Mahabharata Tatparya Nirnaya 1.102

वसुदेवकृता कृष्णस्तुतिः

वसुदेव उवाच

विदितोऽसि भवान् साक्षात्पुरुषः प्रकृतेः परः ।

केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ १३॥

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।

तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४॥

य एतेऽविकृता भावास्सप्त ते विकृतैः सह ।

नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १५॥

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।

प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १६॥

एवं भवान् बुद्ध्यनुमेयलक्षणो र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।

अनावृतत्वाद्बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७॥

यदात्मनो दृश्यगुणेषु सन्निधेर्व्यवस्यते स्वव्यतिरेकतोऽबुधैः ।

विनानुवादं न च तन्मनीषितं सम्यग् वचो व्यक्तमुपाददत्पुमान् ॥ १८॥

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात् ।

त्वयीश्वरे ब्रह्मणि नो विरुध्यते तदाश्रयत्वादुपचर्यसे गुणैः ॥ १९॥

स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः 

सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २०॥

त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर।

राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमानां निहनिष्यसे चमूम् ॥ २१॥

अयं त्वमस्यस्तव जन्म मे गृहे श्रुत्वाग्रजांस्ते न्यहनत्सुरेश्वर । 

स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ॥ २२॥

।। इति श्रीमद्भागवते वसुदेवकृता कृष्णस्तुतिः ।।

देवकीकृता कृष्णस्तुतिः

देवक्युवाच

रूपं यत्तत्प्राहुरव्यक्तमाद्यं 

ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ,

सत्तामात्रं निर्विशेषं निरीहं 

स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥

नष्टे लोके द्विपरार्धावसाने 

महाभूतेष्वादिभूतं गतेषु ।

व्यक्तेऽव्यक्तं कालवेगेन याते 

भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥

योऽयं कालस्तस्य तेऽव्यक्तबन्धो 

चेष्टामाहुश्चेष्टते येन विश्वम्, 

निमेषादिर्वत्सरान्तो महीयांस्तं 

त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥

मर्त्यो मृत्युव्यालभीतः पलायन् 

लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।

त्वत्पादाब्जं प्राप्य यदृच्छयाद्य 

स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥

स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि 

त्रस्तान् भृत्यवित्रासहासि ।

रूपं चेदं पौरुषं ध्यानधिष्ण्यं 

मा प्त्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।

समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।

शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥

विश्वं यदेतत्स्वतनौ निशान्ते 

यथावकाशं पुरुषः परो भवान् ।

बिभर्ति सोऽयं मम गर्भगोऽभूदहो 

नृलोकस्य विडम्बनं हि तत् ॥ ३१॥

।। इति श्रीमद्भागवते देवकीकृता कृष्णस्तुतिः ।।