलं न भवति । अतः कामजयादिदुःखमेव तस्य । मोक्षाद्येव हि फलम्; अन्यत् फलमल्पत्वादफलमेवेत्याशयः । 'विना मोक्षं फलं यत्तु न तत् फलमुदीर्यते'' । इति पाद्मे ।
यत्तु महत्फलयोग्यं तस्याल्पं फलमेव न भवति । यथा पद्मरागस्य तण्डुलमुष्टिः । महाफलश्च योगयुक्तश्चेत् संन्यास इत्याह - योगयुक्त इति । मुनिः संन्यासी । तथाचोक्तम्- 'स हि लोके मुनिर्नाम यः कामक्रोधवर्जितः'' । इति ॥ ६ ॥ एतदेव प्रपञ्चयति - योगयुक्त इति । सर्वभूतात्मभूतः परमेश्वरः । 'यच्चाप्नोति'' इत्यादेः । स आत्मभूतः स्वसमीपं प्रत्यादानादिकर्ता यस्य सः सर्वभूतात्मभूतात्मा ॥ ७ ॥ संन्यासं स्पष्टयति पुनः श्लोकद्वयेन ॥ ८, ९ ॥ संन्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह- ब्रह्मणीति । साधननियमोपचारत्वनिवृत्त्यर्थं पुनःपुनः फलकथनम् ॥ १० ॥ एवञ्चाचार इत्याह - कायेनेति ॥ ११ ॥ पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह - युक्त इति । युक्तो योगयुक्तः॥ १२ ॥ पुनः संन्यासशब्दार्थं स्पष्टयति - सर्वकर्माणीति । मनसेति विशेषणादभिमानत्यागः ॥ १३ ॥ न च करोति वस्तुत इत्याह - न कर्तृत्वमिति । प्रभुर्हि जीवो जडमपेक्ष्य ॥ १४, १५ ॥ ज्ञानमेवाज्ञाननाशकमित्याह - ज्ञानेनेति । प्रथमज्ञानं परोक्षम् ॥ १६ ॥ अपरोक्षज्ञानाव्यवहितसाधनमाह - तद्बुद्धय इति ॥ १७ ॥ परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशय- वानाह - विद्येति ॥ १८ ॥ तदेव स्तौति - इहैवेति ॥ १९, २० ॥ पुनर्योगस्याधिक्यं स्पष्टयति - बाह्यस्पर्शेष्विति । कामरहित आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेवाक्षयं सुखं विन्दति । ब्रह्मविषयो योगो ब्रह्मयोगः । ध्यानादियुक्तस्यैवात्म- सुखमक्षयमन्यथा नेत्यर्थः ॥ २१ ॥ संन्यासार्थं कामभोगं निन्दयति - ये हीति ॥ २२ ॥ तत्परित्यागं प्रशंसयति - शक्नोतीति । कामक्रोधोद्भवं वेगं सोढुं शक्नोति, शरीरविमोक्षणात् प्राक्, यथा मनुष्यशरीरे सोढुं सुकरं तथा नान्यत्रेति भावः । ब्रह्मलोकादिस्तु जितकामानामेव भवति ॥ २३ ॥ आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं तूपद्रवक्षयव्यक्तम् । अत्र तु कामादिक्षयव्यक्तमात्मसुखम् । स्वयञ्ज्योतिष्ट्वाद् भगवतस्तद्व्यक्तेरन्तर्ज्योतिः । सर्वेषामन्तर्ज्योतिष्ट्वेपि व्यक्तेर्विशेषः । असम्प्रज्ञातसमाधीनां बाह्यादर्शनात् । दर्शनेप्य- किञ्चित्करत्वादेवशब्दः । उक्तं चैतत्- 'दर्शनस्पर्शसम्भाषाद् यत् सुखं जायते नृणाम् । आरामः स तु विज्ञेयः सुखं कामक्षयोदितम्'' ॥ इति नारदीये । 'स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः'' । इति च । अन्तःसुखत्वादेः कारणमाह - ब्रह्मणि भूत इति ॥२४ ॥ पापक्षयाच्चैतद् भवतीत्याह - लभन्त इति । क्षीणकल्मषा भूत्वा छिन्नद्वैधायतात्मानः । द्वेधाभावो द्वैधं संशयो विपर्ययो वा तच्चोक्तम्- 'विपर्ययः संशयो वा यद् द्वैधं त्वकृतात्मनाम् । ज्ञानासिना तु तच्छित्त्वा मुक्तसङ्गः परं व्रजेत्'' ॥ इति । छिन्नद्वैधास्त एवायतात्मानः छिन्नद्वैधा()यतात्मानः । दीर्घमनसः सर्वज्ञा इत्यर्थः । तत एव छिन्नद्वैधाः । तच्चोक्तम्- 'क्षीणपापा महद् ज्ञात्वा जायन्ते गतसंशयाः'' । इति ।
छिन्नद्वैधाः यतात्मान इति वा ॥२५ ॥ सुलभं तेषां ब्रह्मेत्याह - कामक्रोधेति । अभितः सर्वतः ॥ २६ ॥ ध्यानप्रकारमाह - स्पर्शानित्यादिना । बाह्यान् स्पर्शान् बहिष्कृत्वा । श्रोत्रादीनि योगेन नियम्येत्यर्थः । चक्षुः भ्रुवोरन्तरे कृत्वा भ्रुवोर्मध्यमवलोयन्नित्यर्थः । उक्तं च - 'नासाग्रे वा भ्रुवोर्मध्ये ज्ञानी चक्षुर्निधापयेत्'' । इति ।
प्राणापानौ समौ कृत्वा कुम्भके स्थित्वेत्यर्थः ॥ २७, २८ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये पञ्चमोध्यायः ॥ ध्येयमाह - भोक्तारमिति ॥ २९ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये पञ्चमोध्यायः ॥ अथ षष्ठोऽध्यायः ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन - ध्यानमत्रोच्यते । विवक्षितं संन्यासमाह योगेन सह - अनाश्रित इति । चतुर्था- श्रमिणोप्यग्निः क्रिया चोक्ता 'दैवमेव'' इत्यादौ । 'अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृऽता'' । इति च । तस्मान्निरग्निरक्रियः संन्यासी योगी च न भवत्येव ॥१ ॥ संन्यासोपि योगान्तर्भूत इत्याह - यं संन्यासमिति । कामसङ्कल्पाद्यपरित्यागे कथमुपायवान् स्यादित्याशयः ॥ २ ॥ कियत्कालं कर्म कर्तव्यमित्यत आह - आरुरुक्षोरिति । योगमारुरुक्षोः उपायसम्पूर्तिमिच्छोः । योगारूढस्य सम्पूर्णोपायस्य । अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणम् । अपरोक्षज्ञानिनोपि समाध्यादि- फलमुक्तम् । तस्य सर्वोपशमेन समाधिरेव कारणं प्राधान्येनेत्यर्थः । तथापि यदा भोक्तव्योपरमस्तदैव सम्यगसम्प्रज्ञातसमाधिर्जायते । अन्यदा तु भगवच्चरितादौ स्थितिः । तच्चोक्तम्- 'ये त्वां पश्यन्ति भगवंस्त एव सुखिनः परम् । तेषामेव च सम्यक् तु समाधिर्जायते नृणाम् । भोक्तव्यकर्मण्यक्षीणे जपेन कथयापि वा ।
वर्तयन्ति महात्मानस्त्वद्भक्तास्त्वत्परायणाः'' ॥ इति ॥३ ॥ योगारूढलक्षणमाह - यदेति । सम्यगननुषङ्गस्तस्यैव भवति । उक्तं च - 'स्वतो दोषलयो दृष्ट्या त्वितरेषां प्रयत्नतः'' । इति ॥ ४ ॥ स च योगारोहः प्रयत्नेन कर्तव्य इत्याह - उद्धरेदित्यादिना । कस्य बन्धुरात्मा इत्यत आह बन्धुरात्मेति । आत्मा मनः । आत्मनः जीवस्य । आत्मना मनसा । आत्मानं जीवम् । आत्मैव मनः । आत्मना बुद्ध्या, जीवेनैव वा । स हि बुद्ध्या विजयति । उक्तं च- 'मनः परं कारणमामनन्ति'' 'मन एव मनुष्याणां कारणं बन्धमोक्षयोः'' । 'उद्धरेन्मनसा जीवं न जीवमवसादयेत् । जीवस्य बन्धुः शत्रुश्च मन एव न संशयः'' ॥ 'जीवेन बुद्ध्या हि यदा मनो जितं तदा बन्धुः शत्रुरन्यत्र चास्य । ततो जयेद् बुदि्धबलो नरस्तद् देवे च भक्त्या मधुकैटभारौ'' ॥ इत्यादि ब्रह्मवैवर्ते ।
अनात्मनः अजितात्मनः पुरुषस्य । अजितमनस्कस्य । सदपि मनोनुपकारीत्यनात्मा । सन्नपि भृत्यो यस्य भृत्यपदे न वर्तते स ह्यभृत्यः । तस्यात्मा मन एव शत्रुवत् शत्रुत्वे वर्तते ॥ ५, ६ ॥ जितात्मनः फलमाह - जितात्मन इति । जितात्मा हि प्रशान्तो भवति । न तस्य मनः प्रायो विषयेषु गच्छति । तदा च परमात्मा सम्यक् हृद्याहितः सन्निहितो भवति । अपरोक्षज्ञानी स भवतीत्यर्थः । अपरोक्षज्ञानिनो लक्षणं स्पष्टयति - शीतोष्णेत्यादिना । शीतोष्णादिषु कूटस्थः । ज्ञानविज्ञानतृप्तात्मा विजितेंद्रिय इति कूटस्थत्वे हेतुः । विज्ञानं विशेषज्ञानम् । अपरोक्षज्ञानं वा । तच्चोक्तम्- 'सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः ।
देवादीनां तु तज्ज्ञानं ज्ञानमिति कीर्तितम्'' ॥ 'श्रवणान्मननाच्चैव यज्ज्ञानमुपजायते । तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत्'' ॥ 'विमानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा'' ॥ इत्यादि ॥ कूटस्थो निर्विकारः । कूटवत् स्थित इति व्युत्पत्तेः । कूटमाकाशः । 'कूटं खं विदलं व्योम सन्धिकाराश उच्यते'' । इत्यभिधानात् ।योगी योगं कुर्वन् । युक्तो योगसम्पूर्णः । एवम्भूतो योगानुष्ठाता योगसम्पूर्ण उच्यत इत्यर्थः ॥ ७, ८ ॥ स एव च सर्वस्माद् विशिष्यते साधुपापादिषु समबुदि्धः । जीवचितः, परमात्मनः सर्वस्य तन्निमित्तत्वस्य च सर्वत्रैकरूप्येण । चिद्रूपा एव हि जीवाः । विशेषस्त्वन्तःकरणकृतः । सर्वेषां च साधुत्वादिकं सर्वमीश्वरकृतमेव स्वतो न किञ्चिदपि । उक्तं चैतत् सर्वम्- 'स्वतः सर्वेपि चिद्रूपाः सर्वदोषविवर्जिताः । जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः । सर्वं चेश्वरतस्तेषां न किञ्चित् स्वत एव तु । समा एव ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम् । एवं समा नृजीवास्तु विशेषो देवतादिषु । स्वाभाविकस्तु नियमाद्धरेरेव सदा(ना)तनः । असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि । गुणदोषौ मानुषाणां नित्यौ स्वाभाविकौ मतौ । गुणैकमात्ररूपास्तु देवा एव सदा मताः'' ॥ इति ब्राह्मे । नतु साधुपापादीनां पूजासाम्यम् । तत्र दोषस्मृतेः- 'समानां विषमा पूजा विषमाणां समा तथा । क्रियते येन देवोपि स पदाद् भ्रश्यते पुमान्'' ॥ इति पाद्मे । 'वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी । एतानि मान्यस्थानानि गरीयो (यद्यदुत्तरम्'''' ह्युत्तरोत्तरम् ॥ इति मानवे । 'गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः । सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति । वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात् । पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम्'' ॥ इति ब्रह्मवैवर्ते । सुहृदादिषु शास्त्रोक्तपूजादिकृतिरन्यूनाधिका या सापि समता । तदप्याह- 'यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च । तथा करोति पूजा(दिं)दि समबुदि्धः स उच्यते'' ॥ इति गारुडे । प्रत्युपकारनिरपेक्षयोपकारकृत् सुहृत् । क्लेशस्थानं निरूप्य यो रक्षां करोति (विदधाति) तन्मित्रम् । अरिर्वधादिकृत् । कर्तव्ये उपकारेपकारे च य उदास्ते स उदासीनः । कर्तव्यमुभयमपि यः करोति स मध्यस्थः । अवासितकृत् द्वेष्यः । आह चैतत्- 'द्वेष्योवासितकृत् कार्यमात्रकारी तु मध्यगः ।
प्रियकृत् प्रियो निरूप्यापि क्लेशं यः परिरक्षति । स मित्रमुपकारं तु अनपेक्ष्योपकारकृत् । यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि वधादिकृत्'' ॥ इति ॥९ ॥ समाधियोगप्रकारमाह - योगी युञ्जीतेत्यादिना । युञ्जीत समाधियोगयुक्तं कुर्यात् । आत्मानं मनः ॥ १०, ११ ॥ योगं समाधियोगं युञ्ज्यात् ॥ १२-१४ ॥ निर्वाणपरमां शरीरत्यागोत्तरकालीनाम् ॥ १५ ॥ अनशनादिनिषेधोशक्तस्य । उक्तं हि- 'निद्राशनभयश्वासचेष्टात(न्द्रा)न्द्र्यादिवर्जनम् । कृत्वा निमीलिताक्षस्तु शक्तो ध्यायन् प्रसिद्ध्यति (प्रसीदति'''' इति नारदीये ॥ १६ ॥ युक्ताहारविहारस्य सोपायाहारादेः । यावता श्रमाद्यभावो भवति तावदाहारादेः इत्यर्थः ॥ १७ ॥ आत्मनि भगवति ॥ १८ ॥ आत्मनः योगं भगवद्विषयं योगम् ॥ १९ ॥ आत्मना मनसा । आत्मनि देहे । आत्मानं भगवन्तं पश्यन् ॥२०॥ तत्त्वतः भगवद्रूपात् ॥ २१ ॥ दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः । न केवलमुत्पन्नं दुःखं नाशयति, उत्पत्तिमेव निवारयतीति दर्शयति संयोगशब्देन । निश्चयेन योक्तव्यः योक्तव्य एव तद्बुभूषुणेत्यर्थः ॥ २३ ॥ सर्वान् सर्वविषयान् । अशेषतः, एकविषयोपि कामः स्वल्पः कादाचित्कोपि न कर्तव्य इत्यर्थः । मनसैव नियन्तुं शक्यते नान्येनेत्येवशब्दः ॥ २४ ॥ बुद्धेः क(का)रणत्वं मनोनिग्रहे आत्मरमणे च ॥ २५ ॥ यतो यतो यत्र यत्र । 'यतो यतो धावति'' इत्यादिप्रयोगात् । आत्मन्येव वशं नयेत् आत्मविषय एव वशीकुर्यादित्यर्थः ॥ २६,२७ ॥ पूर्वश्लोकोक्तं प्रपञ्चयति - एवं युञ्जन्निति ॥ २८ ॥ ध्येयमाह - सर्वभूतस्थमिति । सर्वभूतस्थमात्मानं परमेश्वरम् । सर्वभूतानि चात्मनि परमेश्वरे । तं च परमेश्वरं ब्रह्मतृणादावैश्वर्यादिना साम्येन पश्यति । तच्चोक्तम् - 'आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि'' ॥ इति ।
'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्'' । इति च ॥२९ ॥ फलमाह - यो मामिति । तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः स्यामित्यर्थः । स च मे न प्रणश्यति सर्वदा मद्भक्तो भवति । सत्यपि स्वामिन्यरक्षत्यनाथः, एवं भृत्येप्यभजत्यभृत्य इति हि प्रसिदि्धः । उक्तं च- 'सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति । अचला तस्य भक्तिः स्याद् योगक्षेमवहोप्यहम्'' । इति गारुडे ॥३० ॥ एतदेव स्पष्टयति - सर्वभूतस्थितमिति । एकत्वमास्थितः सर्वत्रैक एवेश्वर इति स्थितः । सर्वप्रकारेण वर्तमानोपि मय्येव वर्तते । एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः । तथापि प्रायो नाधर्मं करोति । कुर्वतस्तु महच्चेद् दुःखसूचकं भवतीत्युक्तं पुरस्तात् । आह च- 'कदाचिदपि नाधर्मे बुदि्धर्विष्णुदृशां भवेत् । प्रमादात्तु कृतं त्वल्पं पापं भस्मीभविष्यति । आदिराजैस्तथा देवैर्ऋषिभिः क्रियते कियत् । बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत्'' ॥ इति ॥३१ ॥ साम्यं प्रकारान्तरेण व्याचष्टे - आत्मौपम्येनेति ॥ ३२ ॥ एतस्य योगस्य स्थिरां स्थितिं न पश्यामि मनसश्चञ्चलत्वात् । उक्तं च - 'मनसश्चञ्चलत्वादि्ध स्थितिर्योगस्य वै स्थिरा । विनाभ्यासान्न शक्या तु वैराग्याद्वा न संशयः'' ॥ इति व्यासयोगे ।॥ ३३, ३५ ॥ न च कदाचित् स्वयमेव मनो नियम्यते- 'शुभेच्छारहितानां च द्वेषिणां च रमापतौ ।नास्तिकानां च वै पुंसां सदा मुक्तिर्न जायते'' ॥ इति निषेधाद् ब्राह्मे ।
॥३६ ॥ अयतिः अप्रयत्नः ॥ ३७ ॥ योगस्य जिज्ञासुरपि, ज्ञातव्यो मया योग इति यस्यातीवेच्छा सोपि शब्दब्रह्मातिवर्तते, परं ब्रह्म प्राप्नोतीत्यर्थः ॥ ४४ ॥ नैकजन्मनीत्याह - प्रयत्नादिति । जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोपरोक्षज्ञानी भूत्वा परां गतिं याति । आह च- 'अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः । ज्ञात्वा ध्यात्वाथ दृष्ट्वा च जन्मभिर्बहुभिः पुमान् । विशेन्नारायणं देवं नान्यथा तु कथञ्चन'' ॥ इति नारदीये ॥४५ ॥ ज्ञानिभ्यः योगज्ञानिभ्यः । तपस्विभ्यः कृच्छ्रादिचारिभ्यः । उक्तं च- 'कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते । तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः । ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्'' ॥ इति गारुडे । 'अज्ञात्वा ध्यायिनो ध्यानात् ज्ञानमेव विशिष्यते । ज्ञात्वा ध्यानं ज्ञानमात्राद् ध्यानादपि तु दर्शनम् । दर्शनाच्चैव भक्तेश्च न किञ्चित् साधनाधिकम्'' ॥ इति नारदीये ।
॥ ४६, ४७ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये षष्ठोध्यायः ॥ अथ सप्तमोऽध्यायः साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह - भगवन्महिमा विशेषत उच्यते । आसक्तमनाः अतीव स्नेहयुक्तमनाः । मदाश्रयः भगवानेव मया सर्वं कारयति; स एव च मे शरणम् ; तस्मिन्नेव चाहं स्थित इति स्थितः । असंशयं समग्रमिति क्रियाविशेषणम् ॥ १ ॥ इदं मद्विषयं ज्ञानम् । विज्ञानं विशेषज्ञानम् ॥ २ ॥ दौर्लभ्यं ज्ञानस्याह - मनुष्याणामिति ॥ ३ ॥ प्रतिज्ञातं ज्ञानमाह - भूमिरित्यदिना । महतोहङ्कार एवान्तर्भावः । ॥४ ॥ अपरा अनुत्तमा वक्ष्यमाणामपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी चिद्रूपभूता सर्वदा सती । 'एतन्महद्भूतम्'' इति श्रुतेः । जगाद च- 'प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा । अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाष्टधा पुनः । महान् बुदि्धर्मनश्चैव पञ्चभूतानि चेति हि । अप(व)रा सा जडा श्रीश्च परेयं धार्यते तया । चिद्रूपा सा त्वनन्ता च अनादिनिधना परा । यत्समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः ।
नारायणस्य महिषी माता सा ब्रह्मणोपि हि । आभ्यामिदं जगत् सर्वं हरिः सृजति भूतरा'' ॥ इति नारदीये ।
न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यमित्याह - अहमिति । प्रभवादेः । सत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच्च प्रभव इत्यादि । तथा च श्रुतिः- 'सर्वमकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोवाक्यनादरः'' इति । आह च - 'स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता । यतः सर्वस्य तेनाहं सर्वोसीत्यृषिभिः स्तुतः । सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः ।
आगमिष्यत् सुखं चापि तस्यास्त्येव सदापि तु । तथाप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च'' ॥ इति नारदीये ॥५,६॥ अहमेव परतरः । मत्तोन्यत् परतरं न किञ्चिदपि । इदं ज्ञानम् ॥ ७ ॥ रसोहमित्यादिविज्ञानम् । अबादयोपि तत एव । तथापि रसादिस्वभावानां रसानां (साराणां) च स्वभावत्वे सारत्वे च विशेषतोपि स एव नियामकः । नत्वबादिनियमानुबद्धो रसादिस्तत्सारत्वादिश्चेति दर्शयति 'अप्सु रसः'' इत्यादिविशेषशब्दैः । भोगश्च विशेषतो रसादेरिति च । उपासनार्थं च । उक्तं गीताकल्पे- 'रसादीनां रसादित्वे स्वभावत्वे तथैव च । सारत्वे सर्वधर्मेषु विशेषेणापि कारणम् ।
सारभोक्ता च सर्वत्र यतोतो जगदीश्वरः । रसादिमानिनां देहे स सर्वत्र व्यवस्थितः । अबादयः पार्षदा एव ध्येयः स ज्ञानिनां हरिः । रसादिसम्पत्त्यान्येषां वासुदेवो जगत्पतिः'' ॥ इति । 'स्वभावो जीव एव च'' 'सर्वस्वभावो नियतस्तेनैव किमतः परम्'' 'न तदस्ति विना यत् स्यान्मया भूतं चराचरम्'' । इति च । 'धर्माविरुद्धः'' 'कामरागविवर्जितम्'' इत्याद्युपासनार्थम् । उक्तं च गीताकल्पे- 'धर्माविरुद्धः कामोसावुपास्यः काममिच्छता । विहीने कामरागादेर्बले च बलमिच्छता । ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सः'' ॥ इत्यादि । 'पुण्यो गन्धः'' इति भोगापेक्षया च । तथाहि श्रुतिः - 'पुण्यमेवामुं गच्छति'' 'ऋतं पिबन्तौ सुकृतस्य लोके'' इत्यादिका । ऋतं च पुण्यम्- 'ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते'' इत्यभिधानात् । 'ऋतं तु मानसो धर्मः सत्यं स्यात् सम्प्रयोगगः'' इति च । न च 'अनश्नन्नन्यो अभिचाकशीति'' 'अन्यो निरन्नोपि बलेन भूयान्'' इत्यादिविरोधः । स्थूलानशनोक्तेः । आह च सूक्ष्माशनम्- 'प्रविविक्ताहारतर इवैष भवत्यस्माच्छारीरादात्मनः'' इति । न चात्र जीव उच्यते । 'शारीरादात्मनः'' इति भेदाभिधानात् । स्वप्नादिश्च शारीर एव - 'शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थितेः'' इति वचनाद् गारुडे । 'अस्मात्'' इतीश्वरव्यावृत्त्यर्थम्- 'शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः । अनादिबन्धनस्त्वेको नित्यमुक्तस्तथापरः'' ॥ इति वचनान्नारदीये ।भेदश्रुतेश्च । सति गत्यन्तरे पुरुषभेद एव कल्प्यो नत्ववस्थाभेदः । आह च - 'प्रविविक्तभुग् यतो ह्यस्माच्छारीरात् पुरुषोत्तमः । अतोभोक्ता च भोक्ता च स्थूलाभोगात् स एव तु'' ॥ इति गीताकल्पे । ॥ ८-११ ॥ नत्वहं तेष्विति तदनाधारत्वमुच्यते । उक्तं च- 'तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितः'' । इति गीताकल्पे ॥ १२ ॥ तर्हि कथमेवं न ज्ञायसे इत्यत आह - त्रिभिरिति । तादात्म्यार्थे मय । तच्चोक्तम्- 'तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मय त्रिधा'' । इति । नहि गुणकार्यभूता माया । 'गुणमयी'' इति च वक्ष्यति । सिद्धं च कार्यस्यापि तादात्म्यम् - 'तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः'' । इति व्यासयोगे । भावैः पदार्थैः । सर्वे भावा दृश्यमाना गुणमया एत इति दर्शयति- एभिरिति । ज्ञानिव्यावृत्त्यर्थम्- इदमिति । गुणमयदेहादिकं दृष्ट्वेश्वरदेहोपि तादृश इति मायामोहित इत्यर्थः । जगाद च व्यासयोगे - 'गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः । देहादिरिति मन्वानो मोहितोज्ञो जनो भृशम्'' ॥ इति । एभ्यः गुणमयेभ्यः । 'गुणेभ्यः परम्'' इति वक्ष्यमाणत्वात् । 'केवलो निर्गुणश्च'' इत्यादिश्रुतिभ्यश्च । 'त्रैगुण्यवर्जितम्'' इति चोक्तम् ॥१३ ॥ कथमनादिकाले मोहानत्ययो बहूनामित्यत आह- दैवीति । अयमाशयः - माया ह्येषा मोहिका । सा च सृष्ट्यादिक्रीडादिमद्देवसम्बन्धित्वादतिशक्तेर्दुरत्यया । तथाहि देवशब्दार्थं पठन्ति - 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु'' इति । कथं दैवी ? मदीयत्वात् । अहं हि देव इति । अब्रवीच्च-'श्रीर्भूर्दुर्गेति या भिन्ना महामाया तु वैष्णवी । तच्छक्त्यनन्तांशहीनाथापि तस्याश्रयात् प्रभोः ।
अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिः कलापि हि । तेषां दुरत्ययाप्येषा विना विष्णुप्रसादतः'' ॥ इति व्यासयोगे ।
तर्हि न कथञ्चिदत्येतुं शक्यत इत्यत आह- मामेवेति । अन्यत् सर्वं परित्यज्य मामेव ये प्रपद्यन्ते । गुर्वादिवन्दनं च मय्येव समर्पयन्ति । स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति । आह च नारदीये- 'मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः । मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः ॥'' इति । 'आचार्यचैत्यवपुषा स्वग(तं)तिं व्यनङ्क्षि'' । इति च ॥१४ ॥ तर्हि किमिति सर्वेपि नात्यायन्नित्यत आह - न मामिति । दुष्कृतित्वान्मूढाः । अत एव नराधमाः । अपहृतज्ञानत्वाच्च मूढाः । अत एवासुरं भावमाश्रिताः । स च वक्ष्यते- 'प्रवृत्तिं च निवृत्तिं च'' इत्यादिना । अपहारोभिभवः । उक्तं चैतद् व्यासयोगे- 'ज्ञानं स्वभावो जीवानां मायया ह्यभिभूयते'' इति ।असुषु रता असुराः । तच्चोक्तं नारदीये- 'ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ'' । इति ॥ १५, १६ ॥ एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे- 'मय्येव भक्तिर्नान्यत्र एकभक्तिः स उच्यते'' । इति ॥ १७, १८ ॥ बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे- 'जन्मभिर्बहुभिर्ज्ञात्वा ततो मां प्रतिपद्यते'' । इति ॥ १९ ॥ प्रकृत्या स्वभावेन 'स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च'' । इत्यभिधानात् ॥ २० ॥ यां यां ब्रह्मादिरूपां तनुम् । उक्तं च नारदीये- 'अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता'' । इति । 'मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः'' ।
इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु ।'अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते'' । इत्यादेश्च ब्रह्मवैवर्ते ॥॥ २१-२३ ॥ को विशेषस्तवान्येभ्य इत्यत आह - अव्यक्तमिति । कार्यदेहादि- वर्जितम् । तद्वानिव प्रतीयस इत्यत आह - व्यक्तिमापन्नमिति । कार्यदेहाद्यापन्नम् । तच्चोक्तम्- 'सदसतः परम्'' 'न तस्य कार्यम्'' 'अपाणिपादः'' 'आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्'' इत्यादौ । भावं याथार्थ्यम् । (तच्चा)तथाब्रवीत्- 'याथातथ्यमजानन्तः परं तस्य विमोहिताः'' । इति ॥ २४ ॥ अज्ञानं च मदिच्छयेत्याह - नाहमिति । योगेन सामर्थ्योपायेन मायया च । मयैव मूढो नाभिजानाति । तथा(हि)ह पाद्मे- 'आत्मनः प्रावृतिं चैव लोकचित्तस्य बन्धनम् ।स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः'' ॥ इति ॥२५ ॥ न (च) मां माया बध्नातीत्याह - वेदेति । न कश्चनातिसमर्थोपि स्वसामर्थ्यात् ॥ २६ ॥ द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोर्नहि किञ्चिज्ज्ञातुं शक्यम् । कारणान्तरमेतत् । सर्गे सर्गकालं आरभ्यैव । शरीरे हि (सति) सन्तीच्छादयः । पूर्वं त्वज्ञानमात्रम् ॥ २७ ॥ विपरीताश्च केचित् सन्तीत्याह- येषामिति ॥ २८ ॥ जरामरणमोक्षायेत्यन्यकामनिवृत्त्यर्थम् । मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः । 'मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्'' । इतीतरस्तुतेर्नारदीये । 'नात्यन्तिकम्'' इति च । 'देवानां गुणलिङ्गानामानुश्राविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा'' ॥ इति भागवते लक्षणाच्च । आह च- 'सर्वे वेदास्तु देवार्था देवा नारायणार्थकाः । नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते । एवं मध्यमभक्तानामेकान्तानां न कस्यचित् । अर्थे नारायणो देवस्त्वन्यत् सर्वं तदर्थकम्'' ॥ इति गीताकल्पे ।
त एव च विदुः । 'यमेवैष वृणुते'' इति श्रुतेः ॥ २९, ३० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये सप्तमोध्यायः ॥ अष्टमोऽध्यायः - मरणकालकर्तव्यगत्याद्यस्मिन्नध्याये उपदिशति - उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । परममक्षरं परं ब्रह्म । वेदादिशङ्काव्यावृत्त्यर्थमेतत् । आत्मन्यधि यत् तदध्यात्मम् । आत्माधिकारे यत् तदिति वा । तथाहि जैवः स्वभावः । स्वाख्यो भाव इति व्युत्पत्त्या जीवो वा स्वभावः । सर्वदास्त्येवैक- प्रकारेणेति भावः । अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः । नह्येकप्रकारेण स्थितिरन्तःकरणादेः, विकारित्वात् । स्वशब्दः ईश्वरव्यावृत्त्यर्थः । भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरेश्वरक्रिया विसर्गः । विशेषेण सर्जनं विसर्ग इत्यर्थः ॥ १-३ ॥ भूतानि सशरीरान् जीवानधिकृत्य यत् तदधिभूतम् । क्षरो भावः विनाशिकार्यपदार्थः । अव्यक्तान्तर्भावे तस्याप्यन्यथाभावाख्यो विनाशोस्त्येव । तच्चोक्तम्- 'अव्यक्तं परमे व्योमि्न(व्योमन्) निष्क्रिये सम्प्रलीयते'' । इति । 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम'' । इति च ।
'विकारोव्यक्तजन्म हि'' इति च स्कान्दे । पुरि शयनात् पुरुषो जीवः । स च सङ्कर्षणो ब्रह्मा वा । स सर्वदेवानधिकृत्य पतिरित्यधिदैवतम् । देवाधिकारस्थ इति वा । सर्वयज्ञभोक्तृत्वादेरधियज्ञः । अन्योधियज्ञोग्न्यादिः प्रसिद्धः इति देह इति विशेषणम् । 'भोक्तारं यज्ञतपसाम्'', 'त्रैविद्या माम्'', 'येप्यन्यदेवताभक्ताः'', 'एतस्य वा अक्षरस्य प्रशासने गार्गि'', 'ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः'' । इत्यादेः । 'कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैश्श्रेयसं परम्'' । इत्यादिपरिहाराच्च ।
॥ मोक्षधर्मे ॥ भगवांश्चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथङ् नोक्तः । सर्वप्राणिदेहस्थरूपेणाधियज्ञः । अत्रेति स्वदेह- निवृत्त्यर्थम् । नहि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोन्यत् । 'ते ब्रह्म'' इत्युक्त्वा 'साधिभूताधिदैवं मां साधियज्ञं च ये विदुः'' इति परामर्शात् । तस्यैव च प्रश्नात् । साधियज्ञमिति भेदप्रतीतेस्तन्निवृत्त्यर्थम् 'अधियज्ञोहम्'' इत्युक्तम् । मामित्यभेद- प्रतीतेरक्षरमित्येवोक्तम् । आह च गीताकल्पे- 'देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः । कर्मेश्वरस्य सृष्ट्याख्यं तच्चापीच्छाद्यमुच्यते । अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते । हिरण्यगर्भोधिदैवं देवः सङ्कर्षणोपि वा । ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः'' ॥ इति । 'यथाप्रतीतं वा सर्वमत्र वै न विरुद्ध्यते'' ॥ इति च । 'आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते । देहाद् बाह्यं विनातीव बाह्यत्वादधिदैवतम् । देवाधिकारगं सर्वं महाभूताधिकारगम् । तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्'' ॥ इति स्कान्दे ॥ 'अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् । सदेहजीवभूतानि यत् तेषामुपकारकृत् । अधिभूतं तु मायान्तं देवानामधिदैवतम्'' ॥ इति महाकौर्मे ॥४ ॥ मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्- 'मुक्तानां च गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः'' । इति मोक्षधर्मे ॥ ५ ॥ स्मरंस्त्यजतीति भिन्नकालीनत्वेप्यविरोध इति मन्दमतेः शङ्का मा भूदिति 'अन्ते'' इति विशेषणम् । सुमतेर्नैव शङ्कावकाशः । स्मरंस्त्यजतीत्येककालीनत्वप्रतीतेः । दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति भविष्यति शङ्का । 'त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्'' । इति च स्कान्दे । 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति'' । इति हि श्रुतिः । सदा तद्भावभावित इत्यन्तकालस्मरणोपायमाह । भावोन्तर्गतं मनः । तथाभिधानात् । भावितत्वमतिवासितत्वम् । 'भावना त्वतिवासना'' इत्यभिधानात् ॥ ६, ७ ॥ सदा तद्भावभावितत्वं स्पष्टयति - अभ्यासेति । अभ्यास एव योगोभ्यासयोगः । दिव्यं पुरुषं पुरिशयं पूर्णं च । 'स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्'' ॥ इति श्रुतेः ।
दिव्यं सृष्ट्यादिक्रीडादियुक्तम् । 'दिवु क्रीडा-'' इति धातोः ॥८ ॥ ध्येयमाह- कविमिति । कविं सर्वज्ञम् । 'यः सर्वज्ञः'' इति श्रुतिः । 'त्वं कविः सर्ववेदनात्'' इति च ब्राह्मे । धातारं धारणपोषणकर्तारम् । 'डुधाञ् धारणपोषणयोः'' इति धातोः । 'धाता विधाता परमोत सन्दृग्'' इति च श्रुतिः । 'ब्रह्मा स्थाणुः'' इत्यारभ्य 'तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिम्'' इत्यादेश्च मोक्षधर्मे । तमसोव्यक्तात् परतः स्थितम्- 'तमसः परस्तादिति । अव्यक्तं वै तमः । परस्तादि्ध स ततः'' इति पिप्पलादशाखायाम् ।
'मृत्युर्वाव तमः । मृत्युर्वै तमो ज्योतिरमृतम्'' इति श्रुतेः ॥९ ॥ वायुजयादियोगयुक्तानां मृतिकालकर्तव्यमाह विशेषतः - प्रयाणकाल इति । वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यसम्पूर्णानां भवत्येव मुक्ति; । तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथञ्चिद् भवतीति विशेषः । उक्तं च भागवते - 'पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसा त्वापुरकुण्ठधिष्ण्यम् ।तथा परे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्नतु सेवया ते ।'' इति ॥ 'ये तु तद्भाविता लोक एकान्तित्वं समाश्रिताः ।
एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युत'' ॥ इति च मोक्षधर्मे । 'सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः ।
नियमेन तथापीरजयादियुतयोगिनाम् । वश्यत्वान्मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम्'' इति च व्यासयोगे ।
॥१० ॥ तदेव सद्ध्येयं प्रपञ्चयति - यदक्षरमित्यादिना । प्राप्यते मुमुक्षुभिरिति । पदं स्वरूपम् । 'पदगतौ'' इति धातोः ।
'तद् विष्णोः परमं पदम्'' इति श्रुतेश्च । 'गीयसे पदमित्येव मुनिभिः पद्यसे यतः'' इति च नारदीये ॥११ ॥ ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य । 'निर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैवहि'' इत्यादिवचनाद् व्यासयोगे मोक्षधर्मे च । हृदि नारायणे । 'ह्रियते त्वया जगद् यस्माद्धृदित्येव प्रभाष्यसे'' इति हि पाद्मे । नहि मूर्ध्नि प्राणस्थितेर्हृदि मनसः स्थितिः सम्भवति । 'यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा'' इति व्यासयोगे । योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः ॥ १२, १३ ॥ नित्ययुक्तस्य नित्योपायवतः । योगिनः परिपूर्णयोगस्य ॥ १४ ॥ तत्प्राप्तिं स्तौति - मामिति । परमां संसिदि्धं गता, हि त इति तत्र हेतुः ॥ १५ ॥ महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः ।
तच्चोक्तं नारायणगोपालकल्पे- 'आ मेरुब्रह्मसदनादाजनान्न जनिर्भुवि । तथाप्यभावः सर्वत्र प्राप्यैव वसुदेवजम्'' ॥ इति ॥१६ ॥ मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति - सहस्रयुगेत्यादिना । सहस्रशब्दोत्रानेकवाची । 'सा विश्वरूपस्य रजनी'' इति हि श्रुतिः ॥ १७ ॥ द्विपरार्धप्रलय एवात्र विवक्षितः । 'अव्यक्ताद् व्यक्तयः सर्वाः'' इत्युक्तेः । उक्तं च महाकौर्मे- 'अनेकयुगपर्यन्तमहर्विष्णोस्तथा निशा । रात्र्यादौ लीयते सर्वमहरादौ च जायते'' ॥ इति ।
'यः स सर्वेषु भूतेषु'' इति वाक्यशेषाच्च ॥ १८-२० ॥ अव्यक्तो भगवान् । 'यं प्राप्य न निवर्तन्ते'' इति 'मामुपेत्य'' इत्युक्तस्य परामर्शात् । 'अव्यक्तं परमं विष्णुम्'' इति प्रयोगाच्च गारुडे । धाम स्वरूपम् । 'तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते'' इत्यभिधानात्॥ २१ ॥ परमं साधनमाह- पुरुष इति ॥ २२ ॥ यत्कालाद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह - यत्रेत्यादिना । काल इत्युपलक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ।॥२३ ॥ ज्योतिरर्चिः । 'तेर्चिषमभिसम्भवन्ति'' इति हि श्रुतिः ।
तथाहि नारदीये- 'अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम्'' । इति । अभिमानिदेवताश्चाग्न्यादयः । कथमन्यथा 'अह्न आपूर्यमाणपक्षम्'' इति युज्येत । 'दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि'' । इति हि ब्राह्मे ।
मासाभिमानिन्योयनाभिमानिनी च पृथक् । तच्चोक्तं गारुडे- 'पूजितस्त्वयनेनासौ मासैः परिवृतेन हि'' इति । अहरभिजिता शुक्लं पौर्णमास्या अयनं विषुवा सह । तच्चोक्तं ब्रह्मवैवर्ते- 'साह्ना मध्यन्दिनेनाथ शुक्लेन च स पूर्णिमा ।
सविष्वा चायनेनासौ पूजितः केशवं व्रजेत्'' ॥ इति ॥ २४-२६ ॥ एते सृती सोपाये ज्ञात्वानुष्ठाय न मुह्यति ।
तच्चाह स्कान्दे - 'सृती ज्ञात्वा तु सोपाये चानुष्ठाय च साधनम् ।
न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिः'' ॥ इति ॥ २७, २८ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये अष्टमोध्यायः ॥ अथ नवमोऽध्यायः । सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये - सप्तमोक्तं प्रपञ्चयति । राजविद्या प्रधानविद्या । प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम् । अक्षेषु इंद्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः । तथा च श्रुतिः- 'यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः'' । 'यो विज्ञाने तिष्ठन्'' 'यश्चक्षुषि तिष्ठन्'' इत्यादेः ।
'य एषोन्तरक्षिणि पुरुषो दृश्यते'' इति च । 'अङ्गुष्ठमात्रः पुरुषोङ्गुष्ठं च समाश्रितः'' इति च । 'त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः'' इत्यादेश्च मोक्षधर्मे । 'स प्रत्यक्षः । प्रति प्रति हि सोक्षेष्वक्षवान् स भवति हि य एवं विद्वान् प्रत्यक्षं वेद'' इति सामवेदे (वारुणशाखायाम्) बाभ्रव्यशाखायाम् । धर्मो भगवान् । तद्विषयं धर्म्यम् । सर्वं जगद् धत्त इति धर्मः । 'पृथिवी धर्ममूर्धनि'' इति प्रयोगान्मोक्षधर्मे । 'भारभृत् कथितो योगी'' इति च । 'भर्ता सन् भ्रियमाणो बिभर्ति'' इति च श्रुतिः । 'धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो नेन्द्रो न देवा न ऋषयः सोध्यायत्'' इति च सामवेदे बाभ्रव्यशाखायाम् ।
॥ १-३ ॥ प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम् । तज्ज्ञानाद्याह- मयेति । तर्हि किमिति न दृश्यत इत्यत आह- अव्यक्तमूर्तिनेति ॥ ४ ॥ मत्स्थत्वेपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह- न चेति । 'न दृश्यश्चक्षुषा चासौ न स्पृश्यः स्पर्शनेन च'' । इति मोक्षधर्मे । 'सञ्ज्ञासञ्ज्ञ'' इति च । ममात्मा देह एव भूतभावनः । 'महाविभूते माहात्म्यशरीर'' इति हि मोक्षधर्मे ॥५ ॥ मत्स्थानि न च मत्स्थानीत्यस्य दृष्टान्तमाह- यथाकाश स्थित इति । न ह्याकाशस्थितोपि वायुः स्पर्शाद्याप्नोति ॥ ६ ॥ ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति- सर्वभूतानीत्यादिना । प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोपि पादेन गन्तुं लीलया दण्डमवष्टभ्य गच्छति । 'सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि'' । इति च मोक्षधर्मे । 'सर्वभूतगुणैर्युक्तं दैवं (मां) त्वं ज्ञातुमर्हसि'' । इति च । 'विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति'' ॥ इति च । 'न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य । तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु'' ॥ इत्यृग्वेदखिलेषु ।
'मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे'' । इति भागवते । 'अथ कस्मादुच्यते परं ब्रह्म इति, बृहति बृंहयति च'' । इत्याथर्वणे ।
'परास्य शक्तिर्विविधैव श्रूयते'' । इति च । 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि'' 'न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप'' इत्यादेश्च ।प्रकृतेर्वशादवशम्- 'त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोपि स्वमाययैव ।
मायावशं चावशं लोकमेतत् स्रक्ष्यस्यत्सि पासीश विष्णो'' ॥ इति गौतमखिलेषु ॥ ७,८ ॥ उदासीनवत्, नतूदासीनः । तदर्थमाह- असक्तमिति । 'अवाक्यनादरः'' इति हि श्रुतिः । 'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया'' ॥ इति भागवते । यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः । 'न कर्मणा वर्धते नो कनीयान्'' इति श्रुतिः । यः कर्मापि निय(या)मयति कथं च तत् तं बध्नाति ? ॥९ ॥ उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयत इत्यत आह- मयेति । प्रकृतिसूतिद्रष्टा कर्ता चाहमेवेत्यर्थः । तथा च श्रुतिः- 'यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्'' । इति ।॥१० ॥ तर्हि कथं केचित् त्वामवजानन्ति ? का च तेषां गतिरिति ? आह - अवजानन्तीत्यादिना । मानुषीं तनुं, मूढानां मानुषवत् प्रतीताम् तनुं, न तु मनुष्यरूपाम् । उक्तं च मोक्षधर्मे- 'यत्किञ्चिदिह लोकेस्मिन् देहबद्धं विशाम्पते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुदि्धजैः । ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विरा । भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोपि च । भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम'' । इति । अवतारप्रसङ्गे चैतदुक्तम् । अतो नावताराश्च पृथक् शङ्क्याः ।
'रूपाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः । वाराहं नारसिंहं च वामनं मानुषं तथा'' ॥ इति तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्तेः। अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम् । भूतं महदीश्वरं चेति भूतमहेश्वरम् । तथाहि बाभ्रव्यशाखायाम्- 'अनाद्यनन्तं परिपूर्णरूपमीशं वराणामपि देववीर्यम्'' । इति । 'अस्य महतो भूतस्य निःश्वसितम्'' इति च ।
'ब्रह्मपुरोहित ब्रह्मकायिकमहाराजिक'' इति च मोक्षधर्मे ॥११ ॥ तेषां फलमाह - मोघाशा इति । वृथाशाः । भगवद्द्वेषिभिराशाशित- मामुष्मिकं न किञ्चिदाप्यते । यज्ञादिकर्माणि च तेषां वृथैव । ज्ञानं च । केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकस्तैराप्यत इत्यर्थः । वक्ष्यति च - 'तानहं द्विषतः क्रूरान् संसारेषु'' इत्यादि । 'कर्मणा मनसा वाचा यो द्विष्याद् विष्णुमव्ययम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः । यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित्'' ॥ इति मोक्षधर्मे ।'सर्वोत्कृष्टे ज्ञानभक्ती हि यस्य नारायणे पुष्करविष्टराद्ये । सर्वावमो द्वेषयुतश्च तस्मिन् भ्रूणानन्तघ्नोप्यस्य समो न चैव'' ॥ इति च सामवेदे शाण्डिल्यशाखायाम् ।
'द्वेषाच्चेद्यादयो नृपाः'' 'वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम्'' इत्यादि तु भगवतो भक्तप्रियत्वज्ञापनार्थम्, (नित्यध्यानस्तुत्यर्थं च ।) स्वभक्तस्य कदाचिच्छापबलाद् द्वेषिणोपि भक्तिफलमेव भगवान् ददातीति । भक्ता एव हि ते पूर्वं शिशुपालादयः । शापबलादेव च द्वेषिणः । तत्प्रश्ने पूर्वपार्षदत्वशापादिकथनाच्चेतज्ज्ञायते । अन्यथा किमिति तदप्रस्तुतमुच्येत ? भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम् । 'न मे भक्तः प्रणश्यति'' इति च वक्ष्यति । न च 'भावो हि भ(भा)वकारणम्'' इत्यादिविरोधः । द्वेषभाविनां द्वेष एव भवतीति हि युक्तम् । अन्यथा गुरुद्वेषिणो गुरुत्वं भवतीत्याद्यनिष्टमापद्येत । न चाकृतधीत्वे विशेषः । तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः- 'हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः'' ॥ इति । 'यदनिन्दत् पिता मह्यम्'' इत्यारभ्य 'तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्'' इति प्रह्लादेन भगवतो वरयाचनाच्च । बहुषु ग्रन्थेषु च निषेधः । कुत्रचिदेव तदुक्तिरिति विशेषः । यस्मिंस्तदुच्यते तत्रैव च निषेध उक्तः । महातात्पर्यविरोधश्चोक्तः पुरस्तात् । अयुक्तिमद्भ्यो युक्त्तिमन्त्येव च बलवन्ति वाक्यानि युक्तयश्चोक्ता अन्येषाम् । न चैषां काचिद् गतिः । साम्येपि वाक्ययोर्लोकानुकूलाननुकूलयोरनुकूलमेव बलवत् । लोकानुकूलं च भक्तप्रियत्वं नेतरत् । उक्तं च तेषां पूर्वभक्तत्वम्- 'मन्येसुरान् भागवतान् त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्'' । इति । अतो न भगवद्द्वेषिणां काचिद् गतिरिति सिद्धम् । द्वेषकारणमाह- राक्षसीमिति ॥ १२ ॥ नेतरे द्विषन्तीति दर्शयितुं देवानाह - महात्मान इत्यादिना । ॥ १३, १४ ॥ सर्वत्रैक एव नारायणः स्थित इत्येकत्वेन । पृथक्त्वेन सर्वतो वैलक्षण्येन । 'बहुधा तस्य रूपमाभाति । शुक्लमिव लोहितमिवाथो नीलमथार्जुनम्'' इति हि सनत्सुजा(तीये)ते । 'दैवमेवापरे'' इत्युक्तप्रकारेण बहवो बहुधा ॥१५ ॥ प्रतिज्ञातं विज्ञानमाह - अहं क्रतुरित्यादिना । क्रतवोग्निष्टोमादयः । यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः । 'उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितः'' । इत्यभिधानात् ॥ १६-१७ ॥ गम्यते मुमुक्षुभिरिति गतिः । तथाहि सामवेदेषु वासिष्ठशाखायाम्- 'अथ कस्मादुच्यते गतिरिति । ब्रह्मैव गतिस्तदि्ध गम्यते पापमुक्तैः'' इति । साक्षादीक्षत इति साक्षी । तथाहि बाष्कलशाखायाम्- 'स साक्षादिदमद्राक्षीद् यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्'' इति । शरणमाश्रयः संसारभीतस्य - 'परमं यः परायणम्'' इति ह्युक्तम् ।
'नारायणं महाज्ञेयं विश्वात्मानं परायणम्'' इति च । संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम् ।
तथाहि ऋग्वेदखिलेषु- 'अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः'' इति ॥१८ ॥ सत् कार्यम् । असत् कारणम्- 'सदभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः । असदव्यक्तरूपत्वात् कारणं चापि शब्दितम्'' ॥ इति ह्यभिधानम् ।
'असच्च सच्चैव च यद् विश्वं सदसतः परम्'' । इति च भारते ॥१९ ॥ तथापि मद्भजनमेवान्यदेवताभजनाद् वरमिति दर्शयति- त्रैविद्या इति ॥ २०-२१ ॥ अनन्याः अन्यदचिन्तयित्वा । तथाहि गौतमखिलेषु- 'सर्वं परित्यज्य मनोगतं यद् विना देवं केवलं शुद्धमाद्यम् । ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति'' ॥ इति । 'कामः कालेन महता एकान्तित्वात् समाहितैः । शक्यो द्रष्टुं स भगवान् प्रभासन्दृश्यमण्डलः'' ॥ इति मोक्षधर्मे । नित्यमभितः सर्वतो युक्तानाम् ॥२२ ॥ तर्हि 'अहं क्रतुः'' इत्याद्यसत्यमित्यत आह - येपीति ॥ २३ ॥ कारणमाहाविधिपूर्वकत्वे - अहं हीति ॥ २४ ॥ फलं विविच्याह - यान्तीति ॥ २५ ॥ दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वादित्याशङ्क्याह - पत्रमिति । नत्वविहितपत्रादि । तस्यापराधत्वोक्तेर्वाराहादौ । भक्त्यैवाहं तुष्ट (तृप्यः) इति भावः । 'भक्तप्रियं सकललोकनमस्कृतं च'' इति च भारते । 'एतावानेव लोकेस्मिन् पुंसः स्वार्थः परः स्मृऽतः ।
एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम्'' ॥ इति भागवते ॥२६ ॥ अतो यत् करोषि ॥ २७, २८ ॥ तर्हि स्नेहादिमत्त्वादल्पभक्तस्यापि कस्यचिद् बहु फलं ददासि; विपरीतस्यापि कस्यचिद् विपरीतमित्यत आह - समोहमिति । तर्हि न भक्तिप्रयोजनमित्यत आह - ये भजन्तीति । मयि ते तेषु चाप्यहमिति - मम ते वशास्तेषामहं वश इति । उक्तं च पैङ्गिखिलेषु- 'ये वै भजन्ते परमं पुमांसं तेषां वशः स तु ते तद्वशाश्च'' । इति । तद्वशा एव ते सर्वदा । तथापि बुदि्धपूर्वकत्वाबुदि्धपूर्वकत्वेन भेदः । उद्धवादिवत्, शिशुपालादिवच्च । तच्चोक्तं तत्रैव- 'अबुदि्धपूर्वाद् यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुदि्धपूर्वम्'' - इति ॥ २९ ॥ न भवत्येव प्रायशस्तद्भक्तो सुदुराचारः । तथापि बहुपुण्येन यदि कथञ्चिद् भवति तर्हि साधुरेव स मन्तव्यः ॥ ३० ॥ कुतः ? क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव चैतद् भवति । उक्तं च शाण्डिल्यशाखायाम्- 'नाविरतो दुश्चरितान्नाभक्तो नासमाहितः । सम्यग् भक्तो भवेत् कञ्चिद् वासुदेवेमलाशयः । देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः ॥ इति ।
अतोन्यः कश्चिद् भवति चेत् डाम्भिकत्वेन सोनुमेयः । साधारणपापानां तु सत्सङ्गान्महत्यपि कथञ्चिद् भक्तिर्भवति । साधारण- भक्तिर्वेतरेषाम् । 'शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवैहि नास्य(भक्तम्)भक्तिः'' । इति हि श्रीविष्णुपुराणे ।
'सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसाम्'' इति च । 'वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् । पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् । गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोस्मि नित्यम् ।
तं चापि देवं शरणं प्रपन्नः एकान्तभावेन नमाम्यजस्रम् । एतै(रुपायैः)र्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम्'' ॥ इति मोक्षधर्मे आचारस्य साधनत्वोक्तेश्च । ज्ञानाभावे च सम्यग्भक्त्यभावात् । तथाहि गौतमखिलेषु- 'विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्'' । इति । 'भक्तिः परे स्वेनुभवो विरक्तिरन्यत्र चैष त्रिक एककालम्'' इति च भागवते ॥ ३१-३४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये नवमोध्यायः ॥ अथ दशमोऽध्यायः उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चिदनेन अध्यायेनाह - प्रीयमाणाय श्रुत्वा सन्तोषं प्राप्नुवते ॥ १ ॥ प्रभवं प्रभावम् । मदीयां जगदुत्पत्तिं वा । तद्वशत्वात् तस्येत्युच्यते । यद्यस्ति तर्हि देवादयो जानन्ति सर्वज्ञत्वात्, अतो नास्तीति भावः । 'अहमादिर्हि'' इति तु उत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम् । 'अहं सर्वस्य जगतः प्रभवः'' इति चोक्तम् । उक्तं चैतत् सर्वमन्यत्रापि- 'को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आ बभूव'' ॥ इति । 'न तत्प्रभावमृषयश्च देवा विदुः कुतोन्येल्पधृतिप्रमाणाः'' । इत्यृग्वेदखिलेषु । अन्यस्त्वर्थो 'यो मामजम्'' इति वाक्यादेव ज्ञायते ॥२ ॥ अनः चेष्टयिता आदिश्च सर्वस्येत्यनादिः । अजत्वेन सिद्धेरितरस्य ।॥३ ॥ तत् प्रथयति- बुदि्धरित्यादिना । कार्याकार्यविनिश्चयो बुदि्धः । ज्ञानं प्रतीतिः- 'ज्ञानं प्रतीतिर्बुदि्धस्तु कार्याकार्यवि(निश्चयः)निर्णयः'' । इत्यभिधानम् । दम इंद्रियनिग्रहः । शमः परमात्मनिष्ठा - 'शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः'' ॥ इति हि भागवते । तुष्टिरलम्बुदि्धः- 'अलम्बुदि्धस्तथा तुष्टिः'' इत्यभिधानात् ॥ ४-५ ॥ पूर्वे सप्तर्षयः- 'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजाः'' इति मोक्षधर्मोक्ताः ।
ते हि सर्वे(सर्व) पुराणेषूच्यन्ते । चत्वार प्रथमाः स्वायम्भुवाद्याः । तेषां हीमाः प्रजाः । नहि भविष्यतामिमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति । तच्चोक्तं गौतमखिलेषु- 'स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान्'' इति । पूर्वेभ्यो ह्युत्तरा जायन्त इति च तेषां प्राधान्यम् । अजातेषु च ज्यैष्ठ्यम् । तापसस्य भगवदवतारत्वादनुक्तिः । तच्च भागवते प्रसिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते- 'ततो मनून् ससर्जान्ते मनसा लोकभावनान्'' । इति ।
अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद् भवति । प्रमाणं चोभयविधवाक्यान्यथानुपपत्तिरेव । पूर्वे इति विशेणाच्च एतत्सिदि्धः । मत्तो भावो येषां ते मद्भावाः । ये ते ब्रह्मणो मनसा जातास्ते मत्त एव जाता इति भावः ॥६ ॥ सन्ति च भजन्तः केचिदित्याह- अहमित्यादिना ॥ ८-११ ॥ ब्रह्म परिपूर्णम्- 'अथ कस्मादुच्यते परं ब्रह्म । बृहति(बृंहति) बृंहयति च'' इति हि श्रुतिः । 'बृह बृंह (बृहि) वृद्धौ'' इति च पठन्ति । 'परमं यो महद् ब्रह्म'' इति च । विविधमासीदिति विभुः । तथाहि वारुणशाखायाम्- 'विभु प्रभु प्रथमं मेहनावत इति । स ह्येव प्राभवद् विविधोभवत्'' इति । 'सोकामयत बहु स्यां प्रजायेय'' इत्यादेश्च ॥ १२-१५ ॥ विभूतयः विविधभूतयः ॥ १६ ॥ न जायतेर्दयति च संसारं इति जनार्दनः । तथा च बाभ्रव्यशाखायाम्- 'स भूतः स जनार्दन इति स ह्यासीत् स नासीत् सोर्दयति'' इति । ॥१८ ॥ विष्णुः सर्वव्यापित्वप्रवेशित्वादेः । 'विष्लृ व्याप्तौ'' 'विश प्रवेशने'' इति हि पठन्ति ।
'गतिश्च सर्वभूतानां प्रजानां चापि भारत । व्याप्तौ मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम । अधिभूतनिविष्टश्च तदिच्छुश्चा(स्मि)पि भारत । क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः'' ॥ इति मोक्षधर्मे ॥२१ ॥सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः- 'प्रीतिः सुखं कं आनन्दः'' इत्याद्यभिधानात् । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म'' इति च । 'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् । सुखादनन्तात् पालना(ल्लीयनाच्च)ल्लापनाच्च यं वै देवं कपिलमुदाहरन्ति'' । इति च बाभ्रव्यशाखायाम् ॥२६ ॥ आनन्दरूपत्वात् पूर्णत्वात् लोकरमणाच्च रामः । 'आनन्दरूपो निष्परीमाण एष लोकश्चैतस्माद् रमते तेन रामः'' । इति शाण्डिल्यशाखायाम् । रश्च अमश्चेति व्युत्पत्तिः ॥३१ ॥ आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः । देवशब्दार्थ उक्तः पुरस्तात् । 'छादयामि जगत् सर्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्'' ॥ । इति मोक्षधर्मे । विशिष्टः सर्वस्मात् आ समन्तात् स एवेति व्यासः । तथाचा- (अग्निवेश्य)ग्नेयशाखायाम्- 'स व्यासो वीति तमब्वै विः सोधस्तात् स उत्तरतः स पश्चात् स पूर्वस्मात् स दक्षिणतः स उत्तरत इति'' इति । 'यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेपि वा । अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः'' ॥ इति च ॥३७ ॥ मया विना यद् भूतं स्यात् तन्नास्ति । 'विश्वरूपः अनन्तगतिः अनन्तभागः अनन्तगः अनन्तः'' इत्यादि हि मोक्षधर्मे ॥ ३९,४० ॥ यद्यद् विभूतिमदिति विस्तरः । विष्ण्वादीनि तु स्वरूपाण्येव । अन्यानि तु तेजोंशयुक्तानि ।
तथा च पैङ्गिखिलेषु- 'विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुतान्यजीवाः । कृष्णव्यासौ रामकृष्णौ च रामः कपिलयज्ञप्रमुखाः स्वयं सः'' ॥ इति । 'स एवैको भार्गवदाशरथिकृष्णाद्यास्त्वंशयुता अन्यजीवाः'' इति च । गौतमखिलेषु । 'ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः'' एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्'' ॥ इति च भागवते ऋष्यादीनंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह । तु शब्द एवार्थे । अन्यस्तु विशेषो न कुत्राप्यवगतः । अंशत्वं च तत्राप्यवगतम्- 'उद्बबर्हात्मनः केशौ'' इति । 'मृडयन्ति'' इति बहुवचनं चायुक्तम् । नह्यन्तरान्यदुक्त्वा पूर्वमपरामृश्य तत्क्रिया उच्यमाना दृष्टा कुत्रचित् ॥ ४१ ॥ किमिति वक्ष्यमाणप्राधान्यज्ञापनार्थम् । न तूक्तनिष्फलत्वज्ञापनाय । तथा सति नोच्येत ।
'अज्ञात्वै(वं)नं सर्वविशेषयुक्तं देवं परं को हि मुच्येत बन्धात्'' । इति च ऋर्ग्वेदखिलेषु । त्वं तु बहुफलप्राप्तियोग्य इति तवेति विशेषणम् । अन्यस्तुत्यर्थत्वेन प्रसिद्धश्चैकत्र किंशब्दः - 'रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम् ।
रागद्वेषौ न चेत् स्यातां तपसा किं प्रयोजनम्'' ॥ इत्यादौ । प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवद्दर्शनस्य 'यो मां पश्यति सर्वत्र'' इत्यादौ ॥४२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये दशमोध्यायः ॥ अथ एकादशोऽध्यायः यथा श्रुते ध्यानं कर्तुं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते- प्रभुः समर्थः- 'नास्ति तस्मात् परं भूतं पुरुषाद्वै सनातनात्'' । इति हि मोक्षधर्मे । 'प्रभुरीशः समर्थश्च'' इत्यादि चाभिधानम् ॥ १-४ ॥ हरिः सर्वयज्ञादिभागहरत्वात्- 'इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृऽतः'' ॥ इति हि मोक्षधर्मे ।
॥९ ॥ सर्वाश्चर्यमयं सर्वाश्चर्यात्मकम् ॥ १०, ११ ॥ सहस्रशब्दोनेकवाची । तदपि 'पाकशासनविक्रमः'' इत्यादिवत् प्रत्यायनार्थमेव । तथाहि ऋग्वेदखिलेषु- 'अनन्तशक्तिः परमोनन्तवीर्यः सोनन्ततेजाश्च ततस्ततोपि'' ।इति ।महातात्पर्याच्च बाहुल्यम् । न च परिमाणोक्त्या किञ्चित् प्रयोजनम् ।॥१२ ॥ अनेकशब्दोनन्तवाची । 'अनन्तबाहुम्'' इति वक्ष्यति । 'सर्वतः पाणिपादं तत्'' इत्यादि च । 'विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः'' ॥ इति ऋग्वेदे । 'विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः'' ॥ इति यजुर्वेदे च । विश्वशब्दश्चानन्तवाची- 'सर्वं समस्तं विश्वं च अनन्तं पूर्णमेव च'' । इत्यभिधानात् ।
'अनन्तपादं तमनन्तबाहुमनन्तवक्त्रं पुरुरूपमेकम्'' ॥ इति च बाभ्रव्यशाखायाम् । महत्त्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति । अन्यथा 'अनादिमत् परं ब्रह्म'' इत्याद्ययुक्तं स्यात् । एकत्र त्वनन्तान्यस्य रूपाणीत्यनन्तरूपः । अन्यत्र त्वपरिमाण इति ।
उक्तं ह्युभयमपि 'परात् परं यन्महतो महान्तम्'' 'यदेकमव्यक्तमनन्तरूपम्'' इति यजुर्वेदे । अव्यक्तस्यानन्तत्वादेव महतो महत्त्वेपरिमेयत्वं सिद्ध्यति । 'महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते'' ॥ इत्यादित्यपुराणे । तानि चैकैकानि रूपाण्यनन्तानीति चैकत्र भवन्ति(भवति) । 'असङ्ख्याता ज्ञानकास्तस्य देहाः सर्वे परीमाणविवर्जिताश्च'' । इति हि ऋग्वेदखिलेषु । 'यावान् वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ'' ॥ इति च । 'कृष्णस्य गर्भजगतोतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम्'' । इति च भागवते । न चैतदयुक्तम् । अचिन्त्यशक्तित्वादीश्वरस्य । 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्'' । इति श्रीविष्णुपुराणे । 'नैषा तर्केण मतिरापनेया'' इति च श्रुतिः ।
अतिप्रसङ्गस्तु महातात्पर्यवशाद् वाक्यबलाच्चापनेयः । नहि घटवत् कश्चिदपि पदार्थो न दृष्ट इत्येतावता प्रमाणदृष्टः स निराक्रियते । केषुचित् पदार्थेषु वाक्यव्यवस्थाचिन्त्यशक्तित्वाभावादङ्गीक्रियते । 'गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ॥ एवं परेन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमाद् व्यवस्था'' ॥ इति जाबालखिलश्रुतेश्च । उपचारत्वपरिहाराय 'न मध्यम्'' इति । अन्यथाद्यन्ताभावेनैव तत्सिद्धेः । विश्वरूपः पूर्णरूपः- 'स विश्वरूपोनूनरूपो यतोयं सोनन्तो नहि नाशोस्ति तस्य'' इति शाण्डिल्यशाखायाम् ॥ १६ ॥ अनलार्कद्युतिमित्युक्ते मितत्वशङ्कामपाकरोति - अप्रमेयमिति ॥ १७ ॥ शशिसूर्यनेत्रमित्यपि 'अहं क्रतुः'' इत्यादिवत् । 'तदङ्गजाः सर्वसुरादयोपि तस्मात् तदङ्गेत्यृषिभिः स्तुतास्ते'' । इत्यृग्वेदखिलेषु । 'चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत'' । इति च ।
बहुरूपत्वाद् बह्वङ्गत्वं च तेषां युक्तम् ॥ १८, १९ ॥ 'मातापित्रोरन्तरगः स एकरूपेण चान्यैः सर्वगतः स एकः'' ।
इति वारुणश्रुतेरेकेन रूपेण द्यावापृथिव्योरन्तरं प्राप्तो (व्याप्तो भवति) भाति । 'पश्य मे पार्थ रूपाणि'' इति बहूनि हि रूपाणि प्रतिज्ञातानि । मातापितरौ च पृथिवीद्यावौ- 'मा नो माता पृथिवी दुर्मतौ धात्'' 'मधु द्यौरस्तु नः पिता'' इत्यादिप्रयोगात् । न तु नियमतो भयप्रदं तत्स्वरूपम् । नारदस्य तदभावात् । केषाञ्चित् तथा दर्शयति भगवान् । 'प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः'' । इति हि वारुणशाखायाम् । न तु तं सर्वे पश्यन्ति अदृष्ट्वापि तन्निरूप्यभये द्रष्टुस्तथा प्रतिभाति । तथा च गौतमखिलेषु- 'दृष्ट्वा देवं मोदमाना अदृष्ट्वाप्येतद्भयाद् बिभ्यतो दृष्टवत् ते । पश्यन्ति तन्नस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात्'' ॥ इति । ॥२० ॥ धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति । यथा कश्चित् किञ्चिन्नामादिकं जानन्नपि जातिज्ञानार्थं पृच्छति कस्त्वमिति । यदि तमेव न जानाति तर्हि विष्णो इत्येव सम्बोधना न स्यात् । 'त्वमक्षरम्'' इत्यादि च ॥ २१-३१ ॥ कालशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । 'कल बन्धने'' 'कल च्छेदने'' 'कल ज्ञाने'' 'कल कामधेनुः'' इति हि पठन्ति । प्रसिद्धश्च स शब्दो भगवति । 'नियतं कालपाशेन बद्धं शक्र विकत्थसे । अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः । बद्ध्वा तिष्ठति मां रौद्रः पशुं(पशून्) रशनया यथा'' । इति हि मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति ।
'विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे'' इति हि भागवते । प्रवृद्धः परिपूर्णोनादिर्वा । 'ऋतं च सत्यं चाभीद्धात्'' इति हि श्रुतिः । 'एतन्महद्भूतमनन्तम्'' इति च । 'प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम'' इति च ।
न तु वर्धनम्- 'नासौ जजान न मरिष्यति नैधतेसौ'' । इति हि भागवते । 'यस्य दिव्यं हि तद् रूपं हीयते वर्धते न च'' इति मोक्षधर्मे । 'न कर्मणा'' इति तु कर्मणापि न, किमु स्वयमिति । लोकान् समाहर्तुमिह विशेषेण प्रवृत्तः । भ्रात्रादींश्चर्त इत्यपिशब्दः । प्रत्यनीकत्वं तु परस्परतया । सर्वे हि न भविष्यन्ति । अक्षोहिण्यादिभेदेन बहुवचनं च युक्तम् ॥३२ ॥ योस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यतीति तत्पितुर्व- राज्जयद्रथो विशेषेणोक्तः । सवरा वासवी शक्तिरिति कर्णः ।॥३४ ॥ यदेतद् वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः । अग्नीषोमाद्यन्तर्यामितया जगद्धर्षणात् हृषीकेशः । केशत्वं त्वंशूनां तन्नियन्तृत्वादेः । प्रमाणं तु 'शशिसूर्यनेत्रम्'' इत्यत्रोक्तम् । हृषीकाणामिंद्रियाणामीशत्वाच्च हृषीकेशः । तेषां विशेषेणेशत्वं च 'यः प्राणे तिष्ठन्'' इत्यादौ सिद्धम् । 'न मे हृषीकाणि पतन्त्यसत्पथे'' इत्यादिप्रयोगाच्च । इतरोर्थो मोक्षधर्मे सिद्धः- 'सूर्याचन्द्रमसौ शश्वत् केशैर्मे अंशुसञ्ज्ञितैः ।
बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक् । बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात् ।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन । हृषीकेशो(हमीशानो)महेशानो वरदो लोकभावनः'' इति ॥ ३५, ३६ ॥ कथं स्थान इति ? तदाह - कस्मादित्यादिना । पूर्णश्चासौ आत्मा चेति महात्मा । आत्मशब्दश्चोक्तो भारते- 'यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते'' ॥ इति । तत्परं सदसतोः परम् । 'असच्च सच्चैव च यद् विश्वं सदसतः परम्'' इति च भागवते । ॥३७ ॥ एकस्त्वमेव कारयिता नान्योस्ति, अथापि ॥ ४२ ॥ स्वकं रूपं तु भ्रान्तप्रतीत्या । अन्यथा तदपि स्वकमेव । प्रमाणानि तूक्तानि पुरस्तात् ॥ ५० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये एकादशोध्यायः ॥ अथ द्वादशोऽध्यायः । अव्यक्तोपासनाद् भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मिन्नध्याये- तदुपासनमपि हि मोक्षसाधनं प्रतीयते- 'श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ'' इति । 'अनाद्यनन्तं'' महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते'' इति च । अव्यक्तं च महतः परम्- 'महतः परमव्यक्तम्'' इत्युक्तपरामर्शोपपत्तेः ।
'उपास्य तां श्रियमव्यक्तसञ्ज्ञां भक्त्या मर्त्यो मुच्यते सर्वबन्धैः'' । इति सामवेदे आग्निवेश्यशाखायाम् । महच्च माहात्म्यं तस्याः वेदेषूच्यते- 'चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृषणा निषेदतुः यत्र देवा दधिरे भागधेयम्'' ॥ इति । 'चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृषणा निषेदतुर्यत्र देवा दधिरे भागधेयम्'' इति च । 'अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः'' इत्यारभ्य 'अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् । मया सो अन्नमत्ति यो वि पश्यति यः प्राणिति य र्इं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रदि्धवं ते वदामि'', 'यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वाउ'' । 'अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वान्तः समुद्रे'' ।
'परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव'' इत्यादि च । 'त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया'' इति च । इति शङ्का कस्यचिद् भवति । अतो जानन्नपि सूक्ष्मयुक्तिज्ञानार्थं पृच्छति- एवमिति । एवं शब्देन दृष्टश्रुतरूपं 'मत्कर्मकृत्'' इत्यादिप्रकारश्च परामृश्यते । अव्यक्तं प्रकृतिः 'महतः परमव्यक्तम्'' । इति प्रयोगात् । 'यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्'' ॥ इति च भागवते । अक्षरं च तत्- 'अक्षरात् परतः परः'' इति श्रुतेः । परं तु ब्रह्म न हि भगवतोन्यत्- 'आनन्दमानन्दमयो()वसाने सर्वात्मके ब्रह्मणि वासुदेवे'' इति भागवते । रूपं चेदृशं साधितं पुरस्तात् । उपासनं च तथैव कार्यम्- 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्'' इत्यारभ्य 'तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते'' इति हि साभ्यासा । आदित्यवर्णत्वादिश्च न वृथोपचारत्वेनाङ्गीकार्यः । तथा च सामवेदे सौकरायणश्रुतिः- 'स्थाणुर्ह वै प्राजापत्यः । स प्रजापतिं पितरमेत्योवाच । मुमुक्षुभी राधुभिः (मुमुक्षुभिः साधुभिः) पूतपापैः किमु ह वै तारकं तारवाच्यम् । ध्यानं च तस्याप्तरुचेः कथं स्याद् ध्येयश्च कः पुरुषोलोमपाद इति । तं होवाच । एष वै विष्णुस्तारकोलोमपादो ध्यानं च तस्याप्तरुचेर्वदामि । सोनन्तशीर्षो बहुवर्णः सुवर्णो ध्येयः स वै लोहितादित्यवर्णः । श्यामोथ वा हृदये सोष्टबाहुरनन्तवीर्योनन्तबलः पुराणः'' । इत्यादि । अरूपत्वादेस्तु गतिरुक्ता । पुरुषभेदश्च प्रश्नादौ प्रतीयते- 'त्वां पर्युपासते, ये चाप्यक्षरम्'' इत्यादौ ॥१ ॥ भवन्तु त्वदुपासका एवोत्तमाः । इतरेषां तु किं फलमित्यत आह- ये त्वित्यादि । अनिर्देश्यत्वं चोक्तं भागवते मायायाः- 'अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः'' इति । ईश्वरस्तु दैवशब्दे- नोक्तः- 'दैवमन्येपरे'' इत्यत्र । उक्तं च सामवेदे काषायणश्रुतौ 'नासदासीन्नो सदासीत् तदानीमिति । न महाभूतं नोपभूतं तदासीत्'' इत्यारभ्य 'तम आसीत् तमसा गू्हमग्र इति । तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिः'' इति । सर्वगाचिन्त्यादिलक्षणा च सा । तथाहि मोक्षधर्मे- 'नारायणगुणाश्रयादजरादतींद्रियादग्राह्यादसम्भवत असत्यादहिंस्राल्ललामाद् द्वितीयप्रवृत्तिविशेषादवैरादक्षयादमरादक्षरादमूर्तितः सर्वस्याः सर्वकर्तुः शाश्वततमसः'' । इति । 'आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः'' ॥ इति च मानवे । 'कूटस्थोक्षर उच्यते'' इति च वक्ष्यति । कूटे आकाशे स्थिता कूटस्था- 'आकाशसंस्थिता त्वेषा ततः कूटस्थिता मता'' इति हि ऋग्वेदखिलेषु । 'सा सर्वगा निश्चला लोकयोनिः सा चाक्षरा विश्वगा विरजस्का'' इति च सामवेदे गौपवनशाखायाम् ॥ २-४ ॥ कथं तर्हि त्वदुपासकानामुत्तमत्वमित्यत आह - क्लेश इति । अव्यक्ता गतिर्दुःखं ह्यवाप्यते । गतिर्मार्गः । अव्यक्तोपासनद्वारको मत्प्राप्तिमार्गो दुःखमाप्यत इत्यर्थः । अतिशयोपासनसर्वेंद्रियातिनियमनसर्वसमबुदि्धसर्वभूतहितकरत्वातिसुष्ठ्वाचारसम्यग्विष्णुभक्त्यादिसाधनसन्दर्भमृतेनाव्यक्तापरोक्ष्यम् । तदृते च न विष्णुप्रसादः । सत्यपि तस्मिन् न सम्यग् भगवदुपासनमृते । नर्ते च तं मोक्षः । विनाप्यव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्टोयं मार्ग इति भावः । तथाप्यपरोक्षीकृताव्यक्तानां सुकरं भगवदुपासनमित्येतावत् प्रयोजनम् । तत्रापि योव्यक्तापरोक्ष्ये प्रयासस्तावता प्रयासेन यदि भगवन्तमुपास्ते, ऊनेन वा, तदा भगवदापरोक्ष्यमेव भवतीति द्वितीयमधिकम् । इंद्रियसंयमनाद्यूनभावे सति उपासकस्यापि देवी नातिप्रसादमेति । देवस्तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददातीति चातिसौकर्यमिति भक्तानां भगवदुपासने । इतरत्र च क्लेशोधिकतरः । तदेतत् सर्वं 'पर्युपासते'' 'सन्नियम्य'' 'अधिकतरः'' इति परि सन् तरप्शब्दैः प्रतीयते । सामवेदे माधुच्छन्दसशाखायां चोक्तम्- 'भक्ताश्च येतीव विष्णावतीव जितेंद्रियाः सम्यगाचारयुक्ताः । उपासते तां समबुद्धयश्च तेषां देवी दृश्यते नेतरेषाम् । दृष्टा च सा भक्तिमतीव विष्णौ दत्वोपास्तौ सर्वविघ्नांश्छिनत्ति । उपास्य तं वासुदेवं विदित्वा ततस्ततः शान्तिमत्यन्तमेति'' ॥ इति । उक्तं च सामवेदे आयास्यशाखायाम्- 'प्रसन्नो भविता देवः सोव्यक्तेन सहैव तु । यावता तत्प्रसादो हि तावतैव न संशयः ।
न तत्प्रसादमात्रेण प्रीयते स महेश्वरः । तस्मिन् प्रीते तु सर्वस्य प्रीतिस्तु भवति ध्रुवम् । यद्यप्युपासनाधिक्यं तथापि गुणदो हि सः । मुक्तिदश्च स एवैको नाव्यक्तादेस्तु कश्चन'' ॥ इति । 'ममात्मभावमिच्छन्तो यतन्ते परमात्म(ना)ने'' ॥ इति च मोक्षधर्मे श्रीवचनम् । 'धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीले च सदैव निवसाम्यहम्'' ॥ इति च ।
महतः परं तु ब्रह्मैव । तथाहि भगवता सयुक्तिकमभिहितम्- 'वदतीति चेन्न प्राज्ञो हि'' 'त्रयाणामेव चैवमुपन्यासः प्रश्नश्च'' इत्यादि । तमिति पुल्लिङ्गाच्चैतत्सिदि्धः । महत्परत्वं त्वव्यक्तपरस्य भवत्येव । तथाचाग्निवेश्यशाखायाम्- 'अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यत इति । परो हि देवः पुरुहूतो महत्तः इति'' इति । नचाव्यक्तस्य रूपं भगवता निषिद्धम् । भारतादौ साधितत्वात् । 'शरीररूपकविन्यस्तगृहीतेः'' इत्यादौ तु साङ्ख्यप्रसिद्धं प्रधानं निषिद्ध्य वैदिकमव्यक्तमेवोक्तम् । तथा च सौकरायणश्रुतिः- 'शरीररूपिका साशरीरस्य विष्णोर्यतः प्रिया सा जगतः प्रसूतिः'' इति ।
सुव्रतानां क्षिप्रं महदैश्वर्यं देवी ददाति न देव इति च विशेषः - 'सुवर्णवर्णां पद्मकरां च देवीं सर्वेश्वरीं व्याप्तजडां च बुद्ध्वा । सैवेति वै सुव्रतानां तु मासान्महाभूतिं श्रीस्तु दद्यान्न देवः'' ॥ इति ऋग्वेदखिलेषु ।
॥५ ॥ मदुपासकानां न कश्चित् क्लेश इति दर्शयति- ये त्वित्यादिना । उक्तं च सौकरायणश्रुतौ- 'उपासते ये पुरुषं वासुदेवमव्यक्तादेरीप्सितं किं नु तेषाम्'' । इति । 'तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः । अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्'' ॥ इति च मोक्षधर्मे । ॥ ६-११ ॥ अज्ञानपूर्वादभ्यासाज्ज्ञानमात्रमेव विशिष्यते । ज्ञानमात्रात् सज्ञानं ध्यानम् । तथा च सामवेदे आनभिम्लातशाखायाम्- 'अधिकं केवलाभ्यासाज्ज्ञानं तत्सहितं ततः । ध्यानं ततश्चापरोक्ष्यं ततः शान्तिर्भविष्यति'' ॥ इति । 'ध्यानात् कर्मफलत्यागः'' इति तु स्तुतिः । अन्यथा कथम् 'असमर्थोसि'' इत्युच्येत ? 'तयोस्तु कर्मसन्न्यसात् कर्मयोगो विशिष्यते'' इति चोक्तम् । 'सर्वाधिकं ध्यानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ती परात्मन् । कर्माफलाकाङ्क्षमथो विरागस्त्यागश्च न ध्यानकलाफलार्हः'' ॥ इति च काषायणशाखायाम् । वाक्यसाम्येप्यसमर्थविषयत्वोक्तेस्तात्पर्याभाव इतरत्र प्रतीयते । ध्यानादिप्राप्तिकारणत्वाच्च त्यागस्तुतिर्युक्ता । केवलाद् ध्यानात् फलत्यागयुक्तं ध्यानमधिकम् । ध्यानयुक्तस्त्याग एव चात्रोक्तः । अन्यथा कथम्- 'त्यागाच्छान्तिरनन्तरम्'' इत्युच्येत? कथं च ध्यानादाधिक्यम् ? तथा च गौपवनशाखायाम्- 'ध्यानात्तु केवलात् त्यागयुक्तं तदधिकं भवेत्'' इति । न हि त्यागमात्रानन्तरमेव मुक्तिर्भवति । भवति च ध्यानयुक्तात् । केवलत्यागस्तुतिरेवमपि भवति । यथा 'अनेन युक्तो जेता, नान्यथा'' इत्युक्ते ॥१२ ॥ 'सर्वारम्भपरित्यागी'' 'शुभाशुभपरित्यागी'' इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेनापुनरुक्तिः । हर्षादिभिर्मुक्त इत्युक्ते कादाचित्क- मपि भवतीति यो न हृष्यतीत्यादि । उपचारपरिहारार्थं पूर्वम् । आधिक्यज्ञापनाय भक्त्यभ्यासः । 'ये तु सर्वाणि कर्माणि'' इत्यादेः प्रपञ्च एषः ॥ १६-१९ ॥ पिण्डीकृत्योपसंहरति- ये तु धर्म्यामृतमिति । धर्मो विष्णुस्तद्विषयं च धर्म्यम्, मृत्यादिसंसारनाशकं चेति धर्म्यामृतम् । श्रत् आस्तिक्यम् । 'श्रन्नामास्तिक्यमुच्यते'' इति ह्यभिधानम् । तद् दधानाः श्रद्दधानाः ।॥२० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये द्वादशोध्यायः ॥ अथ त्रयोदशोऽध्यायः पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन ।सर्वार्थसङ्क्षेपोयम् ॥ १ ॥ 'यद्विकारि'' येन विकारेण युक्तम् । 'यतश्च यत्'' यतो याति प्रवर्तते । स च प्रवर्तकः । यतश्च यदित्यस्मात् प्रवर्तते क्षेत्रमिति वचनम् । स च य इति स्वरूपमात्रम् ॥ १-४ ॥ ब्रह्मसूत्राणि शारीरकसूत्राणि ॥ ५, ६ ॥ इच्छादयो विकाराः ॥ ७ ॥ स च यो यत्प्रभावश्चेति वक्तुं तज्ज्ञानसाधनान्याह- अमानित्वमित्यादिना । आत्माल्पत्वं ज्ञात्वापि महत्त्वप्रदर्शनं दम्भः । 'ज्ञात्वापि स्वात्मनोल्पत्वं डम्भो माहात्म्य(भावनम्)दर्शनम्'' इति ह्यभिधानम् ।
आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् ॥ ८, ९ ॥ सक्तिः स्नेहः । स एवातिपक्वो(क्तो)भिष्वङ्गः ।
'स्नेहः सक्तिः स एवातिपक्वो(क्तो)भिष्वङ्ग उच्यते'' इति ह्यभिधानम् । ॥ १०, ११ ॥ तत्त्वज्ञानार्थदर्शनम् अपरोक्षज्ञानार्थं शास्त्र(ज्ञानम्)दर्शनम् ॥ १२ ॥ परं ब्रह्मेति च 'स च यः'' इति प्रतिज्ञातमुच्यते - अन्यद् 'यत्प्रभावः'' इति । आदिमद्देहादिवर्जितमनादिमत् । अन्यथानादीत्येव स्यात् । ॥ १३, १४ ॥ सर्वेंद्रियाणि गुणांश्चाभासयतीति सर्वेंद्रियगुणाभासम् । इंद्रियवर्जितत्वाद्यर्थ उक्तः पुरस्तात् । विकारान्तर्भावाज्ज्ञानसाधनं प्रथमत उक्तम् । बहुत्वात् साधनात्युपयोगात् प्रभावः ॥ १५-१९ ॥ यतश्च यदिति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह- प्रकृतिमिति । गुणाः सत्त्वादयः । तेषामत्यल्पो विशेषो लयात् सर्गे इति विकाराः पृथगुक्ताः । 'कार्याकार्या गुणास्तिस्रो यतस्त्वल्पोद्भवो जनौ'' । इति हि माधुच्छन्दसशाखायाम् ॥२० ॥ कार्यं शरीरम् । 'शरीरं कार्यमुच्यते'' इति ह्यभिधानम् । करणानि इंद्रियाणि । भोगोनुभवः । स हि चिद्रूपत्वादनुभवति । प्रकृतिश्च जडत्वात् परिणामिनी । 'कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्'' ॥ इति हि भागवते ॥२१ ॥ यतश्च यदित्याह - उपद्रष्टेति । अनुमन्ता अन्वनु विशेषतो निरूपकः ॥२३ ॥ पुरुषः सुखदुःखानामिति जीव उक्तः । पुरुषं प्रकृतिं चेति जीवेश्वरौ सहैवोच्येते । अन्यत्र महातात्पर्यविरोधः । उत्कर्षे हि महान् । तथाहि सौकरायणश्रुतिः- 'अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्तत्परत्वम् । विष्णोरनन्तस्य परात् परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का । अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवापि युक्तिः । न तत् प्रमाणं कवयो वदन्ति न चापि युक्तिर्ह्यूनमतिर्हि दृष्टेः'' ॥ इति ।
अतो युक्तिभिरप्येतदपलापो न युक्तः । अतो यया युक्त्याविद्यमानत्वादि कल्पयति साप्याभासरूपेति सदेव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति । अवान्तरं च तात्पर्यं तत्रास्ति । उक्तं च तत्रैव- 'अवान्तरं तत्परत्वं च सत्त्वे महद् वाप्येकत्वात्तु तयोरनन्ते'' । इति । श्यामत्वाद्यभिधानाच्च । युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम् । अज्ञानसम्भवात् । न तु स्वतःप्रमाणस्य वेदस्याभासत्वम् । अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात् । तर्ह्यस्मदनधीतश्रुत्यादौ विपर्ययोपि स्यादिति च न वाच्यम् । यतस्तत्रैवाह- 'नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तय इति ह प्रजापतिरुवाच प्रजापतिरुवाच'' । इति ।
तद्विरुद्धं च जीवसाम्यम्- 'आभास एव च'' इति चोक्तम् । 'बहवः पुरुषा ब्रह्मन् उताहो एक एव तु ।
को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति । वैशंपायन उवाच - नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्भह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते'' ॥ इति च मोक्षधर्मे । न चैतत् सर्वं स्वप्नेन्द्रजालादिवत् । 'वैधर्म्याच्च न स्वप्नादिवत्'' इति हि भगवद्वचनम् । न च स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः । विपर्यये माश्चोक्ता द्वितीये । उक्तं चायास्यशाखायाम्-'स्वप्नो ह वा अयं चञ्चलत्वान्न च स्वप्नो न हि विच्छेद एतदिति'' । इति ।
नायं दोषः । नहीश्वरस्य जीवैक्यमुच्यते, जीवस्य हीश्वरैक्यमिति ध्येयम् । तदपि न निरुपाधिकम् । अतो न प्रतिबिम्बत्वविरोध्यैक्यम् । तथा च माधुच्छन्दसश्रुतिः- 'ऐक्यं चापि प्रातिबिम्ब्येन विष्णोर्जीवस्यैतदि्ध ऋषयो वदन्ति'' इति । अहङ्ग्रहोपासने च फलाधिक्यमाग्निवेश्यश्रुतिसिद्धम्- 'अहङ्ग्रहोपासकस्तस्य साम्यमभ्याशो ह वा अश्नुते नात्र शङ्का'' । इति ।
'तदीयोहमिति ज्ञानमहङ्ग्रह इतीरितः'' । इति वामने । 'तद्वशत्वात्तु सोस्मीति भृत्यैरेव न तु स्वतः'' इति च ।
प्रातिबिम्ब्येन सोस्मि भृत्यश्चेति भावना । तथाह्यायास्यशाखायाम्- 'भृत्यश्चाहं प्रातिबिम्ब्येन सोस्मीत्येवं ह्युपास्यः परमः पुमान् सः'' । इति । प्रातिबिम्ब्यं च सादृश्य(साम्य)मेव ॥ २४ ॥ साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन । कर्मिणामपि श्रुत्वा ज्ञात्वा ध्यात्वा दृष्टिः । श्रावकाणां च ज्ञात्वा ध्यात्वा । साङ्ख्यानां च ध्यात्वा । तथा च गौपवनश्रुतिः- 'कर्मकृच्चापि तं (तत्) श्रुत्वा ज्ञात्वा ध्यात्वानुपश्यति । श्रावकोपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति'' ॥ इति । 'अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायते'' । इति । 'अन्ये'' इत्यशक्तानामप्युपायदर्शनार्थम् ॥ २५, २६ ॥ पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुतमाह- यावदित्यादिना ॥ २७-२९ ॥ आत्मानं चाकर्तारं पश्यति स पश्यति ॥ ३० ॥ एकस्थम्, एकस्मिन्नेव विष्णौ स्थितम् । तत एव विष्णोर्विस्तारम् ।
॥३१ ॥ न च व्ययादिस्तस्येत्याह - अनादित्वादिति । सादि हि प्रायो व्ययि गुणात्मकं च । 'न करोति'' इत्यादेरर्थ उक्तः पुरस्तात् । न लौकिकः । क्रियादिस्तस्य । अतो 'न प्रज्ञम्'' इत्यादिवदिति । ॥ ३२-३४ ॥ भूतेभ्यः प्रकृतेश्च मोक्षसाधनम्; अमानित्वादिकम् ॥ ३५ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये त्रयोदशोध्यायः ॥ अथ चतुर्दशोऽध्यायः - साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति । महद् ब्रह्म प्रकृतिः । सा च श्रीर्भूर्दुर्गेति या भिन्ना । उमासरस्वत्याद्यास्तु तदंशयुतान्यजीवाः । तथा च काषायणश्रुतिः- 'श्रीर्भूमिर्दुर्गा महती तु माया सा लोकसूतिर्जगतो बन्धकी च । उमावागाद्या अन्यजीवास्तदंशास्तदात्मना सर्ववेदेषु गीताः'' ॥ इति । मम योनिरिति गर्भाधानार्था योनिः । न तु माता । वाक्यशेषात् । तथाहि सामवेदे शार्कराक्ष्यश्रुतौ- 'विष्णोर्योनिर्गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना । तथाप्यात्मानं दुःखिवन्मोहनार्थं (प्रदर्शयन्ती) प्रकाशयन्ती सह विष्णुना सा'' ॥ इति । अतः सीतादुःखादिकं सर्वं मृषा(वृथा)प्रदर्शनमेव । तथा च कूर्मपुराणे । न चेयं भूः । तथा च सौकरायणश्रुतिः- 'अन्या भूमिर्भूरियं तस्य छाया भूतावमा सा हि भूतैकयोनिः'' इति ।
'अवाप स्वेच्छया दास्यं जगतां प्रपितामही'' इत्यनभिम्लातश्रुतेर्मात्स्यपुराणोक्तमपि स्वेच्छयैव । महद्ब्रह्मशब्दवाच्यापि प्रकृतिरेव- 'महती ब्रह्मणी द्वे तु प्रकृतिश्च महेश्वरः'' इति तत्रैव ॥३ ॥ बन्धप्रकारं दर्शयति साधनानुष्ठानाय - सत्त्वमित्यादिना ॥ ५, ६ ॥ रज इति तृष्णासङ्गयोः समुद्भवम् । तयोः कारणम् ॥ ७ ॥ अज्ञानं जायते यतस्तदज्ञानजम् । 'प्रमादमोहौ तमसः'' इति वाक्यशेषात् । ॥८ ॥ रजसस्तु फलं दुःखमित्यल्पसुखं दुःखम् । तथाहि शार्कराक्ष्यशाखायाम्- 'रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात् तान् सुखिनो दुःखिन इत्याचक्षते'' । इति । अन्यथा दुःखस्यातिकष्टत्वात् तमोधिकत्वं रजसो न स्यात् ।॥ ९-१८ ॥ परिणामिकर्तारं गुणेभ्योन्यं न पश्यति । अन्यथा 'यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्'' इति श्रुतिविरोधः । 'नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः'' इति मोक्षधर्मे । ॥ १९-२१ ॥ प्रायो न द्वेष्टि न काङ्क्षति । तथाहि सामवेदे भाल्लवेयशाखायाम्- 'रजस्तमःसत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वेष्टि न चापि काङ्क्षते । तथापि सूक्ष्मं सत्त्वगुणं च काङ्क्षेद् यदि प्रविष्टं सुतमश्च जह्यात्'' ॥ इति। 'न हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम । हीनाः सूक्ष्मेण सत्त्वेन ततो वैकारिकाः स्मृऽताः । कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्'' ॥ इति हि मोक्षधर्मे । 'सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः'' । इति च ॥ २२, २३ ॥ तुल्यत्वार्थ उक्तः पुरस्तात् ॥ २४, २५ ॥ ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम् । न तु तावत्प्रियत्वम् । किन्तु प्रियत्वमात्रम् ।'बद्धा वापि तु मुक्ता वा न रमावत् प्रिया हरेः'' । इति पाद्मे । भूयाय भावाय ॥२६ ॥॥ ब्रह्मणो मायायाः ॥ २७ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये चतुर्दशोध्यायः ॥ पञ्चदशोऽध्यायः - संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयति । त्रयोदशोक्तं विविच्य दर्शयति - ऊर्ध्वो विष्णुः ।
'ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि द्रविणसवर्चसम्'' । इति हि श्रुतिः । ऊर्ध्वः उत्तमः सर्वतः । अधो निकृष्टम् । शाखा भूतानि । श्वोप्येकप्रकारेण न तिष्ठतीत्यश्वत्थः । तथापि न प्रवाहव्ययः । पूर्वब्रह्मकाले यथा स्थितिस्तथा सर्वत्रापीत्यव्ययता । फलकारणत्वा- च्छन्दसां पर्णत्वम् । न हि कदाचिदप्यजाते पर्णे फलोत्पत्तिः ॥१ ॥ अव्यक्तेपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीत्यधश्चोर्ध्वं च प्रसृताः । गुणैः सत्त्वादिभिः । प्रतीतिमात्रसुखत्वात् प्रवाला विषयाः । मूलानि भगवद्रूपादीनि । भगवानपि कर्मानुबन्धेन हि फलं ददाति । तथाहि भाल्लवेयशाखायाम्- 'ब्रह्म वा अस्य पृथङ्ग्मूलं प्रकृतिः समूलं सत्त्वादयोर्वाचीनमूलम् । भूतानि शाखाश्छन्दांसि पत्राणि देवनृतिर्यञ्चश्च शाखाः । पत्रेभ्यो हि फलं जायते । मात्राः शिफाः । मुक्तिः फलममुक्तिः फलम् । मोक्षो रसः अमोक्षो रसोव्यक्ते च शाखाः व्यक्ते च शाखा अव्यक्ते च मूलं व्यक्ते च मूलम् एषोश्वत्थो गुणालोलपत्रो न स्थीयते । न न स्थीयते न ह्येष कदाचनान्यथा जायते नान्यथा जायते'' ॥ इति । ॥ २ ॥ यथा स्थितिस्तथा नोपलभ्यते । अन्तादिर्विष्णुः । 'त्वमादिरन्तो जगतोस्य मध्यम्'' इति भागवते । 'अनाद्य(न)न्तं परं ब्रह्म न देवा ऋषयो विदुः'' इति च मोक्षधर्मे ।
असङ्गशस्त्रेण सङ्गराहित्यसहितेन ज्ञानेन । 'ज्ञानासिनोपासनया शितेन'' इति हि भागवते । छेदश्च विमर्श एव । ततश्च तस्यैवाबन्धकं भवति । तथाहि मूलस्थं ब्रह्म प्रतीयते । तच्चोक्तं च तच्छ्रुतावेव- 'विमर्शो हि च्छेदः स तं न बध्नाति बध्नाति चान्यान्'' इति । तदर्थं च तमेव प्रपद्येत । तच्चोक्तं तत्रैव- 'तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद्ब्रह्म मूलं तच्छित्सुः'' इति । 'नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्'' । इति च मोक्षधर्मे ।
छेदनोपायो ह्यत्राकाङ्क्षितः । न च भगवतोन्यः शरण्योस्ति ।॥ ३, ४ ॥ साधनान्तरमाह - निर्मानेति ॥ ५ ॥ स्वरूपं कथयति- न तदित्यादिना ॥ ६, ७ ॥ कर्षतीत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम् । तन्निवारयति- शरीरमित्यादिना । यत् यदा शरीरमाप्नोति उत्क्रामति च जीवः, तदेश्वर एतानि गृहीत्वा संयाति । 'यत्र यत्र च संयुक्त्तो धाता गर्भं पुनः पुनः । तत्र तत्रैव वसति न यत्र स्वयमिच्छति'' इति हि मोक्षधर्मे । 'भावाभावावविजानन् गरीयो जानामि श्रेयो न तु तत् करोमि । आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोस्मि तथा वहामि'' ॥ इति च । 'हत्वा जित्वा च मघवन् यः कश्चित् पुरुषायते । अकर्ता त्वेव भवति कर्ता त्वेव करोति तत्'' ॥ इति च । 'तद्यथानः सुसमाहितमुत्सर्जद् यायादेवमेवायं श(शा)रीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जद् याति'' इति च श्रुतिः । 'वाङ्ग्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्'' ॥ इति च ।
गन्धानिव सूक्ष्माणि । भोगोस्यापि साधितः पुरस्तात् ॥८ ॥ इंद्रियद्वारा हि सोपि भुङ्क्ते । 'यद् (तद्) य इमे वीणायां गायन्ति'' इति च श्रुतिः । गुणान्वितमेव भुङ्क्ते । 'न ह वै देवान् पापं गच्छति'' इति श्रुतेः ॥ ९ ॥ तर्हि किमिति न दृश्यत इत्यत आह - उत्क्रामन्तमित्यादि ॥ १० ॥ यतन्तो ज्ञानं प्राप्य । अकृतात्मानः अशुद्धबुद्धयः ॥ ११ ॥ पूर्वोक्तमेव ज्ञानं प्रपञ्चयति - यदादित्यगतमित्यादिना ॥ १२ ॥ गां भूमिम् ॥ १३ ॥ वेदनिर्णयात्मिका मीमांसा वेदान्तः । तथाहि सामवेदे प्राचीन- शाल(ला)श्रुतिः- 'स वेदान्तकृत् स कालक इति ।स ह्येव युक्तिसूत्रकृत् स कालक इति'' इति ॥१५ ॥ क्षरभूतानि ब्रह्मादीनि । कूटस्थः प्रकृतिः । तथा च शार्कराक्ष्यश्रुतिः- 'प्रजापतिप्रमुखाः सर्वजीवाः क्षरोक्षरः पुरुषो वै प्रधानम् ।तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्'' ॥ इति॥ १६-२० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये पञ्चदशोध्यायः ॥ अथ षोडशोऽध्यायः- पुमर्थसाधनविरोधीनि अनेनाध्यायेन दर्शयति- तपो ब्रह्मचर्यादि । 'ब्रह्मचर्यादिकं तपः'' इति ह्यभिधानम् ॥ १ ॥ पैशुनं परोपद्रवनिमित्तदोषाणां राजादेः कथनम्- 'परोपद्रवहेतूनां दोषाणां पैशुनं वचः ।राजादेस्तु मदाद् भीतेरदृष्टिर्दर्प उच्यते'' ॥ इति ह्यभिधानम् । लौल्यं रागः- 'रागो लौल्यं तथा रक्तिः'' इत्यभिधानात् । अचापलं स्थैर्यम्- 'चपलश्चञ्चलोस्थिरः'' इत्यभिधानात् ॥२ ॥ क्षमा तु क्रोधाभावेन सहापकर्तुरनपकृतिः ।'अक्रोधोदोषकृच्छत्रोः क्षमावान् स निगद्यते'' । इत्यभिधानात् ॥३ ॥ दैवीं सम्पदमभिजातः प्रतिजातः ॥ ५ ॥जगतः सत्यं प्रतिष्ठा ईश्वरश्च विष्णुः । तद्वैपरीत्येनाहुः । 'तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यं तेषामेष सत्यम्'' । इति हि श्रुतिः ।'द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च स्थितं च यच्च सच्च त्यत् च'' इति च । 'तस्योपनिषत् सत्यस्य सत्यमिति । एष ह्येवैतत् सादयति यामयति चेति'' इति च प्राचीनशाल(ला)श्रुतिः । परस्परसम्भवो ह्युक्तः- 'अन्नाद् भवन्ति'' इत्यादिना ॥८ ॥ दुष्पूरो हि कामः । 'पाताल इव दुष्पूरो मां हि क्लेशयते सदा'' । इति हि मोक्षधर्मे ॥१० ॥ मामात्मपरदेहेष्विति । न कस्यचिद् विष्णुः कारयिता, यदि स्या(न्मामपी)न्ममापीदानीं कारयत्वित्यादि । 'ईश्वरो यदि सर्वस्य कारकः कारयीत माम् ।ओति वादिनं ब्रूयात् सदाधो यास्यसीति तु'' ॥ इति हि सामवेदे यास्कश्रुतिः ॥ १८ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये षोडशोध्यायः ॥ अथ सप्तदशोऽध्यायः - गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन । सदसत्कर्मविवेकः । शास्त्रविधिमुत्सृज्य अज्ञात्वैव ।'वेदः कृत्स्नोधिगन्तव्यः सरहस्यो द्विजन्मना'' ।
इति विधिरुत्सृष्टो हि तैः । 'ये वै वेदं न पठन्ते न चार्थं वेदोज्झितांस्तान् विदि्ध सानूनबुद्धीन्'' । इति च माधुच्छन्दसश्रुतिः । अन्यथा तु तामसा इत्येवोच्येत । न तु विभज्य । यदि सात्त्विकास्तर्हि नोत्सृष्टशास्त्राः । न हि वेदविरुद्धो धर्मः । 'वेदोखिलो धर्ममूलम् स्मृतिशीले च तद्विदाम्'' । इति हि स्मृतिः । 'वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः'' इति भागवते ॥१ ॥ अतो विभज्याह- त्रिविधेत्यादिना ॥ २ ॥ सत्त्वानुरूपा चित्तानुरूपा । यो यच्छ्रद्धः स एव सः सात्त्विकश्रद्धः सात्त्विक इत्यादि ॥ ३ ॥कः सात्त्विकश्रद्ध इत्यादि विभज्याह - यजन्त इत्यादिना ॥४॥ भगवत्कर्शनं नामाल्पत्वदृष्टिरेव । 'यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोतिपापी'' । इति ह्यनभिम्लातश्रुतिः । आसुरो निश्चयो येषां त आसुरनिश्चयाः । 'देवास्तु सात्त्विकाः प्रोक्ताः दैत्या राजसतामसाः'' । इति ह्याग्निवेश्यश्रुतिः ॥ ६, ७ ॥ प्रीतिरानन्तरिका । हृद्यत्वं दर्शने । स्थिराश्च न तदैव पक्वा भवन्ति । तथा ह्याज्यादयः ॥ ८ ॥ सौम्यत्वमक्रौर्यम् । 'अक्रूरः सौम्य उच्यते'' इति ह्यभिधानम् । मौनं मननशीलत्वम्- 'बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः'' इति हि श्रुतिः ।'एतेन हीदं सर्वं मतम् । यदनेनेदं सर्वं मतं तस्मान्मुनिस्तस्मान्मु- निरित्याचक्षते'' । इति हि भाल्लवेयश्रुतिः । कथमन्यथा मानसं तपः स्यात् ? ॥१६ ॥ पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह- ओं तदित्यादिना । परस्य ब्रह्मणो ह्येतानि नामानि- 'ओतं जगद् यत्र स्वयं च पूर्णो वेदोक्तरूपोनुपचारतश्च ।
सर्वैः शुभैश्चाभियुतो नचान्यैः ओं तत्सदित्येनमतो वदन्ति'' ॥ इति हि ऋग्वेदखिलेषु । द्वितीयपादस्तच्छब्दार्थः । 'सदेव सोम्येदमग्र आसीत्'' इति च । 'ओमिति ब्रह्म'' इति च । तेन ब्रह्मणा । आत्मपूजार्थम् । वेदविधिर्व्यञ्जनम् । मा तूक्ता पुरस्तात् ॥ २३, २४ ॥तत् फलं मे स्यादित्यनभिसन्धाय ॥ २५ ॥ सद्भावशब्देन प्रजननं सूचितम् । ओमित्युक्त्वानभिसन्धाय फलं यज्ञदानतपआदिकृतामतिप्रीतेर्नामसाम्याद् ब्रह्मैव निष्पादितं भवतीत्याशयः । तथा च ऋग्वेदखिलेषु- 'ओं यज्ञाद्या निष्फलं कर्म तत् स्यात् सद् वै तदर्थं कर्म वदन्ति वेदाः । तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य'' ॥ इति ॥ २६-२८ ॥॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये सप्तदशोध्यायः ॥ अष्टादशोऽध्यायः पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरति अनेनाध्यायेन सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोनुक्तत्रैगुण्यवादी चायम् । फलानिच्छयाकरणेन वा काम्यकर्मन्यासः संन्यासः । त्यागस्तु फलत्याग एव । तथाहि प्राचीनशालश्रुतिः- 'अनिच्छयाकर्मणा वापि काम्यकर्मन्यासो न्यासः फलत्यागस्तु त्यागः'' इति ॥ १, २ ॥ 'मनीषिणः'' इति (उक्तत्वात्) विशेषणात् पूर्वपक्षोपि ग्राह्य एव । फलत्यागेन त्यागो विवक्षितो यज्ञादेस्तत्पक्षे । 'यस्तु कर्मफलत्यागी'' इति च वक्ष्यति । अत एक एवायं पक्षः ॥ ३ ॥ तत्प्रकारं चाह - निश्चयमित्यादिना ॥ ४ ॥ यज्ञभेद उक्तो 'द्रव्ययज्ञाः'' इत्यादिना । दाने त्वभयदानमन्तर्भवति । एतेषां मध्ये यत्किञ्चिद् यज्ञादिकं कर्तव्यमेवेत्यर्थः । अन्यथा 'ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ।यदीच्छेन्मोक्षमास्थातुं उत्तमाश्रममाश्रयेत्'' ॥ इत्यादिव्यासस्मृऽतिविरोधः। ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते । अतो यद् वचोन्यथा प्रतीयते, अधिकारभेदेन तद् योज्यम् । अन्यथेतरेषां गत्यभावात् । ॥ ५, ६ ॥ अन्यः त्यागार्थो न युक्त इत्याह- न हीति ॥ ११ ॥ त्यागं स्तौति- अनिष्टमिति ॥ १२ ॥ पुनः संन्यासं प्रपञ्चयितुं कर्मकारणान्याह - पञ्चेत्यादिना । साङ्ख्यकृतान्ते ज्ञानसिद्धान्ते ॥ १३ ॥ अधिष्ठानं देहादिः । कर्ता विष्णुः । स हि सर्वकर्तेत्युक्तम् । जीवस्य चाकर्तृत्वे प्रमाणमुक्तम् । करणमिंद्रियादि च । चेष्टाः क्रियाः । हस्तादिक्रियाभिर्हि होमादिकर्माणि जायन्ते । ध्यानादेरपि मानसी चेष्टा कारणम् । पूर्वतनचेष्टापि संस्कारकारणत्वेन भवति । दैवमदृष्टम् । तथाचायास्यश्रुतिः- 'देहो ब्रह्माथेंद्रियाद्याः क्रियाश्च तथादृष्टं पञ्चमं कर्महेतुः'' । इति । ॥ १४, १५ ॥ केवलं निष्क्रियम् । 'एनं केवलमात्मानं निष्क्रियत्वाद् वदन्ति हि'' । इति तत्रैव ॥१६ ॥ तज्ज्ञानं स्तौति- यस्येति । यस्त्वीषद् बद्ध्यते स ईषदहङ्कारी च ।॥१७ ॥ एवं तर्हि न पुरुषमपेक्ष्य विधिः, अकर्तृत्वादित्यत आह- ज्ञानमिति । त्रिविधा कर्मचोदना । एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधेत्युच्यते । कारणानि सङ्क्षिप्याह- करणमिति । कर्मसङ्ग्रहः कर्मकारणसङ्क्षेपः । अधिष्ठानादि करण एवान्तर्भूतम् । तथाह्यृग्वेदखिलेषु- 'ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः । करणं चैव कर्ता च कर्मकारणसङ्ग्रहः'' ॥ इति । अकर्तृत्वेपि विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्या उक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति । ईश्वराधीनत्वेपि विधिद्वारा नियतस्तेनैव । यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण । फलं च नियतम् । वस्तुतोकर्तृत्वेप्याभिमानिकं कर्तृत्वं तस्यैव । स्वातन्त्र्यं च जडमपेक्ष्येति न प्रवृत्तिविधिवैयर्थ्यम् । सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते ॥१८ ॥ पुनः साधनप्रथनाय गुणभेदानाह- ज्ञानमित्यादिना । गुणसङ्ख्याने गुणगणनप्रकरणे ॥ १९ ॥ एकं भावं विष्णुम् ॥ २० ॥ परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री - परेण यः कृतो दोषो दीर्घकालकृतोपि वा । यस्तस्य सूचको दोषाद् दीर्घसूत्री स उच्यते'' ॥ इत्यभिधानात् ॥२८ ॥ यथार्थत्वनियमाभा(वे)वो राजस्याः । अन्यथा तामस्याः भेदाभावात् । ॥३१ ॥ नैष्कर्म्यसिदि्धं नैष्कर्म्यफलां योगसिदि्धम् ॥ ४९ ॥ यथा येनोपायेन सिदि्धं प्राप्तो ब्रह्म प्राप्नोति तथा निबोध । या सिदि्धर्ज्ञानस्य परा निष्ठा ॥ ५० ॥ ब्रह्मभूयाय कल्पते । ब्रह्मणि भावो ब्रह्मभूयम् । ब्रह्मणि स्थितिः सर्वदा तन्मनस्कतेत्यर्थः ॥ ५३ ॥ पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति- सर्वकर्माणीत्यादिना ॥ ५६ ॥ परोक्षवचनं तु द्रोणं प्रति भीमवचनवत् ॥ ६१-६२ ॥ धर्मत्यागः फलत्यागः । कथमन्यथा युद्धविधिः ? 'यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते'' इति चोक्तम् ॥ ६६ ॥ 'यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं ब तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥ पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः । निरूपणं कृतं तेन प्रीयतां मे सदा विभुः ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये अष्टादशोध्यायः ॥